14.057
वैशम्पायन उवाच॥
स मित्रसहमासाद्य त्वभिज्ञानमयाचत। तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा ॥१४-५७-१॥
सौदास उवाच॥
न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः। एतन्मे मतमाज्ञाय प्रयच्छ मणिकुण्डले ॥१४-५७-२॥
वैशम्पायन उवाच॥
इत्युक्तस्तामुत्तङ्कस्तु भर्तुर्वाक्यमथाब्रवीत्। श्रुत्वा च सा ततः प्रादात्तस्मै ते मणिकुण्डले ॥१४-५७-३॥
अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत्। किमेतद्गुह्यवचनं श्रोतुमिच्छामि पार्थिव ॥१४-५७-४॥
सौदास उवाच॥
प्रजा निसर्गाद्विप्रान्वै क्षत्रियाः पूजयन्ति ह। विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति नः ॥१४-५७-५॥
सोऽहं द्विजेभ्यः प्रणतो विप्राद्दोषमवाप्तवान्। गतिमन्यां न पश्यामि मदयन्तीसहायवान् ॥ स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम ॥१४-५७-६॥
न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः। शक्यं नृलोके संस्थातुं प्रेत्य वा सुखमेधितुम् ॥१४-५७-७॥
तदिष्टे ते मयैवैते दत्ते स्वे मणिकुण्डले। यः कृतस्तेऽद्य समयः सफलं तं कुरुष्व मे ॥१४-५७-८॥
उत्तङ्क उवाच॥
राजंस्तथेह कर्तास्मि पुनरेष्यामि ते वशम्। प्रश्नं तु कञ्चित्प्रष्टुं त्वां व्यवसिष्ये परन्तप ॥१४-५७-९॥
सौदास उवाच॥
ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः। छेत्तास्मि संशयं तेऽद्य न मेऽत्रास्ति विचारणा ॥१४-५७-१०॥
उत्तङ्क उवाच॥
प्राहुर्वाक्सङ्गतं मित्रं धर्मनैपुण्यदर्शिनः। मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः ॥१४-५७-११॥
स भवान्मित्रतामद्य सम्प्राप्तो मम पार्थिव। स मे बुद्धिं प्रयच्छस्व समां बुद्धिमतां वर ॥१४-५७-१२॥
अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः। भवत्सकाशमागन्तुं क्षमं मम न वेति वा ॥१४-५७-१३॥
सौदास उवाच॥
क्षमं चेदिह वक्तव्यं मया द्विजवरोत्तम। मत्समीपं द्विजश्रेष्ठ नागन्तव्यं कथञ्चन ॥१४-५७-१४॥
एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह। आगच्छतो हि ते विप्र भवेन्मृत्युरसंशयम् ॥१४-५७-१५॥
वैशम्पायन उवाच॥
इत्युक्तः स तदा राज्ञा क्षमं बुद्धिमता हितम्। समनुज्ञाप्य राजानमहल्यां प्रति जग्मिवान् ॥१४-५७-१६॥
गृहीत्वा कुण्डले दिव्ये गुरुपत्न्याः प्रियङ्करः। जवेन महता प्रायाद्गौतमस्याश्रमं प्रति ॥१४-५७-१७॥
यथा तयो रक्षणं च मदयन्त्याभिभाषितम्। तथा ते कुण्डले बद्ध्वा तथा कृष्णाजिनेऽनयत् ॥१४-५७-१८॥
स कस्मिंश्चित्क्षुधाविष्टः फलभारसमन्वितम्। बिल्वं ददर्श कस्मिंश्चिदारुरोह क्षुधान्वितः ॥१४-५७-१९॥
शाखास्वासज्य तस्यैव कृष्णाजिनमरिंदम। यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै ॥१४-५७-२०॥
विशीर्णबन्धने तस्मिन्गते कृष्णाजिने महीम्। अपश्यद्भुजगः कश्चित्ते तत्र मणिकुण्डले ॥१४-५७-२१॥
ऐरावतकुलोत्पन्नः शीघ्रो भूत्वा तदा स वै। विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले ॥१४-५७-२२॥
ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन ह। पपात वृक्षात्सोद्वेगो दुःखात्परमकोपनः ॥१४-५७-२३॥
स दण्डकाष्ठमादाय वल्मीकमखनत्तदा। क्रोधामर्षाभितप्ताङ्गस्ततो वै द्विजपुङ्गवः ॥१४-५७-२४॥
तस्य वेगमसह्यं तमसहन्ती वसुन्धरा। दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमातुरा ॥१४-५७-२५॥
ततः खनत एवाथ विप्रर्षेर्धरणीतलम्। नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात् ॥१४-५७-२६॥
रथेन हरियुक्तेन तं देशमुपजग्मिवान्। वज्रपाणिर्महातेजा ददर्श च द्विजोत्तमम् ॥१४-५७-२७॥
स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः। उत्तङ्कमब्रवीत्तात नैतच्छक्यं त्वयेति वै ॥१४-५७-२८॥
इतो हि नागलोको वै योजनानि सहस्रशः। न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव ॥१४-५७-२९॥
उत्तङ्क उवाच॥
नागलोके यदि ब्रह्मन्न शक्ये कुण्डले मया। प्राप्तुं प्राणान्विमोक्ष्यामि पश्यतस्ते द्विजोत्तम ॥१४-५७-३०॥
यदा स नाशकत्तस्य निश्चयं कर्तुमन्यथा। वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युयोज ह ॥१४-५७-३१॥
ततो वज्रप्रहारैस्तैर्दार्यमाणा वसुन्धरा। नागलोकस्य पन्थानमकरोज्जनमेजय ॥१४-५७-३२॥
स तेन मार्गेण तदा नागलोकं विवेश ह। ददर्श नागलोकं च योजनानि सहस्रशः ॥१४-५७-३३॥
प्राकारनिचयैर्दिव्यैर्मणिमुक्ताभ्यलङ्कृतैः। उपपन्नं महाभाग शातकुम्भमयैस्तथा ॥१४-५७-३४॥
वापीः स्फटिकसोपाना नदीश्च विमलोदकाः। ददर्श वृक्षांश्च बहून्नानाद्विजगणायुतान् ॥१४-५७-३५॥
तस्य लोकस्य च द्वारं ददर्श स भृगूद्वहः। पञ्चयोजनविस्तारमायतं शतयोजनम् ॥१४-५७-३६॥
नागलोकमुत्तङ्कस्तु प्रेक्ष्य दीनोऽभवत्तदा। निराशश्चाभवत्तात कुण्डलाहरणे पुनः ॥१४-५७-३७॥
तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः। ताम्रास्यनेत्रः कौरव्य प्रज्वलन्निव तेजसा ॥१४-५७-३८॥
धमस्वापानमेतन्मे ततस्त्वं विप्र लल्प्स्यसे। ऐरावतसुतेनेह तवानीते हि कुण्डले ॥१४-५७-३९॥
मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथञ्चन। त्वयैतद्धि समाचीर्णं गौतमस्याश्रमे तदा ॥१४-५७-४०॥
उत्तङ्क उवाच॥
कथं भवन्तं जानीयामुपाध्यायाश्रमं प्रति। यन्मया चीर्णपूर्वं च श्रोतुमिच्छामि तद्ध्यहम् ॥१४-५७-४१॥
अश्व उवाच॥
गुरोर्गुरुं मां जानीहि ज्वलितं जातवेदसम्। त्वया ह्यहं सदा वत्स गुरोरर्थेऽभिपूजितः ॥१४-५७-४२॥
सततं पूजितो विप्र शुचिना भृगुनन्दन। तस्माच्छ्रेयो विधास्यामि तवैवं कुरु मा चिरम् ॥१४-५७-४३॥
इत्युक्तः स तथाकार्षीदुत्तङ्कश्चित्रभानुना। घृतार्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षया ॥१४-५७-४४॥
ततोऽस्य रोमकूपेभ्यो ध्मायमानस्य भारत। घनः प्रादुरभूद्धूमो नागलोकभयावहः ॥१४-५७-४५॥
तेन धूमेन सहसा वर्धमानेन भारत। नागलोके महाराज न प्रज्ञायत किञ्चन ॥१४-५७-४६॥
हाहाकृतमभूत्सर्वमैरावतनिवेशनम्। वासुकिप्रमुखानां च नागानां जनमेजय ॥१४-५७-४७॥
न प्रकाशन्त वेश्मानि धूमरुद्धानि भारत। नीहारसंवृतानीव वनानि गिरयस्तथा ॥१४-५७-४८॥
ते धूमरक्तनयना वह्नितेजोभितापिताः। आजग्मुर्निश्चयं ज्ञातुं भार्गवस्यातितेजसः ॥१४-५७-४९॥
श्रुत्वा च निश्चयं तस्य महर्षेस्तिग्मतेजसः। सम्भ्रान्तमनसः सर्वे पूजां चक्रुर्यथाविधि ॥१४-५७-५०॥
सर्वे प्राञ्जलयो नागा वृद्धबालपुरोगमाः। शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति ॥१४-५७-५१॥
प्रसाद्य ब्राह्मणं ते तु पाद्यमर्घ्यं निवेद्य च। प्रायच्छन्कुण्डले दिव्ये पन्नगाः परमार्चिते ॥१४-५७-५२॥
ततः सम्पूजितो नागैस्तत्रोत्तङ्कः प्रतापवान्। अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसद्म तत् ॥१४-५७-५३॥
स गत्वा त्वरितो राजन्गौतमस्य निवेशनम्। प्रायच्छत्कुण्डले दिव्ये गुरुपत्न्यै तदानघ ॥१४-५७-५४॥
एवं महात्मना तेन त्रीँल्लोकाञ्जनमेजय। परिक्रम्याहृते दिव्ये ततस्ते मणिकुण्डले ॥१४-५७-५५॥
एवम्प्रभावः स मुनिरुत्तङ्को भरतर्षभ। परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि ॥१४-५७-५६॥