14.058
वासुदेवेन वसुदेवं प्रति युद्धाख्यानम्
जनमेजय उवाच॥
उत्तङ्काय वरं दत्त्वा गोविन्दो द्विजसत्तम। अत ऊर्ध्वं महाबाहुः किं चकार महायशाः ॥१४-५८-१॥
वैशम्पायन उवाच॥
दत्त्वा वरमुत्तङ्काय प्रायात्सात्यकिना सह। द्वारकामेव गोविन्दः शीघ्रवेगैर्महाहयैः ॥१४-५८-२॥
सरांसि च नदीश्चैव वनानि विविधानि च। अतिक्रम्य ससादाथ रम्यां द्वारवतीं पुरीम् ॥१४-५८-३॥
वर्तमाने महाराज महे रैवतकस्य च। उपायात्पुण्डरीकाक्षो युयुधानानुगस्तदा ॥१४-५८-४॥
अलङ्कृतस्तु स गिरिर्नानारूपविचित्रितैः। बभौ रुक्ममयैः काशैः सर्वतः पुरुषर्षभ ॥१४-५८-५॥
काञ्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च। वासोभिश्च महाशैलः कल्पवृक्षैश्च सर्वशः ॥१४-५८-६॥
दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः। गुहानिर्झरदेशेषु दिवाभूतो बभूव ह ॥१४-५८-७॥
पताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः। पुम्भिः स्त्रीभिश्च सङ्घुष्टः प्रगीत इव चाभवत् ॥ अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव ॥१४-५८-८॥
मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत। गायतां पर्वतेन्द्रस्य दिवस्पृगिव निस्वनः ॥१४-५८-९॥
प्रमत्तमत्तसंमत्तक्ष्वेडितोत्कृष्टसङ्कुला। तथा किलकिलाशब्दैर्भूरभूत्सुमनोहरा ॥१४-५८-१०॥
विपणापणवान्रम्यो भक्ष्यभोज्यविहारवान्। वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान् ॥१४-५८-११॥
सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव ह। दीनान्धकृपणादिभ्यो दीयमानेन चानिशम् ॥ बभौ परमकल्याणो महस्तस्य महागिरेः ॥१४-५८-१२॥
पुण्यावसथवान्वीर पुण्यकृद्भिर्निषेवितः। विहारो वृष्णिवीराणां महे रैवतकस्य ह ॥ स नगो वेश्मसङ्कीर्णो देवलोक इवाबभौ ॥१४-५८-१३॥
तदा च कृष्णसांनिध्यमासाद्य भरतर्षभ। शक्रसद्मप्रतीकाशो बभूव स हि शैलराट् ॥१४-५८-१४॥
ततः सम्पूज्यमानः स विवेश भवनं शुभम्। गोविन्दः सात्यकिश्चैव जगाम भवनं स्वकम् ॥१४-५८-१५॥
विवेश च स हृष्टात्मा चिरकालप्रवासकः। कृत्वा नसुकरं कर्म दानवेष्विव वासवः ॥१४-५८-१६॥
उपयातं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तदा। अभ्यगच्छन्महात्मानं देवा इव शतक्रतुम् ॥१४-५८-१७॥
स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा। अभ्यवादयत प्रीतः पितरं मातरं तथा ॥१४-५८-१८॥
ताभ्यां च सम्परिष्वक्तः सान्त्वितश्च महाभुजः। उपोपविष्टस्तैः सर्वैर्वृष्णिभिः परिवारितः ॥१४-५८-१९॥
स विश्रान्तो महातेजाः कृतपादावसेचनः। कथयामास तं कृष्णः पृष्टः पित्रा महाहवम् ॥१४-५८-२०॥