14.059
वसुदेव उवाच॥
श्रुतवानस्मि वार्ष्णेय सङ्ग्रामं परमाद्भुतम्। नराणां वदतां पुत्र कथोद्घातेषु नित्यशः ॥१४-५९-१॥
त्वं तु प्रत्यक्षदर्शी च कार्यज्ञश्च महाभुज। तस्मात्प्रब्रूहि सङ्ग्रामं याथातथ्येन मेऽनघ ॥१४-५९-२॥
यथा तदभवद्युद्धं पाण्डवानां महात्मनाम्। भीष्मकर्णकृपद्रोणशल्यादिभिरनुत्तमम् ॥१४-५९-३॥
अन्येषां क्षत्रियाणां च कृतास्त्राणामनेकशः। नानावेषाकृतिमतां नानादेशनिवासिनाम् ॥१४-५९-४॥
इत्युक्तः पुण्डरीकाक्षः पित्रा मातुस्तदन्तिके। शशंस कुरुवीराणां सङ्ग्रामे निधनं यथा ॥१४-५९-५॥
वासुदेव उवाच॥
अत्यद्भुतानि कर्माणि क्षत्रियाणां महात्मनाम्। बहुलत्वान्न सङ्ख्यातुं शक्यान्यब्दशतैरपि ॥१४-५९-६॥
प्राधान्यतस्तु गदतः समासेनैव मे शृणु। कर्माणि पृथिवीशानां यथावदमरद्युते ॥१४-५९-७॥
भीष्मः सेनापतिरभूदेकादशचमूपतिः। कौरव्यः कौरवेयाणां देवानामिव वासवः ॥१४-५९-८॥
शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः। बभूव रक्षितो धीमान्धीमता सव्यसाचिना ॥१४-५९-९॥
तेषां तदभवद्युद्धं दशाहानि महात्मनाम्। कुरूणां पाण्डवानां च सुमहद्रोमहर्षणम् ॥१४-५९-१०॥
ततः शिखण्डी गाङ्गेयमयुध्यन्तं महाहवे। जघान बहुभिर्बाणैः सह गाण्डीवधन्वना ॥१४-५९-११॥
अकरोत्स ततः कालं शरतल्पगतो मुनिः। अयनं दक्षिणं हित्वा सम्प्राप्ते चोत्तरायणे ॥१४-५९-१२॥
ततः सेनापतिरभूद्द्रोणोऽस्त्रविदुषां वरः। प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेरिव ॥१४-५९-१३॥
अक्षौहिणीभिः शिष्टाभिर्नवभिर्द्विजसत्तमः। संवृतः समरश्लाघी गुप्तः कृपवृषादिभिः ॥१४-५९-१४॥
धृष्टद्युम्नस्त्वभून्नेता पाण्डवानां महास्त्रवित्। गुप्तो भीमेन तेजस्वी मित्रेण वरुणो यथा ॥१४-५९-१५॥
पञ्चसेनापरिवृतो द्रोणप्रेप्सुर्महामनाः। पितुर्निकारान्संस्मृत्य रणे कर्माकरोन्महत् ॥१४-५९-१६॥
तस्मिंस्ते पृथिवीपाला द्रोणपार्षतसङ्गरे। नानादिगागता वीराः प्रायशो निधनं गताः ॥१४-५९-१७॥
दिनानि पञ्च तद्युद्धमभूत्परमदारुणम्। ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः ॥१४-५९-१८॥
ततः सेनापतिरभूत्कर्णो दौर्योधने बले। अक्षौहिणीभिः शिष्टाभिर्वृतः पञ्चभिराहवे ॥१४-५९-१९॥
तिस्रस्तु पाण्डुपुत्राणां चम्वो बीभत्सुपालिताः। हतप्रवीरभूयिष्ठा बभूवुः समवस्थिताः ॥१४-५९-२०॥
ततः पार्थं समासाद्य पतङ्ग इव पावकम्। पञ्चत्वमगमत्सौतिर्द्वितीयेऽहनि दारुणे ॥१४-५९-२१॥
हते कर्णे तु कौरव्या निरुत्साहा हतौजसः। अक्षौहिणीभिस्तिसृभिर्मद्रेशं पर्यवारयन् ॥१४-५९-२२॥
हतवाहनभूयिष्ठाः पाण्डवास्तु युधिष्ठिरम्। अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन् ॥१४-५९-२३॥
अवधीन्मद्रराजानं कुरुराजो युधिष्ठिरः। तस्मिंस्तथार्धदिवसे कर्म कृत्वा सुदुष्करम् ॥१४-५९-२४॥
हते शल्ये तु शकुनिं सहदेवो महामनाः। आहर्तारं कलेस्तस्य जघानामितविक्रमः ॥१४-५९-२५॥
निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः। अपाक्रामद्गदापाणिर्हतभूयिष्ठसैनिकः ॥१४-५९-२६॥
तमन्वधावत्सङ्क्रुद्धो भीमसेनः प्रतापवान्। ह्रदे द्वैपायने चापि सलिलस्थं ददर्श तम् ॥१४-५९-२७॥
ततः शिष्टेन सैन्येन समन्तात्परिवार्य तम्। उपोपविविशुर्हृष्टा ह्रदस्थं पञ्च पाण्डवाः ॥१४-५९-२८॥
विगाह्य सलिलं त्वाशु वाग्बाणैर्भृशविक्षतः। उत्थाय स गदापाणिर्युद्धाय समुपस्थितः ॥१४-५९-२९॥
ततः स निहतो राजा धार्तराष्ट्रो महामृधे। भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम् ॥१४-५९-३०॥
ततस्तत्पाण्डवं सैन्यं संसुप्तं शिबिरे निशि। निहतं द्रोणपुत्रेण पितुर्वधममृष्यता ॥१४-५९-३१॥
हतपुत्रा हतबला हतमित्रा मया सह। युयुधानद्वितीयेन पञ्च शिष्टाः स्म पाण्डवाः ॥१४-५९-३२॥
सहैव कृपभोजाभ्यां द्रौणिर्युद्धादमुच्यत। युयुत्सुश्चापि कौरव्यो मुक्तः पाण्डवसंश्रयात् ॥१४-५९-३३॥
निहते कौरवेन्द्रे च सानुबन्धे सुयोधने। विदुरः सञ्जयश्चैव धर्मराजमुपस्थितौ ॥१४-५९-३४॥
एवं तदभवद्युद्धमहान्यष्टादश प्रभो। यत्र ते पृथिवीपाला निहताः स्वर्गमावसन् ॥१४-५९-३५॥
वैशम्पायन उवाच॥
शृण्वतां तु महाराज कथां तां रोमहर्षणीम्। दुःखहर्षपरिक्लेशा वृष्णीनामभवंस्तदा ॥१४-५९-३६॥