14.060
वैशम्पायन उवाच॥
कथयन्नेव तु तदा वासुदेवः प्रतापवान्। महाभारतयुद्धं तत्कथान्ते पितुरग्रतः ॥१४-६०-१॥
अभिमन्योर्वधं वीरः सोऽत्यक्रामत भारत। अप्रियं वसुदेवस्य मा भूदिति महामनाः ॥१४-६०-२॥
मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम्। दुःखशोकाभिसन्तप्तो भवेदिति महामतिः ॥१४-६०-३॥
सुभद्रा तु तमुत्क्रान्तमात्मजस्य वधं रणे। आचक्ष्व कृष्ण सौभद्रवधमित्यपतद्भुवि ॥१४-६०-४॥
तामपश्यन्निपतितां वसुदेवः क्षितौ तदा। दृष्ट्वैव च पपातोर्व्यां सोऽपि दुःखेन मूर्छितः ॥१४-६०-५॥
ततः स दौहित्रवधाद्दुःखशोकसमन्वितः। वसुदेवो महाराज कृष्णं वाक्यमथाब्रवीत् ॥१४-६०-६॥
ननु त्वं पुण्डरीकाक्ष सत्यवाग्भुवि विश्रुतः। यद्दौहित्रवधं मेऽद्य न ख्यापयसि शत्रुहन् ॥१४-६०-७॥
तद्भागिनेयनिधनं तत्त्वेनाचक्ष्व मे विभो। सदृशाक्षस्तव कथं शत्रुभिर्निहतो रणे ॥१४-६०-८॥
दुर्मरं बत वार्ष्णेय कालेऽप्राप्ते नृभिः सदा। यत्र मे हृदयं दुःखाच्छतधा न विदीर्यते ॥१४-६०-९॥
किमब्रवीत्त्वा सङ्ग्रामे सुभद्रां मातरं प्रति। मां चापि पुण्डरीकाक्ष चपलाक्षः प्रियो मम ॥१४-६०-१०॥
आहवं पृष्ठतः कृत्वा कच्चिन्न निहतः परैः। कच्चिन्मुखं न गोविन्द तेनाजौ विकृतं कृतम् ॥१४-६०-११॥
स हि कृष्ण महातेजाः श्लाघन्निव ममाग्रतः। बालभावेन विजयमात्मनोऽकथयत्प्रभुः ॥१४-६०-१२॥
कच्चिन्न विकृतो बालो द्रोणकर्णकृपादिभिः। धरण्यां निहतः शेते तन्ममाचक्ष्व केशव ॥१४-६०-१३॥
स हि द्रोणं च भीष्मं च कर्णं च रथिनां वरम्। स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम ॥१४-६०-१४॥
एवंविधं बहु तदा विलपन्तं सुदुःखितम्। पितरं दुःखिततरो गोविन्दो वाक्यमब्रवीत् ॥१४-६०-१५॥
न तेन विकृतं वक्त्रं कृतं सङ्ग्राममूर्धनि। न पृष्ठतः कृतश्चापि सङ्ग्रामस्तेन दुस्तरः ॥१४-६०-१६॥
निहत्य पृथिवीपालान्सहस्रशतसङ्घशः। खेदितो द्रोणकर्णाभ्यां दौःशासनिवशं गतः ॥१४-६०-१७॥
एको ह्येकेन सततं युध्यमानो यदि प्रभो। न स शक्येत सङ्ग्रामे निहन्तुमपि वज्रिणा ॥१४-६०-१८॥
समाहूते तु सङ्ग्रामे पार्थे संशप्तकैस्तदा। पर्यवार्यत सङ्क्रुद्धैः स द्रोणादिभिराहवे ॥१४-६०-१९॥
ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे पितुः। दौहित्रस्तव वार्ष्णेय दौःशासनिवशं गतः ॥१४-६०-२०॥
नूनं च स गतः स्वर्गं जहि शोकं महामते। न हि व्यसनमासाद्य सीदन्ते सन्नराः क्वचित् ॥१४-६०-२१॥
द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः। रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद्दिवम् ॥१४-६०-२२॥
स शोकं जहि दुर्धर्ष मा च मन्युवशं गमः। शस्त्रपूतां हि स गतिं गतः परपुरञ्जयः ॥१४-६०-२३॥
तस्मिंस्तु निहते वीरे सुभद्रेयं स्वसा मम। दुःखार्ताथो पृथां प्राप्य कुररीव ननाद ह ॥१४-६०-२४॥
द्रौपदीं च समासाद्य पर्यपृच्छत दुःखिता। आर्ये क्व दारकाः सर्वे द्रष्टुमिच्छामि तानहम् ॥१४-६०-२५॥
अस्यास्तु वचनं श्रुत्वा सर्वास्ताः कुरुयोषितः। भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत् ॥१४-६०-२६॥
उत्तरां चाब्रवीद्भद्रा भद्रे भर्ता क्व ते गतः। क्षिप्रमागमनं मह्यं तस्मै त्वं वेदयस्व ह ॥१४-६०-२७॥
ननु नाम स वैराटि श्रुत्वा मम गिरं पुरा। भवनान्निष्पतत्याशु कस्मान्नाभ्येति ते पतिः ॥१४-६०-२८॥
अभिमन्यो कुशलिनो मातुलास्ते महारथाः। कुशलं चाब्रुवन्सर्वे त्वां युयुत्सुमिहागतम् ॥१४-६०-२९॥
आचक्ष्व मेऽद्य सङ्ग्रामं यथापूर्वमरिंदम। कस्मादेव विलपतीं नाद्येह प्रतिभाषसे ॥१४-६०-३०॥
एवमादि तु वार्ष्णेय्यास्तदस्याः परिदेवितम्। श्रुत्वा पृथा सुदुःखार्ता शनैर्वाक्यमथाब्रवीत् ॥१४-६०-३१॥
सुभद्रे वासुदेवेन तथा सात्यकिना रणे। पित्रा च पालितो बालः स हतः कालधर्मणा ॥१४-६०-३२॥
ईदृशो मर्त्यधर्मोऽयं मा शुचो यदुनन्दिनि। पुत्रो हि तव दुर्धर्षः सम्प्राप्तः परमां गतिम् ॥१४-६०-३३॥
कुले महति जातासि क्षत्रियाणां महात्मनाम्। मा शुचश्चपलाक्षं त्वं पुण्डरीकनिभेक्षणे ॥१४-६०-३४॥
उत्तरां त्वमवेक्षस्व गर्भिणीं मा शुचः शुभे। पुत्रमेषा हि तस्याशु जनयिष्यति भामिनी ॥१४-६०-३५॥
एवमाश्वासयित्वैनां कुन्ती यदुकुलोद्वह। विहाय शोकं दुर्धर्षं श्राद्धमस्य ह्यकल्पयत् ॥१४-६०-३६॥
समनुज्ञाप्य धर्मज्ञा राजानं भीममेव च। यमौ यमोपमौ चैव ददौ दानान्यनेकशः ॥१४-६०-३७॥
ततः प्रदाय बह्वीर्गा ब्राह्मणेभ्यो यदूद्वह। समहृष्यत वार्ष्णेयी वैराटीं चाब्रवीदिदम् ॥१४-६०-३८॥
वैराटि नेह सन्तापस्त्वया कार्यो यशस्विनि। भर्तारं प्रति सुश्रोणि गर्भस्थं रक्ष मे शिशुम् ॥१४-६०-३९॥
एवमुक्त्वा ततः कुन्ती विरराम महाद्युते। तामनुज्ञाप्य चैवेमां सुभद्रां समुपानयम् ॥१४-६०-४०॥
एवं स निधनं प्राप्तो दौहित्रस्तव माधव। सन्तापं जहि दुर्धर्ष मा च शोके मनः कृथाः ॥१४-६०-४१॥