Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.061
वसुदेवेन अभिमन्योः श्राद्धदानम्
वैशम्पायन उवाच॥
एतच्छ्रुत्वा तु पुत्रस्य वचः शूरात्मजस्तदा। विहाय शोकं धर्मात्मा ददौ श्राद्धमनुत्तमम् ॥१४-६१-१॥
तथैव वासुदेवोऽपि स्वस्रीयस्य महात्मनः। दयितस्य पितुर्नित्यमकरोदौर्ध्वदेहिकम् ॥१४-६१-२॥
षष्टिं शतसहस्राणि ब्राह्मणानां महाभुजः। विधिवद्भोजयामास भोज्यं सर्वगुणान्वितम् ॥१४-६१-३॥
आच्छाद्य च महाबाहुर्धनतृष्णामपानुदत्। ब्राह्मणानां तदा कृष्णस्तदभूद्रोमहर्षणम् ॥१४-६१-४॥
सुवर्णं चैव गाश्चैव शयनाच्छादनं तथा। दीयमानं तदा विप्राः प्रभूतमिति चाब्रुवन् ॥१४-६१-५॥
वासुदेवोऽथ दाशार्हो बलदेवः ससात्यकिः। अभिमन्योस्तदा श्राद्धमकुर्वन्सत्यकस्तदा ॥ अतीव दुःखसन्तप्ता न शमं चोपलेभिरे ॥१४-६१-६॥
तथैव पाण्डवा वीरा नगरे नागसाह्वये। नोपगच्छन्ति वै शान्तिमभिमन्युविनाकृताः ॥१४-६१-७॥
सुबहूनि च राजेन्द्र दिवसानि विराटजा। नाभुङ्क्त पतिशोकार्ता तदभूत्करुणं महत् ॥ कुक्षिस्थ एव तस्यास्तु स गर्भः सम्प्रलीयत ॥१४-६१-८॥
आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा। आगम्य चाब्रवीद्धीमान्पृथां पृथुललोचनाम् ॥ उत्तरां च महातेजाः शोकः सन्त्यज्यतामयम् ॥१४-६१-९॥
जनिष्यति महातेजाः पुत्रस्तव यशस्विनि। प्रभावाद्वासुदेवस्य मम व्याहरणादपि ॥ पाण्डवानामयं चान्ते पालयिष्यति मेदिनीम् ॥१४-६१-१०॥
धनञ्जयं च सम्प्रेक्ष्य धर्मराजस्य पश्यतः। व्यासो वाक्यमुवाचेदं हर्षयन्निव भारत ॥१४-६१-११॥
पौत्रस्तव महाबाहो जनिष्यति महामनाः। पृथ्वीं सागरपर्यन्तां पालयिष्यति चैव ह ॥१४-६१-१२॥
तस्माच्छोकं कुरुश्रेष्ठ जहि त्वमरिकर्शन। विचार्यमत्र न हि ते सत्यमेतद्भविष्यति ॥१४-६१-१३॥
यच्चापि वृष्णिवीरेण कृष्णेन कुरुनन्दन। पुरोक्तं तत्तथा भावि मा तेऽत्रास्तु विचारणा ॥१४-६१-१४॥
विबुधानां गतो लोकानक्षयानात्मनिर्जितान्। न स शोच्यस्त्वया तात न चान्यैः कुरुभिस्तथा ॥१४-६१-१५॥
एवं पितामहेनोक्तो धर्मात्मा स धनञ्जयः। त्यक्त्वा शोकं महाराज हृष्टरूपोऽभवत्तदा ॥१४-६१-१६॥
पितापि तव धर्मज्ञ गर्भे तस्मिन्महामते। अवर्धत यथाकालं शुक्लपक्षे यथा शशी ॥१४-६१-१७॥
ततः सञ्चोदयामास व्यासो धर्मात्मजं नृपम्। अश्वमेधं प्रति तदा ततः सोऽन्तर्हितोऽभवत् ॥१४-६१-१८॥
धर्मराजोऽपि मेधावी श्रुत्वा व्यासस्य तद्वचः। वित्तोपनयने तात चकार गमने मतिम् ॥१४-६१-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.