Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.062
पाण्डवानाम् मरुत्तनिधिलाभः
जनमेजय उवाच॥
श्रुत्वैतद्वचनं ब्रह्मन्व्यासेनोक्तं महात्मना। अश्वमेधं प्रति तदा किं नृपः प्रचकार ह ॥१४-६२-१॥
रत्नं च यन्मरुत्तेन निहितं पृथिवीतले। तदवाप कथं चेति तन्मे ब्रूहि द्विजोत्तम ॥१४-६२-२॥
वैशम्पायन उवाच॥
श्रुत्वा द्वैपायनवचो धर्मराजो युधिष्ठिरः। भ्रातॄन्सर्वान्समानाय्य काले वचनमब्रवीत् ॥ अर्जुनं भीमसेनं च माद्रीपुत्रौ यमावपि ॥१४-६२-३॥
श्रुतं वो वचनं वीराः सौहृदाद्यन्महात्मना। कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता ॥१४-६२-४॥
तपोवृद्धेन महता सुहृदां भूतिमिच्छता। गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा ॥१४-६२-५॥
भीष्मेण च महाप्राज्ञ गोविन्देन च धीमता। संस्मृत्य तदहं सम्यक्कर्तुमिच्छामि पाण्डवाः ॥१४-६२-६॥
आयत्यां च तदात्वे च सर्वेषां तद्धि नो हितम्। अनुबन्धे च कल्याणं यद्वचो ब्रह्मवादिनः ॥१४-६२-७॥
इयं हि वसुधा सर्वा क्षीणरत्ना कुरूद्वहाः। तच्चाचष्ट बहु व्यासो मरुत्तस्य धनं नृपाः ॥१४-६२-८॥
यद्येतद्वो बहुमतं मन्यध्वं वा क्षमं यदि। तदानयामहे सर्वे कथं वा भीम मन्यसे ॥१४-६२-९॥
इत्युक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह। भीमसेनो नृपश्रेष्ठं प्राञ्जलिर्वाक्यमब्रवीत् ॥१४-६२-१०॥
रोचते मे महाबाहो यदिदं भाषितं त्वया। व्यासाख्यातस्य वित्तस्य समुपानयनं प्रति ॥१४-६२-११॥
यदि तत्प्राप्नुयामेह धनमाविक्षितं प्रभो। कृतमेव महाराज भवेदिति मतिर्मम ॥१४-६२-१२॥
ते वयं प्रणिपातेन गिरीशस्य महात्मनः। तदानयाम भद्रं ते समभ्यर्च्य कपर्दिनम् ॥१४-६२-१३॥
तं विभुं देवदेवेशं तस्यैवानुचरांश्च तान्। प्रसाद्यार्थमवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः ॥१४-६२-१४॥
रक्षन्ते ये च तद्द्रव्यं किङ्करा रौद्रदर्शनाः। ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे ॥१४-६२-१५॥
श्रुत्वैवं वदतस्तस्य वाक्यं भीमस्य भारत। प्रीतो धर्मात्मजो राजा बभूवातीव भारत ॥ अर्जुनप्रमुखाश्चापि तथेत्येवाब्रुवन्मुदा ॥१४-६२-१६॥
कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम्। सेनामाज्ञापयामासुर्नक्षत्रेऽहनि च ध्रुवे ॥१४-६२-१७॥
ततो ययुः पाण्डुसुता ब्राह्मणान्स्वस्ति वाच्य च। अर्चयित्वा सुरश्रेष्ठं पूर्वमेव महेश्वरम् ॥१४-६२-१८॥
मोदकैः पायसेनाथ मांसापूपैस्तथैव च। आशास्य च महात्मानं प्रययुर्मुदिता भृशम् ॥१४-६२-१९॥
तेषां प्रयास्यतां तत्र मङ्गलानि शुभान्यथ। प्राहुः प्रहृष्टमनसो द्विजाग्र्या नागराश्च ते ॥१४-६२-२०॥
ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च। ब्राह्मणानग्निसहितान्प्रययुः पाण्डुनन्दनाः ॥१४-६२-२१॥
समनुज्ञाप्य राजानं पुत्रशोकसमाहतम्। धृतराष्ट्रं सभार्यं वै पृथां पृथुललोचनाम् ॥१४-६२-२२॥
मूले निक्षिप्य कौरव्यं युयुत्सुं धृतराष्ट्रजम्। सम्पूज्यमानाः पौरैश्च ब्राह्मणैश्च मनीषिभिः ॥१४-६२-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.