14.063
वैशम्पायन उवाच॥
ततस्ते प्रययुर्हृष्टाः प्रहृष्टनरवाहनाः। रथघोषेण महता पूरयन्तो वसुन्धराम् ॥१४-६३-१॥
संस्तूयमानाः स्तुतिभिः सूतमागधबन्दिभिः। स्वेन सैन्येन संवीता यथादित्याः स्वरश्मिभिः ॥१४-६३-२॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि। बभौ युधिष्ठिरस्तत्र पौर्णमास्यामिवोडुराट् ॥१४-६३-३॥
जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः। प्रत्यगृह्णाद्यथान्यायं यथावत्पुरुषर्षभः ॥१४-६३-४॥
तथैव सैनिका राजन्राजानमनुयान्ति ये। तेषां हलहलाशब्दो दिवं स्तब्ध्वा व्यतिष्ठत ॥१४-६३-५॥
स सरांसि नदीश्चैव वनान्युपवनानि च। अत्यक्रामन्महाराजो गिरिं चैवान्वपद्यत ॥१४-६३-६॥
तस्मिन्देशे च राजेन्द्र यत्र तद्द्रव्यमुत्तमम्। चक्रे निवेशनं राजा पाण्डवः सह सैनिकैः ॥ शिवे देशे समे चैव तदा भरतसत्तम ॥१४-६३-७॥
अग्रतो ब्राह्मणान्कृत्वा तपोविद्यादमान्वितान्। पुरोहितं च कौरव्य वेदवेदाङ्गपारगम् ॥१४-६३-८॥
प्राङ्निवेशात्तु राजानं ब्राह्मणाः सपुरोधसः। कृत्वा शान्तिं यथान्यायं सर्वतः पर्यवारयन् ॥१४-६३-९॥
कृत्वा च मध्ये राजानममात्यांश्च यथाविधि। षट्पथं नवसंस्थानं निवेशं चक्रिरे द्विजाः ॥१४-६३-१०॥
मत्तानां वारणेन्द्राणां निवेशं च यथाविधि। कारयित्वा स राजेन्द्रो ब्राह्मणानिदमब्रवीत् ॥१४-६३-११॥
अस्मिन्कार्ये द्विजश्रेष्ठा नक्षत्रे दिवसे शुभे। यथा भवन्तो मन्यन्ते कर्तुमर्हथ तत्तथा ॥१४-६३-१२॥
न नः कालात्ययो वै स्यादिहैव परिलम्बताम्। इति निश्चित्य विप्रेन्द्राः क्रियतां यदनन्तरम् ॥१४-६३-१३॥
श्रुत्वैतद्वचनं राज्ञो ब्राह्मणाः सपुरोधसः। इदमूचुर्वचो हृष्टा धर्मराजप्रियेप्सवः ॥१४-६३-१४॥
अद्यैव नक्षत्रमहश्च पुण्यं; यतामहे श्रेष्ठतमं क्रियासु। अम्भोभिरद्येह वसाम राज; न्नुपोष्यतां चापि भवद्भिरद्य ॥१४-६३-१५॥
श्रुत्वा तु तेषां द्विजसत्तमानां; कृतोपवासा रजनीं नरेन्द्राः। ऊषुः प्रतीताः कुशसंस्तरेषु; यथाध्वरेषु ज्वलिता हव्यवाहाः ॥१४-६३-१६॥
ततो निशा सा व्यगमन्महात्मनां; संशृण्वतां विप्रसमीरिता गिरः। ततः प्रभाते विमले द्विजर्षभा; वचोऽब्रुवन्धर्मसुतं नराधिपम् ॥१४-६३-१७॥