14.064
ब्राह्मणा ऊचुः॥
क्रियतामुपहारोऽद्य त्र्यम्बकस्य महात्मनः। कृत्वोपहारं नृपते ततः स्वार्थे यतामहे ॥१४-६४-१॥
वैशम्पायन उवाच॥
श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिरः। गिरीशस्य यथान्यायमुपहारमुपाहरत् ॥१४-६४-२॥
आज्येन तर्पयित्वाग्निं विधिवत्संस्कृतेन ह। मन्त्रसिद्धं चरुं कृत्वा पुरोधाः प्रययौ तदा ॥१४-६४-३॥
स गृहीत्वा सुमनसो मन्त्रपूता जनाधिप। मोदकैः पायसेनाथ मांसैश्चोपाहरद्बलिम् ॥१४-६४-४॥
सुमनोभिश्च चित्राभिर्लाजैरुच्चावचैरपि। सर्वं स्विष्टकृतं कृत्वा विधिवद्वेदपारगः ॥ किङ्कराणां ततः पश्चाच्चकार बलिमुत्तमम् ॥१४-६४-५॥
यक्षेन्द्राय कुबेराय मणिभद्राय चैव ह। तथान्येषां च यक्षाणां भूताधिपतयश्च ये ॥१४-६४-६॥
कृसरेण समांसेन निवापैस्तिलसंयुतैः। शुशुभे स्थानमत्यर्थं देवदेवस्य पार्थिव ॥१४-६४-७॥
कृत्वा तु पूजां रुद्रस्य गणानां चैव सर्वशः। ययौ व्यासं पुरस्कृत्य नृपो रत्ननिधिं प्रति ॥१४-६४-८॥
पूजयित्वा धनाध्यक्षं प्रणिपत्याभिवाद्य च। सुमनोभिर्विचित्राभिरपूपैः कृसरेण च ॥१४-६४-९॥
शङ्खादींश्च निधीन्सर्वान्निधिपालांश्च सर्वशः। अर्चयित्वा द्विजाग्र्यान्स स्वस्ति वाच्य च वीर्यवान् ॥१४-६४-१०॥
तेषां पुण्याहघोषेण तेजसा समवस्थितः। प्रीतिमान्स कुरुश्रेष्ठः खानयामास तं निधिम् ॥१४-६४-११॥
ततः पात्र्यः सकरकाः साश्मन्तकमनोरमाः। भृङ्गाराणि कटाहानि कलशान्वर्धमानकान् ॥१४-६४-१२॥
बहूनि च विचित्राणि भाजनानि सहस्रशः। उद्धारयामास तदा धर्मराजो युधिष्ठिरः ॥१४-६४-१३॥
तेषां लक्षणमप्यासीन्महान्करपुटस्तथा। त्रिलक्षं भाजनं राजंस्तुलार्धमभवन्नृप ॥१४-६४-१४॥
वाहनं पाण्डुपुत्रस्य तत्रासीत्तु विशां पते। षष्टिरुष्ट्रसहस्राणि शतानि द्विगुणा हयाः ॥१४-६४-१५॥
वारणाश्च महाराज सहस्रशतसंमिताः। शकटानि रथाश्चैव तावदेव करेणवः ॥ खराणां पुरुषाणां च परिसङ्ख्या न विद्यते ॥१४-६४-१६॥
एतद्वित्तं तदभवद्यदुद्दध्रे युधिष्ठिरः। षोडशाष्टौ चतुर्विंशत्सहस्रं भारलक्षणम् ॥१४-६४-१७॥
एतेष्वाधाय तद्द्रव्यं पुनरभ्यर्च्य पाण्डवः। महादेवं प्रति ययौ पुरं नागाह्वयं प्रति ॥१४-६४-१८॥
द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम्। गोयुते गोयुते चैव न्यवसत्पुरुषर्षभः ॥१४-६४-१९॥
सा पुराभिमुखी राजञ्जगाम महती चमूः। कृच्छ्राद्द्रविणभारार्ता हर्षयन्ती कुरूद्वहान् ॥१४-६४-२०॥