14.068
वैशम्पायन उवाच॥
सैवं विलप्य करुणं सोन्मादेव तपस्विनी। उत्तरा न्यपतद्भूमौ कृपणा पुत्रगृद्धिनी ॥१४-६८-१॥
तां तु दृष्ट्वा निपतितां हतबन्धुपरिच्छदाम्। चुक्रोश कुन्ती दुःखार्ता सर्वाश्च भरतस्त्रियः ॥१४-६८-२॥
मुहूर्तमिव तद्राजन्पाण्डवानां निवेशनम्। अप्रेक्षणीयमभवदार्तस्वरनिनादितम् ॥१४-६८-३॥
सा मुहूर्तं च राजेन्द्र पुत्रशोकाभिपीडिता। कश्मलाभिहता वीर वैराटी त्वभवत्तदा ॥१४-६८-४॥
प्रतिलभ्य तु सा सञ्ज्ञामुत्तरा भरतर्षभ। अङ्कमारोप्य तं पुत्रमिदं वचनमब्रवीत् ॥१४-६८-५॥
धर्मज्ञस्य सुतः संस्त्वमधर्ममवबुध्यसे। यस्त्वं वृष्णिप्रवीरस्य कुरुषे नाभिवादनम् ॥१४-६८-६॥
पुत्र गत्वा मम वचो ब्रूयास्त्वं पितरं तव। दुर्मरं प्राणिनां वीर काले प्राप्ते कथञ्चन ॥१४-६८-७॥
याहं त्वया विहीनाद्य पत्या पुत्रेण चैव ह। मर्तव्ये सति जीवामि हतस्वस्तिरकिञ्चना ॥१४-६८-८॥
अथ वा धर्मराज्ञाहमनुज्ञाता महाभुज। भक्षयिष्ये विषं तीक्ष्णं प्रवेक्ष्ये वा हुताशनम् ॥१४-६८-९॥
अथ वा दुर्मरं तात यदिदं मे सहस्रधा। पतिपुत्रविहीनाया हृदयं न विदीर्यते ॥१४-६८-१०॥
उत्तिष्ठ पुत्र पश्येमां दुःखितां प्रपितामहीम्। आर्तामुपप्लुतां दीनां निमग्नां शोकसागरे ॥१४-६८-११॥
आर्यां च पश्य पाञ्चालीं सात्वतीं च तपस्विनीम्। मां च पश्य सुदुःखार्तां व्याधविद्धां मृगीमिव ॥१४-६८-१२॥
उत्तिष्ठ पश्य वदनं लोकनाथस्य धीमतः। पुण्डरीकपलाशाक्षं पुरेव चपलेक्षणम् ॥१४-६८-१३॥
एवं विप्रलपन्तीं तु दृष्ट्वा निपतितां पुनः। उत्तरां ताः स्त्रियः सर्वाः पुनरुत्थापयन्त्युत ॥१४-६८-१४॥
उत्थाय तु पुनर्धैर्यात्तदा मत्स्यपतेः सुता। प्राञ्जलिः पुण्डरीकाक्षं भूमावेवाभ्यवादयत् ॥१४-६८-१५॥
श्रुत्वा स तस्या विपुलं विलापं पुरुषर्षभः। उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रं सञ्जहार तत् ॥१४-६८-१६॥
प्रतिजज्ञे च दाशार्हस्तस्य जीवितमच्युतः। अब्रवीच्च विशुद्धात्मा सर्वं विश्रावयञ्जगत् ॥१४-६८-१७॥
न ब्रवीम्युत्तरे मिथ्या सत्यमेतद्भविष्यति। एष सञ्जीवयाम्येनं पश्यतां सर्वदेहिनाम् ॥१४-६८-१८॥
नोक्तपूर्वं मया मिथ्या स्वैरेष्वपि कदाचन। न च युद्धे परावृत्तस्तथा सञ्जीवतामयम् ॥१४-६८-१९॥
यथा मे दयितो धर्मो ब्राह्मणाश्च विशेषतः। अभिमन्योः सुतो जातो मृतो जीवत्वयं तथा ॥१४-६८-२०॥
यथाहं नाभिजानामि विजयेन कदाचन। विरोधं तेन सत्येन मृतो जीवत्वयं शिशुः ॥१४-६८-२१॥
यथा सत्यं च धर्मश्च मयि नित्यं प्रतिष्ठितौ। तथा मृतः शिशुरयं जीवतामभिमन्युजः ॥१४-६८-२२॥
यथा कंसश्च केशी च धर्मेण निहतौ मया। तेन सत्येन बालोऽयं पुनरुज्जीवतामिह ॥१४-६८-२३॥
इत्युक्तो वासुदेवेन स बालो भरतर्षभ। शनैः शनैर्महाराज प्रास्पन्दत सचेतनः ॥१४-६८-२४॥