Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.069
वैशम्पायन उवाच॥
ब्रह्मास्त्रं तु यदा राजन्कृष्णेन प्रतिसंहृतम्। तदा तद्वेश्म ते पित्रा तेजसाभिविदीपितम् ॥१४-६९-१॥
ततो रक्षांसि सर्वाणि नेशुस्त्यक्त्वा गृहं तु तत्। अन्तरिक्षे च वागासीत्साधु केशव साध्विति ॥१४-६९-२॥
तदस्त्रं ज्वलितं चापि पितामहमगात्तदा। ततः प्राणान्पुनर्लेभे पिता तव जनेश्वर ॥ व्यचेष्टत च बालोऽसौ यथोत्साहं यथाबलम् ॥१४-६९-३॥
बभूवुर्मुदिता राजंस्ततस्ता भरतस्त्रियः। ब्राह्मणान्वाचयामासुर्गोविन्दस्य च शासनात् ॥१४-६९-४॥
ततस्ता मुदिताः सर्वाः प्रशशंसुर्जनार्दनम्। स्त्रियो भरतसिंहानां नावं लब्ध्वेव पारगाः ॥१४-६९-५॥
कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा। स्त्रियश्चान्या नृसिंहानां बभूवुर्हृष्टमानसाः ॥१४-६९-६॥
तत्र मल्ला नटा झल्ला ग्रन्थिकाः सौखशायिकाः। सूतमागधसङ्घाश्चाप्यस्तुवन्वै जनार्दनम् ॥ कुरुवंशस्तवाख्याभिराशीर्भिर्भरतर्षभ ॥१४-६९-७॥
उत्थाय तु यथाकालमुत्तरा यदुनन्दनम्। अभ्यवादयत प्रीता सह पुत्रेण भारत ॥ ततस्तस्यै ददौ प्रीतो बहुरत्नं विशेषतः ॥१४-६९-८॥
तथान्ये वृष्णिशार्दूला नाम चास्याकरोत्प्रभुः। पितुस्तव महाराज सत्यसन्धो जनार्दनः ॥१४-६९-९॥
परिक्षीणे कुले यस्माज्जातोऽयमभिमन्युजः। परिक्षिदिति नामास्य भवत्वित्यब्रवीत्तदा ॥१४-६९-१०॥
सोऽवर्धत यथाकालं पिता तव नराधिप। मनःप्रह्लादनश्चासीत्सर्वलोकस्य भारत ॥१४-६९-११॥
मासजातस्तु ते वीर पिता भवति भारत। अथाजग्मुः सुबहुलं रत्नमादाय पाण्डवाः ॥१४-६९-१२॥
तान्समीपगताञ्श्रुत्वा निर्ययुर्वृष्णिपुङ्गवाः। अलञ्चक्रुश्च माल्यौघैः पुरुषा नागसाह्वयम् ॥१४-६९-१३॥
पताकाभिर्विचित्राभिर्ध्वजैश्च विविधैरपि। वेश्मानि समलञ्चक्रुः पौराश्चापि जनाधिप ॥१४-६९-१४॥
देवतायतनानां च पूजा बहुविधास्तथा। संदिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया ॥१४-६९-१५॥
राजमार्गाश्च तत्रासन्सुमनोभिरलङ्कृताः। शुशुभे तत्पुरं चापि समुद्रौघनिभस्वनम् ॥१४-६९-१६॥
नर्तकैश्चापि नृत्यद्भिर्गायनानां च निस्वनैः। आसीद्वैश्रवणस्येव निवासस्तत्पुरं तदा ॥१४-६९-१७॥
बन्दिभिश्च नरै राजन्स्त्रीसहायैः सहस्रशः। तत्र तत्र विविक्तेषु समन्तादुपशोभितम् ॥१४-६९-१८॥
पताका धूयमानाश्च श्वसता मातरिश्वना। अदर्शयन्निव तदा कुरून्वै दक्षिणोत्तरान् ॥१४-६९-१९॥
अघोषयत्तदा चापि पुरुषो राजधूर्गतः। सर्वरात्रिविहारोऽद्य रत्नाभरणलक्षणः ॥१४-६९-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.