14.067
वैशम्पायन उवाच॥
एवमुक्तस्तु राजेन्द्र केशिहा दुःखमूर्छितः। तथेति व्याजहारोच्चैर्ह्लादयन्निव तं जनम् ॥१४-६७-१॥
वाक्येन तेन हि तदा तं जनं पुरुषर्षभः। ह्लादयामास स विभुर्घर्मार्तं सलिलैरिव ॥१४-६७-२॥
ततः स प्राविशत्तूर्णं जन्मवेश्म पितुस्तव। अर्चितं पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि ॥१४-६७-३॥
अपां कुम्भैः सुपूर्णैश्च विन्यस्तैः सर्वतोदिशम्। घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज ॥१४-६७-४॥
शस्त्रैश्च विमलैर्न्यस्तैः पावकैश्च समन्ततः। वृद्धाभिश्चाभिरामाभिः परिचारार्थमच्युतः ॥१४-६७-५॥
दक्षैश्च परितो वीर भिषग्भिः कुशलैस्तथा। ददर्श च स तेजस्वी रक्षोघ्नान्यपि सर्वशः ॥ द्रव्याणि स्थापितानि स्म विधिवत्कुशलैर्जनैः ॥१४-६७-६॥
तथायुक्तं च तद्दृष्ट्वा जन्मवेश्म पितुस्तव। हृष्टोऽभवद्धृषीकेशः साधु साध्विति चाब्रवीत् ॥१४-६७-७॥
तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा। द्रौपदी त्वरिता गत्वा वैराटीं वाक्यमब्रवीत् ॥१४-६७-८॥
अयमायाति ते भद्रे श्वशुरो मधुसूदनः। पुराणर्षिरचिन्त्यात्मा समीपमपराजितः ॥१४-६७-९॥
सापि बाष्पकलां वाचं निगृह्याश्रूणि चैव ह। सुसंवीताभवद्देवी देववत्कृष्णमीक्षती ॥१४-६७-१०॥
सा तथा दूयमानेन हृदयेन तपस्विनी। दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत् ॥१४-६७-११॥
पुण्डरीकाक्ष पश्यस्व बालाविह विनाकृतौ। अभिमन्युं च मां चैव हतौ तुल्यं जनार्दन ॥१४-६७-१२॥
वार्ष्णेय मधुहन्वीर शिरसा त्वां प्रसादये। द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम् ॥१४-६७-१३॥
यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः। त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत् ॥१४-६७-१४॥
अजानतीमिषीकेयं जनित्रीं हन्त्विति प्रभो। अहमेव विनष्टा स्यां नेदमेवङ्गतं भवेत् ॥१४-६७-१५॥
गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम्। कृत्वा नृशंसं दुर्बुद्धिर्द्रौणिः किं फलमश्नुते ॥१४-६७-१६॥
सा त्वा प्रसाद्य शिरसा याचे शत्रुनिबर्हण। प्राणांस्त्यक्ष्यामि गोविन्द नायं सञ्जीवते यदि ॥१४-६७-१७॥
अस्मिन्हि बहवः साधो ये ममासन्मनोरथाः। ते द्रोणपुत्रेण हताः किं नु जीवामि केशव ॥१४-६७-१८॥
आसीन्मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन। अभिवादयिष्ये दिष्ट्येति तदिदं वितथीकृतम् ॥१४-६७-१९॥
चपलाक्षस्य दायादे मृतेऽस्मिन्पुरुषर्षभ। विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः ॥१४-६७-२०॥
चपलाक्षः किलातीव प्रियस्ते मधुसूदन। सुतं पश्यस्व तस्येमं ब्रह्मास्त्रेण निपातितम् ॥१४-६७-२१॥
कृतघ्नोऽयं नृशंसोऽयं यथास्य जनकस्तथा। यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनम् ॥१४-६७-२२॥
मया चैतत्प्रतिज्ञातं रणमूर्धनि केशव। अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिति ॥१४-६७-२३॥
तच्च नाकरवं कृष्ण नृशंसा जीवितप्रिया। इदानीमागतां तत्र किं नु वक्ष्यति फाल्गुनिः ॥१४-६७-२४॥