Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.070
युधिष्ठिरस्य यज्ञदीक्षा
वैशम्पायन उवाच॥
तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः। वासुदेवः सहामात्यः प्रत्युद्यातो दिदृक्षया ॥१४-७०-१॥
ते समेत्य यथान्यायं पाण्डवा वृष्णिभिः सह। विविशुः सहिता राजन्पुरं वारणसाह्वयम् ॥१४-७०-२॥
महतस्तस्य सैन्यस्य खुरनेमिस्वनेन च। द्यावापृथिव्यौ खं चैव शब्देनासीत्समावृतम् ॥१४-७०-३॥
ते कोशमग्रतः कृत्वा विविशुः स्वपुरं तदा। पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः ॥१४-७०-४॥
ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम्। कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे ॥१४-७०-५॥
धृतराष्ट्रादनु च ते गान्धारीं सुबलात्मजाम्। कुन्तीं च राजशार्दूल तदा भरतसत्तमाः ॥१४-७०-६॥
विदुरं पूजयित्वा च वैश्यापुत्रं समेत्य च। पूज्यमानाः स्म ते वीरा व्यराजन्त विशां पते ॥१४-७०-७॥
ततस्तत्परमाश्चर्यं विचित्रं महदद्भुतम्। शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत ॥१४-७०-८॥
तदुपश्रुत्य ते कर्म वासुदेवस्य धीमतः। पूजार्हं पूजयामासुः कृष्णं देवकिनन्दनम् ॥१४-७०-९॥
ततः कतिपयाहस्य व्यासः सत्यवतीसुतः। आजगाम महातेजा नगरं नागसाह्वयम् ॥१४-७०-१०॥
तस्य सर्वे यथान्यायं पूजां चक्रुः कुरूद्वहाः। सह वृष्ण्यन्धकव्याघ्रैरुपासां चक्रिरे तदा ॥१४-७०-११॥
तत्र नानाविधाकाराः कथाः समनुकीर्त्य वै। युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत् ॥१४-७०-१२॥
भवत्प्रसादाद्भगवन्यदिदं रत्नमाहृतम्। उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ ॥१४-७०-१३॥
तदनुज्ञातुमिच्छामि भवता मुनिसत्तम। त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः ॥१४-७०-१४॥
व्यास उवाच॥
अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम्। यजस्व वाजिमेधेन विधिवद्दक्षिणावता ॥१४-७०-१५॥
अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम्। तेनेष्ट्वा त्वं विपाप्मा वै भविता नात्र संशयः ॥१४-७०-१६॥
वैशम्पायन उवाच॥
इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः। अश्वमेधस्य कौरव्य चकाराहरणे मतिम् ॥१४-७०-१७॥
समनुज्ञाप्य तु स तं कृष्णद्वैपायनं नृपः। वासुदेवमथामन्त्र्य वाग्मी वचनमब्रवीत् ॥१४-७०-१८॥
देवकी सुप्रजा देवी त्वया पुरुषसत्तम। यद्ब्रूयां त्वां महाबाहो तत्कृथास्त्वमिहाच्युत ॥१४-७०-१९॥
त्वत्प्रभावार्जितान्भोगानश्नीम यदुनन्दन। पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही ॥१४-७०-२०॥
दीक्षयस्व त्वमात्मानं त्वं नः परमको गुरुः। त्वयीष्टवति धर्मज्ञ विपाप्मा स्यामहं विभो ॥ त्वं हि यज्ञोऽक्षरः सर्वस्त्वं धर्मस्त्वं प्रजापतिः ॥१४-७०-२१॥
वासुदेव उवाच॥
त्वमेवैतन्महाबाहो वक्तुमर्हस्यरिंदम। त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः ॥१४-७०-२२॥
त्वं चाद्य कुरुवीराणां धर्मेणाभिविराजसे। गुणभूताः स्म ते राजंस्त्वं नो राजन्मतो गुरुः ॥१४-७०-२३॥
यजस्व मदनुज्ञातः प्राप्त एव क्रतुर्मया। युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत ॥ सत्यं ते प्रतिजानामि सर्वं कर्तास्मि तेऽनघ ॥१४-७०-२४॥
भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ। इष्टवन्तो भविष्यन्ति त्वयीष्टवति भारत ॥१४-७०-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.