Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.071
वैशम्पायन उवाच॥
एवमुक्तस्तु कृष्णेन धर्मपुत्रो युधिष्ठिरः। व्यासमामन्त्र्य मेधावी ततो वचनमब्रवीत् ॥१४-७१-१॥
यथा कालं भवान्वेत्ति हयमेधस्य तत्त्वतः। दीक्षयस्व तदा मा त्वं त्वय्यायत्तो हि मे क्रतुः ॥१४-७१-२॥
व्यास उवाच॥
अहं पैलोऽथ कौन्तेय याज्ञवल्क्यस्तथैव च। विधानं यद्यथाकालं तत्कर्तारो न संशयः ॥१४-७१-३॥
चैत्र्यां हि पौर्णमास्यां च तव दीक्षा भविष्यति। सम्भाराः सम्भ्रियन्तां ते यज्ञार्थं पुरुषर्षभ ॥१४-७१-४॥
अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः। मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये ॥१४-७१-५॥
तमुत्सृज्य यथाशास्त्रं पृथिवीं सागराम्बराम्। स पर्येतु यशो नाम्ना तव पार्थिव वर्धयन् ॥१४-७१-६॥
वैशम्पायन उवाच॥
इत्युक्तः स तथेत्युक्त्वा पाण्डवः पृथिवीपतिः। चकार सर्वं राजेन्द्र यथोक्तं ब्रह्मवादिना ॥ सम्भाराश्चैव राजेन्द्र सर्वे सङ्कल्पिताभवन् ॥१४-७१-७॥
स सम्भारान्समाहृत्य नृपो धर्मात्मजस्तदा। न्यवेदयदमेयात्मा कृष्णद्वैपायनाय वै ॥१४-७१-८॥
ततोऽब्रवीन्महातेजा व्यासो धर्मात्मजं नृपम्। यथाकालं यथायोगं सज्जाः स्म तव दीक्षणे ॥१४-७१-९॥
स्फ्यश्च कूर्चश्च सौवर्णो यच्चान्यदपि कौरव। तत्र योग्यं भवेत्किञ्चित्तद्रौक्मं क्रियतामिति ॥१४-७१-१०॥
अश्वश्चोत्सृज्यतामद्य पृथ्व्यामथ यथाक्रमम्। सुगुप्तश्च चरत्वेष यथाशास्त्रं युधिष्ठिर ॥१४-७१-११॥
युधिष्ठिर उवाच॥
अयमश्वो मया ब्रह्मन्नुत्सृष्टः पृथिवीमिमाम्। चरिष्यति यथाकामं तत्र वै संविधीयताम् ॥१४-७१-१२॥
पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम्। कः पालयेदिति मुने तद्भवान्वक्तुमर्हति ॥१४-७१-१३॥
वैशम्पायन उवाच॥
इत्युक्तः स तु राजेन्द्र कृष्णद्वैपायनोऽब्रवीत्। भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम् ॥१४-७१-१४॥
जिष्णुः सहिष्णुर्धृष्णुश्च स एनं पालयिष्यति। शक्तः स हि महीं जेतुं निवातकवचान्तकः ॥१४-७१-१५॥
तस्मिन्ह्यस्त्राणि दिव्यानि दिव्यं संहननं तथा। दिव्यं धनुश्चेषुधी च स एनमनुयास्यति ॥१४-७१-१६॥
स हि धर्मार्थकुशलः सर्वविद्याविशारदः। यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम् ॥१४-७१-१७॥
राजपुत्रो महाबाहुः श्यामो राजीवलोचनः। अभिमन्योः पिता वीरः स एनमनुयास्यति ॥१४-७१-१८॥
भीमसेनोऽपि तेजस्वी कौन्तेयोऽमितविक्रमः। समर्थो रक्षितुं राष्ट्रं नकुलश्च विशां पते ॥१४-७१-१९॥
सहदेवस्तु कौरव्य समाधास्यति बुद्धिमान्। कुटुम्बतन्त्रं विधिवत्सर्वमेव महायशाः ॥१४-७१-२०॥
तत्तु सर्वं यथान्यायमुक्तं कुरुकुलोद्वहः। चकार फल्गुनं चापि संदिदेश हयं प्रति ॥१४-७१-२१॥
युधिष्ठिर उवाच॥
एह्यर्जुन त्वया वीर हयोऽयं परिपाल्यताम्। त्वमर्हो रक्षितुं ह्येनं नान्यः कश्चन मानवः ॥१४-७१-२२॥
ये चापि त्वां महाबाहो प्रत्युदीयुर्नराधिपाः। तैर्विग्रहो यथा न स्यात्तथा कार्यं त्वयानघ ॥१४-७१-२३॥
आख्यातव्यश्च भवता यज्ञोऽयं मम सर्वशः। पार्थिवेभ्यो महाबाहो समये गम्यतामिति ॥१४-७१-२४॥
एवमुक्त्वा स धर्मात्मा भ्रातरं सव्यसाचिनम्। भीमं च नकुलं चैव पुरगुप्तौ समादधत् ॥१४-७१-२५॥
कुटुम्बतन्त्रे च तथा सहदेवं युधां पतिम्। अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः ॥१४-७१-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.