Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.072
अर्जुनस्य अश्वानुसरणम्
वैशम्पायन उवाच॥
दीक्षाकाले तु सम्प्राप्ते ततस्ते सुमहर्त्विजः। विधिवद्दीक्षयामासुरश्वमेधाय पार्थिवम् ॥१४-७२-१॥
कृत्वा स पशुबन्धांश्च दीक्षितः पाण्डुनन्दनः। धर्मराजो महातेजाः सहर्त्विग्भिर्व्यरोचत ॥१४-७२-२॥
हयश्च हयमेधार्थं स्वयं स ब्रह्मवादिना। उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा ॥१४-७२-३॥
स राजा धर्मजो राजन्दीक्षितो विबभौ तदा। हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः ॥१४-७२-४॥
कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः। विबभौ द्युतिमान्भूयः प्रजापतिरिवाध्वरे ॥१४-७२-५॥
तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशां पते। बभूवुरर्जुनश्चैव प्रदीप्त इव पावकः ॥१४-७२-६॥
श्वेताश्वः कृष्णसारं तं ससाराश्वं धनञ्जयः। विधिवत्पृथिवीपाल धर्मराजस्य शासनात् ॥१४-७२-७॥
विक्षिपन्गाण्डिवं राजन्बद्धगोधाङ्गुलित्रवान्। तमश्वं पृथिवीपाल मुदा युक्तः ससार ह ॥१४-७२-८॥
आकुमारं तदा राजन्नागमत्तत्पुरं विभो। द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यन्तं धनञ्जयम् ॥१४-७२-९॥
तेषामन्योन्यसंमर्दादूष्मेव समजायत। दिदृक्षूणां हयं तं च तं चैव हयसारिणम् ॥१४-७२-१०॥
ततः शब्दो महाराज दशाशाः प्रतिपूरयन्। बभूव प्रेक्षतां नॄणां कुन्तीपुत्रं धनञ्जयम् ॥१४-७२-११॥
एष गच्छति कौन्तेयस्तुरगश्चैव दीप्तिमान्। यमन्वेति महाबाहुः संस्पृशन्धनुरुत्तमम् ॥१४-७२-१२॥
एवं शुश्राव वदतां गिरो जिष्णुरुदारधीः। स्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत ॥१४-७२-१३॥
अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन्। नैनं पश्याम संमर्दे धनुरेतत्प्रदृश्यते ॥१४-७२-१४॥
एतद्धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः। स्वस्ति गच्छत्वरिष्टं वै पन्थानमकुतोभयम् ॥ निवृत्तमेनं द्रक्ष्यामः पुनरेवं च तेऽब्रुवन् ॥१४-७२-१५॥
एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभ। शुश्राव मधुरा वाचः पुनः पुनरुदीरिताः ॥१४-७२-१६॥
याज्ञवल्क्यस्य शिष्यश्च कुशलो यज्ञकर्मणि। प्रायात्पार्थेन सहितः शान्त्यर्थं वेदपारगः ॥१४-७२-१७॥
ब्राह्मणाश्च महीपाल बहवो वेदपारगाः। अनुजग्मुर्महात्मानं क्षत्रियाश्च विशोऽपि च ॥१४-७२-१८॥
पाण्डवैः पृथिवीमश्वो निर्जितामस्त्रतेजसा। चचार स महाराज यथादेशं स सत्तम ॥१४-७२-१९॥
तत्र युद्धानि वृत्तानि यान्यासन्पाण्डवस्य ह। तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च ॥१४-७२-२०॥
स हयः पृथिवीं राजन्प्रदक्षिणमरिंदम। ससारोत्तरतः पूर्वं तन्निबोध महीपते ॥१४-७२-२१॥
अवमृद्नन्स राष्ट्राणि पार्थिवानां हयोत्तमः। शनैस्तदा परिययौ श्वेताश्वश्च महारथः ॥१४-७२-२२॥
तत्र सङ्कलना नास्ति राज्ञामयुतशस्तदा। येऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः ॥१४-७२-२३॥
किराता विकृता राजन्बहवोऽसिधनुर्धराः। म्लेच्छाश्चान्ये बहुविधाः पूर्वं विनिकृता रणे ॥१४-७२-२४॥
आर्याश्च पृथिवीपालाः प्रहृष्टनरवाहनाः। समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः ॥१४-७२-२५॥
एवं युद्धानि वृत्तानि तत्र तत्र महीपते। अर्जुनस्य महीपालैर्नानादेशनिवासिभिः ॥१४-७२-२६॥
यानि तूभयतो राजन्प्रतप्तानि महान्ति च। तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ ॥१४-७२-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.