Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.073
त्रैगर्तविजयः
वैशम्पायन उवाच॥
त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनः। महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः ॥१४-७३-१॥
ते समाज्ञाय सम्प्राप्तं यज्ञियं तुरगोत्तमम्। विषयान्ते ततो वीरा दंशिताः पर्यवारयन् ॥१४-७३-२॥
रथिनो बद्धतूणीराः सदश्वैः समलङ्कृतैः। परिवार्य हयं राजन्ग्रहीतुं सम्प्रचक्रमुः ॥१४-७३-३॥
ततः किरीटी सञ्चिन्त्य तेषां राज्ञां चिकीर्षितम्। वारयामास तान्वीरान्सान्त्वपूर्वमरिंदमः ॥१४-७३-४॥
तमनादृत्य ते सर्वे शरैरभ्यहनंस्तदा। तमोरजोभ्यां सञ्छन्नांस्तान्किरीटी न्यवारयत् ॥१४-७३-५॥
अब्रवीच्च ततो जिष्णुः प्रहसन्निव भारत। निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव वः ॥१४-७३-६॥
स हि वीरः प्रयास्यन्वै धर्मराजेन वारितः। हतबान्धवा न ते पार्थ हन्तव्याः पार्थिवा इति ॥१४-७३-७॥
स तदा तद्वचः श्रुत्वा धर्मराजस्य धीमतः। तान्निवर्तध्वमित्याह न न्यवर्तन्त चापि ते ॥१४-७३-८॥
ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे। वितत्य शरजालेन प्रजहास धनञ्जयः ॥१४-७३-९॥
ततस्ते रथघोषेण खुरनेमिस्वनेन च। पूरयन्तो दिशः सर्वा धनञ्जयमुपाद्रवन् ॥१४-७३-१०॥
सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम्। शतान्यमुञ्चद्राजेन्द्र लघ्वस्त्रमभिदर्शयन् ॥१४-७३-११॥
तथैवान्ये महेष्वासा ये तस्यैवानुयायिनः। मुमुचुः शरवर्षाणि धनञ्जयवधैषिणः ॥१४-७३-१२॥
स ताञ्ज्यापुङ्खनिर्मुक्तैर्बहुभिः सुबहूञ्शरान्। चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा ॥१४-७३-१३॥
केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा। युयुधे भ्रातुरर्थाय पाण्डवेन महात्मना ॥१४-७३-१४॥
तमापतन्तं सम्प्रेक्ष्य केतुवर्माणमाहवे। अभ्यघ्नन्निशितैर्बाणैर्बीभत्सुः परवीरहा ॥१४-७३-१५॥
केतुवर्मण्यभिहते धृतवर्मा महारथः। रथेनाशु समावृत्य शरैर्जिष्णुमवाकिरत् ॥१४-७३-१६॥
तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान्। गुडाकेशो महातेजा बालस्य धृतवर्मणः ॥१४-७३-१७॥
न संदधानं ददृशे नाददानं च तं तदा। किरन्तमेव स शरान्ददृशे पाकशासनिः ॥१४-७३-१८॥
स तु तं पूजयामास धृतवर्माणमाहवे। मनसा स मुहूर्तं वै रणे समभिहर्षयन् ॥१४-७३-१९॥
तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निव। प्रीतिपूर्वं महाराज प्राणैर्न व्यपरोपयत् ॥१४-७३-२०॥
स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा। धृतवर्मा शरं तीक्ष्णं मुमोच विजये तदा ॥१४-७३-२१॥
स तेन विजयस्तूर्णमस्यन्विद्धः करे भृशम्। मुमोच गाण्डीवं दुःखात्तत्पपाताथ भूतले ॥१४-७३-२२॥
धनुषः पततस्तस्य सव्यसाचिकराद्विभो। इन्द्रस्येवायुधस्यासीद्रूपं भरतसत्तम ॥१४-७३-२३॥
तस्मिन्निपतिते दिव्ये महाधनुषि पार्थिव। जहास सस्वनं हासं धृतवर्मा महाहवे ॥१४-७३-२४॥
ततो रोषान्वितो जिष्णुः प्रमृज्य रुधिरं करात्। धनुरादत्त तद्दिव्यं शरवर्षं ववर्ष च ॥१४-७३-२५॥
ततो हलहलाशब्दो दिवस्पृगभवत्तदा। नानाविधानां भूतानां तत्कर्मातीव शंसताम् ॥१४-७३-२६॥
ततः सम्प्रेक्ष्य तं क्रुद्धं कालान्तकयमोपमम्। जिष्णुं त्रैगर्तका योधास्त्वरिताः पर्यवारयन् ॥१४-७३-२७॥
अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः। परिवव्रुर्गुडाकेशं तत्राक्रुध्यद्धनञ्जयः ॥१४-७३-२८॥
ततो योधाञ्जघानाशु तेषां स दश चाष्ट च। महेन्द्रवज्रप्रतिमैरायसैर्निशितैः शरैः ॥१४-७३-२९॥
तांस्तु प्रभग्नान्सम्प्रेक्ष्य त्वरमाणो धनञ्जयः। शरैराशीविषाकारैर्जघान स्वनवद्धसन् ॥१४-७३-३०॥
ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः। दिशो विदुद्रुवुः सर्वा धनञ्जयशरार्दिताः ॥१४-७३-३१॥
त ऊचुः पुरुषव्याघ्रं संशप्तकनिषूदनम्। तव स्म किङ्कराः सर्वे सर्वे च वशगास्तव ॥१४-७३-३२॥
आज्ञापयस्व नः पार्थ प्रह्वान्प्रेष्यानवस्थितान्। करिष्यामः प्रियं सर्वं तव कौरवनन्दन ॥१४-७३-३३॥
एतदाज्ञाय वचनं सर्वांस्तानब्रवीत्तदा। जीवितं रक्षत नृपाः शासनं गृह्यतामिति ॥१४-७३-३४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.