14.074
वज्रदत्तपराजयः
वैशम्पायन उवाच॥
प्राग्ज्योतिषमथाभ्येत्य व्यचरत्स हयोत्तमः। भगदत्तात्मजस्तत्र निर्ययौ रणकर्कशः ॥१४-७४-१॥
स हयं पाण्डुपुत्रस्य विषयान्तमुपागतम्। युयुधे भरतश्रेष्ठ वज्रदत्तो महीपतिः ॥१४-७४-२॥
सोऽभिनिर्याय नगराद्भगदत्तसुतो नृपः। अश्वमायान्तमुन्मथ्य नगराभिमुखो ययौ ॥१४-७४-३॥
तमालक्ष्य महाबाहुः कुरूणामृषभस्तदा। गाण्डीवं विक्षिपंस्तूर्णं सहसा समुपाद्रवत् ॥१४-७४-४॥
ततो गाण्डीवनिर्मुक्तैरिषुभिर्मोहितो नृपः। हयमुत्सृज्य तं वीरस्ततः पार्थमुपाद्रवत् ॥१४-७४-५॥
पुनः प्रविश्य नगरं दंशितः स नृपोत्तमः। आरुह्य नागप्रवरं निर्ययौ युद्धकाङ्क्षया ॥१४-७४-६॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि। दोधूयता चामरेण श्वेतेन च महारथः ॥१४-७४-७॥
ततः पार्थं समासाद्य पाण्डवानां महारथम्। आह्वयामास कौरव्यं बाल्यान्मोहाच्च संयुगे ॥१४-७४-८॥
स वारणं नगप्रख्यं प्रभिन्नकरटामुखम्। प्रेषयामास सङ्क्रुद्धस्ततः श्वेतहयं प्रति ॥१४-७४-९॥
विक्षरन्तं यथा मेघं परवारणवारणम्। शास्त्रवत्कल्पितं सङ्ख्ये त्रिसाहं युद्धदुर्मदम् ॥१४-७४-१०॥
प्रचोद्यमानः स गजस्तेन राज्ञा महाबलः। तदाङ्कुशेन विबभावुत्पतिष्यन्निवाम्बरम् ॥१४-७४-११॥
तमापतन्तं सम्प्रेक्ष्य क्रुद्धो राजन्धनञ्जयः। भूमिष्ठो वारणगतं योधयामास भारत ॥१४-७४-१२॥
वज्रदत्तस्तु सङ्क्रुद्धो मुमोचाशु धनञ्जये। तोमरानग्निसङ्काशाञ्शलभानिव वेगितान् ॥१४-७४-१३॥
अर्जुनस्तानसम्प्राप्तान्गाण्डीवप्रेषितैः शरैः। द्विधा त्रिधा च चिच्छेद ख एव खगमैस्तदा ॥१४-७४-१४॥
स तान्दृष्ट्वा तथा छिन्नांस्तोमरान्भगदत्तजः। इषूनसक्तांस्त्वरितः प्राहिणोत्पाण्डवं प्रति ॥१४-७४-१५॥
ततोऽर्जुनस्तूर्णतरं रुक्मपुङ्खानजिह्मगान्। प्रेषयामास सङ्क्रुद्धो भगदत्तात्मजं प्रति ॥१४-७४-१६॥
स तैर्विद्धो महातेजा वज्रदत्तो महाहवे। भृशाहतः पपातोर्व्यां न त्वेनमजहात्स्मृतिः ॥१४-७४-१७॥
ततः स पुनरारुह्य वारणप्रवरं रणे। अव्यग्रः प्रेषयामास जयार्थी विजयं प्रति ॥१४-७४-१८॥
तस्मै बाणांस्ततो जिष्णुर्निर्मुक्ताशीविषोपमान्। प्रेषयामास सङ्क्रुद्धो ज्वलितानिव पावकान् ॥१४-७४-१९॥
स तैर्विद्धो महानागो विस्रवन्रुधिरं बभौ। हिमवानिव शैलेन्द्रो बहुप्रस्रवणस्तदा ॥१४-७४-२०॥