14.075
वैशम्पायन उवाच॥
एवं त्रिरात्रमभवत्तद्युद्धं भरतर्षभ। अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः ॥१४-७५-१॥
ततश्चतुर्थे दिवसे वज्रदत्तो महाबलः। जहास सस्वनं हासं वाक्यं चेदमथाब्रवीत् ॥१४-७५-२॥
अर्जुनार्जुन तिष्ठस्व न मे जीवन्विमोक्ष्यसे। त्वां निहत्य करिष्यामि पितुस्तोयं यथाविधि ॥१४-७५-३॥
त्वया वृद्धो मम पिता भगदत्तः पितुः सखा। हतो वृद्धोऽपचायित्वाच्छिशुं मामद्य योधय ॥१४-७५-४॥
इत्येवमुक्त्वा सङ्क्रुद्धो वज्रदत्तो नराधिपः। प्रेषयामास कौरव्य वारणं पाण्डवं प्रति ॥१४-७५-५॥
सम्प्रेष्यमाणो नागेन्द्रो वज्रदत्तेन धीमता। उत्पतिष्यन्निवाकाशमभिदुद्राव पाण्डवम् ॥१४-७५-६॥
अग्रहस्तप्रमुक्तेन शीकरेण स फल्गुनम्। समुक्षत महाराज शैलं नील इवाम्बुदः ॥१४-७५-७॥
स तेन प्रेषितो राज्ञा मेघवन्निनदन्मुहुः। मुखाडम्बरघोषेण समाद्रवत फल्गुनम् ॥१४-७५-८॥
स नृत्यन्निव नागेन्द्रो वज्रदत्तप्रचोदितः। आससाद द्रुतं राजन्कौरवाणां महारथम् ॥१४-७५-९॥
तमापतन्तं सम्प्रेक्ष्य वज्रदत्तस्य वारणम्। गाण्डीवमाश्रित्य बली न व्यकम्पत शत्रुहा ॥१४-७५-१०॥
चुक्रोध बलवच्चापि पाण्डवस्तस्य भूपतेः। कार्यविघ्नमनुस्मृत्य पूर्ववैरं च भारत ॥१४-७५-११॥
ततस्तं वारणं क्रुद्धः शरजालेन पाण्डवः। निवारयामास तदा वेलेव मकरालयम् ॥१४-७५-१२॥
स नागप्रवरो वीर्यादर्जुनेन निवारितः। तस्थौ शरैर्वितुन्नाङ्गः श्वाविच्छललितो यथा ॥१४-७५-१३॥
निवारितं गजं दृष्ट्वा भगदत्तात्मजो नृपः। उत्ससर्ज शितान्बाणानर्जुने क्रोधमूर्छितः ॥१४-७५-१४॥
अर्जुनस्तु महाराज शरैः शरविघातिभिः। वारयामास तानस्तांस्तदद्भुतमिवाभवत् ॥१४-७५-१५॥
ततः पुनरतिक्रुद्धो राजा प्राग्ज्योतिषाधिपः। प्रेषयामास नागेन्द्रं बलवच्छ्वसनोपमम् ॥१४-७५-१६॥
तमापतन्तं सम्प्रेक्ष्य बलवान्पाकशासनिः। नाराचमग्निसङ्काशं प्राहिणोद्वारणं प्रति ॥१४-७५-१७॥
स तेन वारणो राजन्मर्मण्यभिहतो भृशम्। पपात सहसा भूमौ वज्ररुग्ण इवाचलः ॥१४-७५-१८॥
स पतञ्शुशुभे नागो धनञ्जयशराहतः। विशन्निव महाशैलो महीं वज्रप्रपीडितः ॥१४-७५-१९॥
तस्मिन्निपतिते नागे वज्रदत्तस्य पाण्डवः। तं न भेतव्यमित्याह ततो भूमिगतं नृपम् ॥१४-७५-२०॥
अब्रवीद्धि महातेजाः प्रस्थितं मां युधिष्ठिरः। राजानस्ते न हन्तव्या धनञ्जय कथञ्चन ॥१४-७५-२१॥
सर्वमेतन्नरव्याघ्र भवत्वेतावता कृतम्। योधाश्चापि न हन्तव्या धनञ्जय रणे त्वया ॥१४-७५-२२॥
वक्तव्याश्चापि राजानः सर्वैः सह सुहृज्जनैः। युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम् ॥१४-७५-२३॥
इति भ्रातृवचः श्रुत्वा न हन्मि त्वां जनाधिप। उत्तिष्ठ न भयं तेऽस्ति स्वस्तिमान्गच्छ पार्थिव ॥१४-७५-२४॥
आगच्छेथा महाराज परां चैत्रीमुपस्थिताम्। तदाश्वमेधो भविता धर्मराजस्य धीमतः ॥१४-७५-२५॥
एवमुक्तः स राजा तु भगदत्तात्मजस्तदा। तथेत्येवाब्रवीद्वाक्यं पाण्डवेनाभिनिर्जितः ॥१४-७५-२६॥