Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.076
सैन्धवपराजयः
वैशम्पायन उवाच॥
सैन्धवैरभवद्युद्धं ततस्तस्य किरीटिनः। हतशेषैर्महाराज हतानां च सुतैरपि ॥१४-७६-१॥
तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम्। प्रत्युद्ययुरमृष्यन्तो राजानः पाण्डवर्षभम् ॥१४-७६-२॥
अश्वं च तं परामृश्य विषयान्ते विषोपमाः। न भयं चक्रिरे पार्थाद्भीमसेनादनन्तरात् ॥१४-७६-३॥
तेऽविदूराद्धनुष्पाणिं यज्ञियस्य हयस्य च। बीभत्सुं प्रत्यपद्यन्त पदातिनमवस्थितम् ॥१४-७६-४॥
ततस्ते तु महावीर्या राजानः पर्यवारयन्। जिगीषन्तो नरव्याघ्राः पूर्वं विनिकृता युधि ॥१४-७६-५॥
ते नामान्यथ गोत्राणि कर्माणि विविधानि च। कीर्तयन्तस्तदा पार्थं शरवर्षैरवाकिरन् ॥१४-७६-६॥
ते किरन्तः शरांस्तीक्ष्णान्वारणेन्द्रनिवारणान्। रणे जयमभीप्सन्तः कौन्तेयं पर्यवारयन् ॥१४-७६-७॥
तेऽसमीक्ष्यैव तं वीरमुग्रकर्माणमाहवे। सर्वे युयुधिरे वीरा रथस्थास्तं पदातिनम् ॥१४-७६-८॥
ते तमाजघ्निरे वीरं निवातकवचान्तकम्। संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च ॥१४-७६-९॥
ततो रथसहस्रेण हयानामयुतेन च। कोष्ठकीकृत्य कौन्तेयं सम्प्रहृष्टमयोधयन् ॥१४-७६-१०॥
संस्मरन्तो वधं वीराः सिन्धुराजस्य धीमतः। जयद्रथस्य कौरव्य समरे सव्यसाचिना ॥१४-७६-११॥
ततः पर्जन्यवत्सर्वे शरवृष्टिमवासृजन्। तैः कीर्णः शुशुभे पार्थो रविर्मेघान्तरे यथा ॥१४-७६-१२॥
स शरैः समवच्छन्नो ददृशे पाण्डवर्षभः। पञ्जरान्तरसञ्चारी शकुन्त इव भारत ॥१४-७६-१३॥
ततो हाहाकृतं सर्वं कौन्तेये शरपीडिते। त्रैलोक्यमभवद्राजन्रविश्चासीद्रजोरुणः ॥१४-७६-१४॥
ततो ववौ महाराज मारुतो रोमहर्षणः। राहुरग्रसदादित्यं युगपत्सोममेव च ॥१४-७६-१५॥
उल्काश्च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः। वेपथुश्चाभवद्राजन्कैलासस्य महागिरेः ॥१४-७६-१६॥
मुमुचुश्चास्रमत्युष्णं दुःखशोकसमन्विताः। सप्तर्षयो जातभयास्तथा देवर्षयोऽपि च ॥१४-७६-१७॥
शशश्चाशु विनिर्भिद्य मण्डलं शशिनोऽपतत्। विपरीतस्तदा राजंस्तस्मिन्नुत्पातलक्षणे ॥१४-७६-१८॥
रासभारुणसङ्काशा धनुष्मन्तः सविद्युतः। आवृत्य गगनं मेघा मुमुचुर्मांसशोणितम् ॥१४-७६-१९॥
एवमासीत्तदा वीरे शरवर्षाभिसंवृते। लोकेऽस्मिन्भरतश्रेष्ठ तदद्भुतमिवाभवत् ॥१४-७६-२०॥
तस्य तेनावकीर्णस्य शरजालेन सर्वशः। मोहात्पपात गाण्डीवमावापश्च करादपि ॥१४-७६-२१॥
तस्मिन्मोहमनुप्राप्ते शरजालं महत्तरम्। सैन्धवा मुमुचुस्तूर्णं गतसत्त्वे महारथे ॥१४-७६-२२॥
ततो मोहसमापन्नं ज्ञात्वा पार्थं दिवौकसः। सर्वे वित्रस्तमनसस्तस्य शान्तिपराभवन् ॥१४-७६-२३॥
ततो देवर्षयः सर्वे तथा सप्तर्षयोऽपि च। ब्रह्मर्षयश्च विजयं जेपुः पार्थस्य धीमतः ॥१४-७६-२४॥
ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव। तस्थावचलवद्धीमान्सङ्ग्रामे परमास्त्रवित् ॥१४-७६-२५॥
विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः। यन्त्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः ॥१४-७६-२६॥
ततः स शरवर्षाणि प्रत्यमित्रान्प्रति प्रभुः। ववर्ष धनुषा पार्थो वर्षाणीव सुरेश्वरः ॥१४-७६-२७॥
ततस्ते सैन्धवा योधाः सर्व एव सराजकाः। नादृश्यन्त शरैः कीर्णाः शलभैरिव पावकाः ॥१४-७६-२८॥
तस्य शब्देन वित्रेसुर्भयार्ताश्च विदुद्रुवुः। मुमुचुश्चाश्रु शोकार्ताः सुषुपुश्चापि सैन्धवाः ॥१४-७६-२९॥
तांस्तु सर्वान्नरश्रेष्ठः सर्वतो विचरन्बली। अलातचक्रवद्राजञ्शरजालैः समर्पयत् ॥१४-७६-३०॥
तदिन्द्रजालप्रतिमं बाणजालममित्रहा। व्यसृजद्दिक्षु सर्वासु महेन्द्र इव वज्रभृत् ॥१४-७६-३१॥
मेघजालनिभं सैन्यं विदार्य स रविप्रभः। विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः ॥१४-७६-३२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.