14.077
वैशम्पायन उवाच॥
ततो गाण्डीवभृच्छूरो युद्धाय समवस्थितः। विबभौ युधि दुर्धर्षो हिमवानचलो यथा ॥१४-७७-१॥
ततः सैन्धवयोधास्ते पुनरेव व्यवस्थिताः। विमुञ्चन्तः सुसंरब्धाः शरवर्षाणि भारत ॥१४-७७-२॥
तान्प्रसह्य महावीर्यः पुनरेव व्यवस्थितान्। ततः प्रोवाच कौन्तेयो मुमूर्षूञ्श्लक्ष्णया गिरा ॥१४-७७-३॥
युध्यध्वं परया शक्त्या यतध्वं च वधे मम। कुरुध्वं सर्वकार्याणि महद्वो भयमागतम् ॥१४-७७-४॥
एष योत्स्यामि वः सर्वान्निवार्य शरवागुराम्। तिष्ठध्वं युद्धमनसो दर्पं विनयितास्मि वः ॥१४-७७-५॥
एतावदुक्त्वा कौरव्यो रुषा गाण्डीवभृत्तदा। ततोऽथ वचनं स्मृत्वा भ्रातुर्ज्येष्ठस्य भारत ॥१४-७७-६॥
न हन्तव्या रणे तात क्षत्रिया विजिगीषवः। जेतव्याश्चेति यत्प्रोक्तं धर्मराज्ञा महात्मना ॥ चिन्तयामास च तदा फल्गुनः पुरुषर्षभः ॥१४-७७-७॥
इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति। कथं तन्न मृषेह स्याद्धर्मराजवचः शुभम् ॥१४-७७-८॥
न हन्येरंश्च राजानो राज्ञश्चाज्ञा कृता भवेत्। इति सञ्चिन्त्य स तदा भ्रातुः प्रियहिते रतः ॥ प्रोवाच वाक्यं धर्मज्ञः सैन्धवान्युद्धदुर्मदान् ॥१४-७७-९॥
बालान्स्त्रियो वा युष्माकं न हनिष्ये व्यवस्थितान्। यश्च वक्ष्यति सङ्ग्रामे तवास्मीति पराजितः ॥१४-७७-१०॥
एतच्छ्रुत्वा वचो मह्यं कुरुध्वं हितमात्मनः। अतोऽन्यथा कृच्छ्रगता भविष्यथ मयार्दिताः ॥१४-७७-११॥
एवमुक्त्वा तु तान्वीरान्युयुधे कुरुपुङ्गवः। अत्वरावानसंरब्धः संरब्धैर्विजिगीषुभिः ॥१४-७७-१२॥
ततः शतसहस्राणि शराणां नतपर्वणाम्। मुमुचुः सैन्धवा राजंस्तदा गाण्डीवधन्वनि ॥१४-७७-१३॥
स तानापततः क्रूरानाशीविषविषोपमान्। चिच्छेद निशितैर्बाणैरन्तरैव धनञ्जयः ॥१४-७७-१४॥
छित्त्वा तु तानाशुगमान्कङ्कपत्राञ्शिलाशितान्। एकैकमेष दशभिर्बिभेद समरे शरैः ॥१४-७७-१५॥
ततः प्रासांश्च शक्तीश्च पुनरेव धनञ्जये। जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः ॥१४-७७-१६॥
तेषां किरीटी सङ्कल्पं मोघं चक्रे महामनाः। सर्वांस्तानन्तरा छित्त्वा मुदा चुक्रोश पाण्डवः ॥१४-७७-१७॥
तथैवापततां तेषां योधानां जयगृद्धिनाम्। शिरांसि पातयामास भल्लैः संनतपर्वभिः ॥१४-७७-१८॥
तेषां प्रद्रवतां चैव पुनरेव च धावताम्। निवर्ततां च शब्दोऽभूत्पूर्णस्येव महोदधेः ॥१४-७७-१९॥
ते वध्यमानास्तु तदा पार्थेनामिततेजसा। यथाप्राणं यथोत्साहं योधयामासुरर्जुनम् ॥१४-७७-२०॥
ततस्ते फल्गुनेनाजौ शरैः संनतपर्वभिः। कृता विसञ्ज्ञा भूयिष्ठाः क्लान्तवाहनसैनिकाः ॥१४-७७-२१॥
तांस्तु सर्वान्परिग्लानान्विदित्वा धृतराष्ट्रजा। दुःशला बालमादाय नप्तारं प्रययौ तदा ॥ सुरथस्य सुतं वीरं रथेनानागसं तदा ॥१४-७७-२२॥
शान्त्यर्थं सर्वयोधानामभ्यगच्छत पाण्डवम्। सा धनञ्जयमासाद्य मुमोचार्तस्वरं तदा ॥ धनञ्जयोऽपि तां दृष्ट्वा धनुर्विससृजे प्रभुः ॥१४-७७-२३॥
समुत्सृष्टधनुः पार्थो विधिवद्भगिनीं तदा। प्राह किं करवाणीति सा च तं वाक्यमब्रवीत् ॥१४-७७-२४॥
एष ते भरतश्रेष्ठ स्वस्रीयस्यात्मजः शिशुः। अभिवादयते वीर तं पश्य पुरुषर्षभ ॥१४-७७-२५॥
इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तदा। क्वासाविति ततो राजन्दुःशला वाक्यमब्रवीत् ॥१४-७७-२६॥
पितृशोकाभिसन्तप्तो विषादार्तोऽस्य वै पिता। पञ्चत्वमगमद्वीर यथा तन्मे निबोध ह ॥१४-७७-२७॥
स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयानघ। त्वामागतं च संश्रुत्य युद्धाय हयसारिणम् ॥ पितुश्च मृत्युदुःखार्तोऽजहात्प्राणान्धनञ्जय ॥१४-७७-२८॥
प्राप्तो बीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ। विषादार्तः पपातोर्व्यां ममार च ममात्मजः ॥१४-७७-२९॥
तं तु दृष्ट्वा निपतितं ततस्तस्यात्मजं विभो। गृहीत्वा समनुप्राप्ता त्वामद्य शरणैषिणी ॥१४-७७-३०॥
इत्युक्त्वार्तस्वरं सा तु मुमोच धृतराष्ट्रजा। दीना दीनं स्थितं पार्थमब्रवीच्चाप्यधोमुखम् ॥१४-७७-३१॥
स्वसारं मामवेक्षस्व स्वस्रीयात्मजमेव च। कर्तुमर्हसि धर्मज्ञ दयां मयि कुरूद्वह ॥ विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम् ॥१४-७७-३२॥
अभिमन्योर्यथा जातः परिक्षित्परवीरहा। तथायं सुरथाज्जातो मम पौत्रो महाभुज ॥१४-७७-३३॥
तमादाय नरव्याघ्र सम्प्राप्तास्मि तवान्तिकम्। शमार्थं सर्वयोधानां शृणु चेदं वचो मम ॥१४-७७-३४॥
आगतोऽयं महाबाहो तस्य मन्दस्य पौत्रकः। प्रसादमस्य बालस्य तस्मात्त्वं कर्तुमर्हसि ॥१४-७७-३५॥
एष प्रसाद्य शिरसा मया सार्धमरिंदम। याचते त्वां महाबाहो शमं गच्छ धनञ्जय ॥१४-७७-३६॥
बालस्य हतबन्धोश्च पार्थ किञ्चिदजानतः। प्रसादं कुरु धर्मज्ञ मा मन्युवशमन्वगाः ॥१४-७७-३७॥
तमनार्यं नृशंसं च विस्मृत्यास्य पितामहम्। आगस्कारिणमत्यर्थं प्रसादं कर्तुमर्हसि ॥१४-७७-३८॥
एवं ब्रुवत्यां करुणं दुःशलायां धनञ्जयः। संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम् ॥ प्रोवाच दुःखशोकार्तः क्षत्रधर्मं विगर्हयन् ॥१४-७७-३९॥
धिक्तं दुर्योधनं क्षुद्रं राज्यलुब्धं च मानिनम्। यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम् ॥१४-७७-४०॥
इत्युक्त्वा बहु सान्त्वादि प्रसादमकरोज्जयः। परिष्वज्य च तां प्रीतो विससर्ज गृहान्प्रति ॥१४-७७-४१॥
दुःशला चापि तान्योधान्निवार्य महतो रणात्। सम्पूज्य पार्थं प्रययौ गृहान्प्रति शुभानना ॥१४-७७-४२॥
ततः सैन्धवकान्योधान्विनिर्जित्य नरर्षभः। पुनरेवान्वधावत्स तं हयं कामचारिणम् ॥१४-७७-४३॥
ससार यज्ञियं वीरो विधिवत्स विशां पते। तारामृगमिवाकाशे देवदेवः पिनाकधृक् ॥१४-७७-४४॥
स च वाजी यथेष्टेन तांस्तान्देशान्यथासुखम्। विचचार यथाकामं कर्म पार्थस्य वर्धयन् ॥१४-७७-४५॥
क्रमेण स हयस्त्वेवं विचरन्भरतर्षभ। मणिपूरपतेर्देशमुपायात्सहपाण्डवः ॥१४-७७-४६॥