14.078
बभ्रुवाहनयुद्धम्
वैशम्पायन उवाच॥
श्रुत्वा तु नृपतिर्वीरं पितरं बभ्रुवाहनः। निर्ययौ विनयेनार्यो ब्राह्मणार्घ्यपुरःसरः ॥१४-७८-१॥
मणिपूरेश्वरं त्वेवमुपयातं धनञ्जयः। नाभ्यनन्दत मेधावी क्षत्रधर्ममनुस्मरन् ॥१४-७८-२॥
उवाच चैनं धर्मात्मा समन्युः फल्गुनस्तदा। प्रक्रियेयं न ते युक्ता बहिस्त्वं क्षत्रधर्मतः ॥१४-७८-३॥
संरक्ष्यमाणं तुरगं यौधिष्ठिरमुपागतम्। यज्ञियं विषयान्ते मां नायोत्सीः किं नु पुत्रक ॥१४-७८-४॥
धिक्त्वामस्तु सुदुर्बुद्धिं क्षत्रधर्माविशारदम्। यो मां युद्धाय सम्प्राप्तं साम्नैवाथो त्वमग्रहीः ॥१४-७८-५॥
न त्वया पुरुषार्थश्च कश्चिदस्तीह जीवता। यस्त्वं स्त्रीवद्युधा प्राप्तं साम्ना मां प्रत्यगृह्णथाः ॥१४-७८-६॥
यद्यहं न्यस्तशस्त्रस्त्वामागच्छेयं सुदुर्मते। प्रक्रियेयं ततो युक्ता भवेत्तव नराधम ॥१४-७८-७॥
तमेवमुक्तं भर्त्रा तु विदित्वा पन्नगात्मजा। अमृष्यमाणा भित्त्वोर्वीमुलूपी तमुपागमत् ॥१४-७८-८॥
सा ददर्श ततः पुत्रं विमृशन्तमधोमुखम्। सन्तर्ज्यमानमसकृद्भर्त्रा युद्धार्थिना विभो ॥१४-७८-९॥
ततः सा चारुसर्वाङ्गी तमुपेत्योरगात्मजा। उलूपी प्राह वचनं क्षत्रधर्मविशारदा ॥१४-७८-१०॥
उलूपीं मां निबोध त्वं मातरं पन्नगात्मजाम्। कुरुष्व वचनं पुत्र धर्मस्ते भविता परः ॥१४-७८-११॥
युध्यस्वैनं कुरुश्रेष्ठं धनञ्जयमरिंदम। एवमेष हि ते प्रीतो भविष्यति न संशयः ॥१४-७८-१२॥
एवमुद्धर्षितो मात्रा स राजा बभ्रुवाहनः। मनश्चक्रे महातेजा युद्धाय भरतर्षभ ॥१४-७८-१३॥
संनह्य काञ्चनं वर्म शिरस्त्राणं च भानुमत्। तूणीरशतसम्बाधमारुरोह महारथम् ॥१४-७८-१४॥
सर्वोपकरणैर्युक्तं युक्तमश्वैर्मनोजवैः। सुचक्रोपस्करं धीमान्हेमभाण्डपरिष्कृतम् ॥१४-७८-१५॥
परमार्चितमुच्छ्रित्य ध्वजं सिंहं हिरण्मयम्। प्रययौ पार्थमुद्दिश्य स राजा बभ्रुवाहनः ॥१४-७८-१६॥
ततोऽभ्येत्य हयं वीरो यज्ञियं पार्थरक्षितम्। ग्राहयामास पुरुषैर्हयशिक्षाविशारदैः ॥१४-७८-१७॥
गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनञ्जयः। पुत्रं रथस्थं भूमिष्ठः संन्यवारयदाहवे ॥१४-७८-१८॥
ततः स राजा तं वीरं शरव्रातैः सहस्रशः। अर्दयामास निशितैराशीविषविषोपमैः ॥१४-७८-१९॥
तयोः समभवद्युद्धं पितुः पुत्रस्य चातुलम्। देवासुररणप्रख्यमुभयोः प्रीयमाणयोः ॥१४-७८-२०॥
किरीटिनं तु विव्याध शरेण नतपर्वणा। जत्रुदेशे नरव्याघ्रः प्रहसन्बभ्रुवाहनः ॥१४-७८-२१॥
सोऽभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः। विनिर्भिद्य च कौन्तेयं महीतलमथाविशत् ॥१४-७८-२२॥
स गाढवेदनो धीमानालम्ब्य धनुरुत्तमम्। दिव्यं तेजः समाविश्य प्रमीत इव सम्बभौ ॥१४-७८-२३॥
स सञ्ज्ञामुपलभ्याथ प्रशस्य पुरुषर्षभः। पुत्रं शक्रात्मजो वाक्यमिदमाह महीपते ॥१४-७८-२४॥
साधु साधु महाबाहो वत्स चित्राङ्गदात्मज। सदृशं कर्म ते दृष्ट्वा प्रीतिमानस्मि पुत्रक ॥१४-७८-२५॥
विमुञ्चाम्येष बाणांस्ते पुत्र युद्धे स्थिरो भव। इत्येवमुक्त्वा नाराचैरभ्यवर्षदमित्रहा ॥१४-७८-२६॥
तान्स गाण्डीवनिर्मुक्तान्वज्राशनिसमप्रभान्। नाराचैरच्छिनद्राजा सर्वानेव त्रिधा त्रिधा ॥१४-७८-२७॥
तस्य पार्थः शरैर्दिव्यैर्ध्वजं हेमपरिष्कृतम्। सुवर्णतालप्रतिमं क्षुरेणापाहरद्रथात् ॥१४-७८-२८॥
हयांश्चास्य महाकायान्महावेगपराक्रमान्। चकार राज्ञो निर्जीवान्प्रहसन्पाण्डवर्षभः ॥१४-७८-२९॥
स रथादवतीर्याशु राजा परमकोपनः। पदातिः पितरं कोपाद्योधयामास पाण्डवम् ॥१४-७८-३०॥
सम्प्रीयमाणः पाण्डूनामृषभः पुत्रविक्रमात्। नात्यर्थं पीडयामास पुत्रं वज्रधरात्मजः ॥१४-७८-३१॥
स हन्यमानो विमुखं पितरं बभ्रुवाहनः। शरैराशीविषाकारैः पुनरेवार्दयद्बली ॥१४-७८-३२॥
ततः स बाल्यात्पितरं विव्याध हृदि पत्रिणा। निशितेन सुपुङ्खेन बलवद्बभ्रुवाहनः ॥१४-७८-३३॥
स बाणस्तेजसा दीप्तो ज्वलन्निव हुताशनः। विवेश पाण्डवं राजन्मर्म भित्त्वातिदुःखकृत् ॥१४-७८-३४॥
स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः। महीं जगाम मोहार्तस्ततो राजन्धनञ्जयः ॥१४-७८-३५॥
तस्मिन्निपतिते वीरे कौरवाणां धुरन्धरे। सोऽपि मोहं जगामाशु ततश्चित्राङ्गदासुतः ॥१४-७८-३६॥
व्यायम्य संयुगे राजा दृष्ट्वा च पितरं हतम्। पूर्वमेव च बाणौघैर्गाढविद्धोऽर्जुनेन सः ॥१४-७८-३७॥
भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि। चित्राङ्गदा परित्रस्ता प्रविवेश रणाजिरम् ॥१४-७८-३८॥
शोकसन्तप्तहृदया रुदती सा ततः शुभा। मणिपूरपतेर्माता ददर्श निहतं पतिम् ॥१४-७८-३९॥