14.079
वैशम्पायन उवाच॥
ततो बहुविधं भीरुर्विलप्य कमलेक्षणा। मुमोह दुःखाद्दुर्धर्षा निपपात च भूतले ॥१४-७९-१॥
प्रतिलभ्य च सा सञ्ज्ञां देवी दिव्यवपुर्धरा। उलूपीं पन्नगसुतां दृष्ट्वेदं वाक्यमब्रवीत् ॥१४-७९-२॥
उलूपि पश्य भर्तारं शयानं निहतं रणे। त्वत्कृते मम पुत्रेण बालेन समितिञ्जयम् ॥१४-७९-३॥
ननु त्वमार्ये धर्मज्ञा ननु चासि पतिव्रता। यत्त्वत्कृतेऽयं पतितः पतिस्ते निहतो रणे ॥१४-७९-४॥
किं तु सर्वापराधोऽयं यदि तेऽद्य धनञ्जयः। क्षमस्व याच्यमाना मे सञ्जीवय धनञ्जयम् ॥१४-७९-५॥
ननु त्वमार्ये धर्मज्ञा त्रैलोक्यविदिता शुभे। यद्घातयित्वा भर्तारं पुत्रेणेह न शोचसि ॥१४-७९-६॥
नाहं शोचामि तनयं निहतं पन्नगात्मजे। पतिमेव तु शोचामि यस्यातिथ्यमिदं कृतम् ॥१४-७९-७॥
इत्युक्त्वा सा तदा देवीमुलूपीं पन्नगात्मजाम्। भर्तारमभिगम्येदमित्युवाच यशस्विनी ॥१४-७९-८॥
उत्तिष्ठ कुरुमुख्यस्य प्रियकाम मम प्रिय। अयमश्वो महाबाहो मया ते परिमोक्षितः ॥१४-७९-९॥
ननु नाम त्वया वीर धर्मराजस्य यज्ञियः। अयमश्वोऽनुसर्तव्यः स शेषे किं महीतले ॥१४-७९-१०॥
त्वयि प्राणाः समायत्ताः कुरूणां कुरुनन्दन। स कस्मात्प्राणदोऽन्येषां प्राणान्सन्त्यक्तवानसि ॥१४-७९-११॥
उलूपि साधु सम्पश्य भर्तारं निहतं रणे। पुत्रं चैनं समुत्साह्य घातयित्वा न शोचसि ॥१४-७९-१२॥
कामं स्वपितु बालोऽयं भूमौ प्रेतगतिं गतः। लोहिताक्षो गुडाकेशो विजयः साधु जीवतु ॥१४-७९-१३॥
नापराधोऽस्ति सुभगे नराणां बहुभार्यता। नारीणां तु भवत्येतन्मा ते भूद्बुद्धिरीदृशी ॥१४-७९-१४॥
सख्यं ह्येतत्कृतं धात्रा शाश्वतं चाव्ययं च ह। सख्यं समभिजानीहि सत्यं सङ्गतमस्तु ते ॥१४-७९-१५॥
पुत्रेण घातयित्वेमं पतिं यदि न मेऽद्य वै। जीवन्तं दर्शयस्यद्य परित्यक्ष्यामि जीवितम् ॥१४-७९-१६॥
साहं दुःखान्विता भीरु पतिपुत्रविनाकृता। इहैव प्रायमाशिष्ये प्रेक्षन्त्यास्ते न संशयः ॥१४-७९-१७॥
इत्युक्त्वा पन्नगसुतां सपत्नीं चैत्रवाहिनी। ततः प्रायमुपासीना तूष्णीमासीज्जनाधिप ॥१४-७९-१८॥