Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.082
अर्जुन उवाच॥
किमागमनकृत्यं ते कौरव्यकुलनन्दिनि। मणिपूरपतेर्मातुस्तथैव च रणाजिरे ॥१४-८२-१॥
कच्चित्कुशलकामासि राज्ञोऽस्य भुजगात्मजे। मम वा चञ्चलापाङ्गे कच्चित्त्वं शुभमिच्छसि ॥१४-८२-२॥
कच्चित्ते पृथुलश्रोणि नाप्रियं शुभदर्शने। अकार्षमहमज्ञानादयं वा बभ्रुवाहनः ॥१४-८२-३॥
कच्चिच्च राजपुत्री ते सपत्नी चैत्रवाहिनी। चित्राङ्गदा वरारोहा नापराध्यति किञ्चन ॥१४-८२-४॥
तमुवाचोरगपतेर्दुहिता प्रहसन्त्यथ। न मे त्वमपराद्धोऽसि न नृपो बभ्रुवाहनः ॥ न जनित्री तथास्येयं मम या प्रेष्यवत्स्थिता ॥१४-८२-५॥
श्रूयतां यद्यथा चेदं मया सर्वं विचेष्टितम्। न मे कोपस्त्वया कार्यः शिरसा त्वां प्रसादये ॥१४-८२-६॥
त्वत्प्रीत्यर्थं हि कौरव्य कृतमेतन्मयानघ। यत्तच्छृणु महाबाहो निखिलेन धनञ्जय ॥१४-८२-७॥
महाभारतयुद्धे यत्त्वया शान्तनवो नृपः। अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता ॥१४-८२-८॥
न हि भीष्मस्त्वया वीर युध्यमानो निपातितः। शिखण्डिना तु संसक्तस्तमाश्रित्य हतस्त्वया ॥१४-८२-९॥
तस्य शान्तिमकृत्वा तु त्यजेस्त्वं यदि जीवितम्। कर्मणा तेन पापेन पतेथा निरये ध्रुवम् ॥१४-८२-१०॥
एषा तु विहिता शान्तिः पुत्राद्यां प्राप्तवानसि। वसुभिर्वसुधापाल गङ्गया च महामते ॥१४-८२-११॥
पुरा हि श्रुतमेतद्वै वसुभिः कथितं मया। गङ्गायास्तीरमागम्य हते शान्तनवे नृपे ॥१४-८२-१२॥
आप्लुत्य देवा वसवः समेत्य च महानदीम्। इदमूचुर्वचो घोरं भागीरथ्या मते तदा ॥१४-८२-१३॥
एष शान्तनवो भीष्मो निहतः सव्यसाचिना। अयुध्यमानः सङ्ग्रामे संसक्तोऽन्येन भामिनि ॥१४-८२-१४॥
तदनेनाभिषङ्गेण वयमप्यर्जुनं शुभे। शापेन योजयामेति तथास्त्विति च साब्रवीत् ॥१४-८२-१५॥
तदहं पितुरावेद्य भृशं प्रव्यथितेन्द्रिया। अभवं स च तच्छ्रुत्वा विषादमगमत्परम् ॥१४-८२-१६॥
पिता तु मे वसून्गत्वा त्वदर्थं समयाचत। पुनः पुनः प्रसाद्यैनांस्त एनमिदमब्रुवन् ॥१४-८२-१७॥
पुनस्तस्य महाभाग मणिपूरेश्वरो युवा। स एनं रणमध्यस्थं शरैः पातयिता भुवि ॥१४-८२-१८॥
एवं कृते स नागेन्द्र मुक्तशापो भविष्यति। गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः ॥१४-८२-१९॥
तच्छ्रुत्वा त्वं मया तस्माच्छापादसि विमोक्षितः। न हि त्वां देवराजोऽपि समरेषु पराजयेत् ॥१४-८२-२०॥
आत्मा पुत्रः स्मृतस्तस्मात्तेनेहासि पराजितः। नात्र दोषो मम मतः कथं वा मन्यसे विभो ॥१४-८२-२१॥
इत्येवमुक्तो विजयः प्रसन्नात्माब्रवीदिदम्। सर्वं मे सुप्रियं देवि यदेतत्कृतवत्यसि ॥१४-८२-२२॥
इत्युक्त्वाथाब्रवीत्पुत्रं मणिपूरेश्वरं जयः। चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस्तथा ॥१४-८२-२३॥
युधिष्ठिरस्याश्वमेधः परां चैत्रीं भविष्यति। तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप ॥१४-८२-२४॥
इत्येवमुक्तः पार्थेन स राजा बभ्रुवाहनः। उवाच पितरं धीमानिदमस्राविलेक्षणः ॥१४-८२-२५॥
उपयास्यामि धर्मज्ञ भवतः शासनादहम्। अश्वमेधे महायज्ञे द्विजातिपरिवेषकः ॥१४-८२-२६॥
मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम्। भार्याभ्यां सह शत्रुघ्न मा भूत्तेऽत्र विचारणा ॥१४-८२-२७॥
उषित्वेह विशल्यस्त्वं सुखं स्वे वेश्मनि प्रभो। पुनरश्वानुगमनं कर्तासि जयतां वर ॥१४-८२-२८॥
इत्युक्तः स तु पुत्रेण तदा वानरकेतनः। स्मयन्प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम् ॥१४-८२-२९॥
विदितं ते महाबाहो यथा दीक्षां चराम्यहम्। न स तावत्प्रवेक्ष्यामि पुरं ते पृथुलोचन ॥१४-८२-३०॥
यथाकामं प्रयात्येष यज्ञियश्च तुरङ्गमः। स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम ॥१४-८२-३१॥
स तत्र विधिवत्तेन पूजितः पाकशासनिः। भार्याभ्यामभ्यनुज्ञातः प्रायाद्भरतसत्तमः ॥१४-८२-३२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.