14.083
मागधपराजयः
वैशम्पायन उवाच॥
स तु वाजी समुद्रान्तां पर्येत्य पृथिवीमिमाम्। निवृत्तोऽभिमुखो राजन्येन नागाह्वयं पुरम् ॥१४-८३-१॥
अनुगच्छंश्च तेजस्वी निवृत्तोऽथ किरीटभृत्। यदृच्छया समापेदे पुरं राजगृहं तदा ॥१४-८३-२॥
तमभ्याशगतं राजा जरासन्धात्मजात्मजः। क्षत्रधर्मे स्थितो वीरः समरायाजुहाव ह ॥१४-८३-३॥
ततः पुरात्स निष्क्रम्य रथी धन्वी शरी तली। मेघसन्धिः पदातिं तं धनञ्जयमुपाद्रवत् ॥१४-८३-४॥
आसाद्य च महातेजा मेघसन्धिर्धनञ्जयम्। बालभावान्महाराज प्रोवाचेदं न कौशलात् ॥१४-८३-५॥
किमयं चार्यते वाजी स्त्रीमध्य इव भारत। हयमेनं हरिष्यामि प्रयतस्व विमोक्षणे ॥१४-८३-६॥
अदत्तानुनयो युद्धे यदि त्वं पितृभिर्मम। करिष्यामि तवातिथ्यं प्रहर प्रहरामि वा ॥१४-८३-७॥
इत्युक्तः प्रत्युवाचैनं पाण्डवः प्रहसन्निव। विघ्नकर्ता मया वार्य इति मे व्रतमाहितम् ॥१४-८३-८॥
भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम्। प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम ॥१४-८३-९॥
इत्युक्तः प्राहरत्पूर्वं पाण्डवं मगधेश्वरः। किरञ्शरसहस्राणि वर्षाणीव सहस्रदृक् ॥१४-८३-१०॥
ततो गाण्डीवभृच्छूरो गाण्डीवप्रेषितैः शरैः। चकार मोघांस्तान्बाणानयत्नाद्भरतर्षभ ॥१४-८३-११॥
स मोघं तस्य बाणौघं कृत्वा वानरकेतनः। शरान्मुमोच ज्वलितान्दीप्तास्यानिव पन्नगान् ॥१४-८३-१२॥
ध्वजे पताकादण्डेषु रथयन्त्रे हयेषु च। अन्येषु च रथाङ्गेषु न शरीरे न सारथौ ॥१४-८३-१३॥
संरक्ष्यमाणः पार्थेन शरीरे फल्गुनस्य ह। मन्यमानः स्ववीर्यं तन्मागधः प्राहिणोच्छरान् ॥१४-८३-१४॥
ततो गाण्डीवभृच्छूरो मागधेन समाहतः। बभौ वासन्तिक इव पलाशः पुष्पितो महान् ॥१४-८३-१५॥
अवध्यमानः सोऽभ्यघ्नन्मागधः पाण्डवर्षभम्। तेन तस्थौ स कौरव्य लोकवीरस्य दर्शने ॥१४-८३-१६॥
सव्यसाची तु सङ्क्रुद्धो विकृष्य बलवद्धनुः। हयांश्चकार निर्देहान्सारथेश्च शिरोऽहरत् ॥१४-८३-१७॥
धनुश्चास्य महच्चित्रं क्षुरेण प्रचकर्त ह। हस्तावापं पताकां च ध्वजं चास्य न्यपातयत् ॥१४-८३-१८॥
स राजा व्यथितो व्यश्वो विधनुर्हतसारथिः। गदामादाय कौन्तेयमभिदुद्राव वेगवान् ॥१४-८३-१९॥
तस्यापतत एवाशु गदां हेमपरिष्कृताम्। शरैश्चकर्त बहुधा बहुभिर्गृध्रवाजितैः ॥१४-८३-२०॥
सा गदा शकलीभूता विशीर्णमणिबन्धना। व्याली निर्मुच्यमानेव पपातास्य सहस्रधा ॥१४-८३-२१॥
विरथं तं विधन्वानं गदया परिवर्जितम्। नैच्छत्ताडयितुं धीमानर्जुनः समराग्रणीः ॥१४-८३-२२॥
तत एनं विमनसं क्षत्रधर्मे समास्थितम्। सान्त्वपूर्वमिदं वाक्यमब्रवीत्कपिकेतनः ॥१४-८३-२३॥
पर्याप्तः क्षत्रधर्मोऽयं दर्शितः पुत्र गम्यताम्। बह्वेतत्समरे कर्म तव बालस्य पार्थिव ॥१४-८३-२४॥
युधिष्ठिरस्य संदेशो न हन्तव्या नृपा इति। तेन जीवसि राजंस्त्वमपराद्धोऽपि मे रणे ॥१४-८३-२५॥
इति मत्वा स चात्मानं प्रत्यादिष्टं स्म मागधः। तथ्यमित्यवगम्यैनं प्राञ्जलिः प्रत्यपूजयत् ॥१४-८३-२६॥
तमर्जुनः समाश्वास्य पुनरेवेदमब्रवीत्। आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ॥१४-८३-२७॥
इत्युक्तः स तथेत्युक्त्वा पूजयामास तं हयम्। फल्गुनं च युधां श्रेष्ठं विधिवत्सहदेवजः ॥१४-८३-२८॥
ततो यथेष्टमगमत्पुनरेव स केसरी। ततः समुद्रतीरेण वङ्गान्पुण्ड्रान्सकेरलान् ॥१४-८३-२९॥
तत्र तत्र च भूरीणि म्लेच्छसैन्यान्यनेकशः। विजिग्ये धनुषा राजन्गाण्डीवेन धनञ्जयः ॥१४-८३-३०॥