Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.081
वैशम्पायन उवाच॥
प्रायोपविष्टे नृपतौ मणिपूरेश्वरे तदा। पितृशोकसमाविष्टे सह मात्रा परन्तप ॥१४-८१-१॥
उलूपी चिन्तयामास तदा सञ्जीवनं मणिम्। स चोपातिष्ठत तदा पन्नगानां परायणम् ॥१४-८१-२॥
तं गृहीत्वा तु कौरव्य नागराजपतेः सुता। मनःप्रह्लादनीं वाचं सैनिकानामथाब्रवीत् ॥१४-८१-३॥
उत्तिष्ठ मा शुचः पुत्र नैष जिष्णुस्त्वया हतः। अजेयः पुरुषैरेष देवैर्वापि सवासवैः ॥१४-८१-४॥
मया तु मोहिनी नाम मायैषा सम्प्रयोजिता। प्रियार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः ॥१४-८१-५॥
जिज्ञासुर्ह्येष वै पुत्र बलस्य तव कौरवः। सङ्ग्रामे युध्यतो राजन्नागतः परवीरहा ॥१४-८१-६॥
तस्मादसि मया पुत्र युद्धार्थं परिचोदितः। मा पापमात्मनः पुत्र शङ्केथास्त्वण्वपि प्रभो ॥१४-८१-७॥
ऋषिरेष महातेजाः पुरुषः शाश्वतोऽव्ययः। नैनं शक्तो हि सङ्ग्रामे जेतुं शक्रोऽपि पुत्रक ॥१४-८१-८॥
अयं तु मे मणिर्दिव्यः समानीतो विशां पते। मृतान्मृतान्पन्नगेन्द्रान्यो जीवयति नित्यदा ॥१४-८१-९॥
एतमस्योरसि त्वं तु स्थापयस्व पितुः प्रभो। सञ्जीवितं पुनः पुत्र ततो द्रष्टासि पाण्डवम् ॥१४-८१-१०॥
इत्युक्तः स्थापयामास तस्योरसि मणिं तदा। पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत् ॥१४-८१-११॥
तस्मिन्न्यस्ते मणौ वीर जिष्णुरुज्जीवितः प्रभुः। सुप्तोत्थित इवोत्तस्थौ मृष्टलोहितलोचनः ॥१४-८१-१२॥
तमुत्थितं महात्मानं लब्धसञ्ज्ञं मनस्विनम्। समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः ॥१४-८१-१३॥
उत्थिते पुरुषव्याघ्रे पुनर्लक्ष्मीवति प्रभो। दिव्याः सुमनसः पुण्या ववृषे पाकशासनः ॥१४-८१-१४॥
अनाहता दुन्दुभयः प्रणेदुर्मेघनिस्वनाः। साधु साध्विति चाकाशे बभूव सुमहान्स्वनः ॥१४-८१-१५॥
उत्थाय तु महाबाहुः पर्याश्वस्तो धनञ्जयः। बभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि ॥१४-८१-१६॥
ददर्श चाविदूरेऽस्य मातरं शोककर्शिताम्। उलूप्या सह तिष्ठन्तीं ततोऽपृच्छद्धनञ्जयः ॥१४-८१-१७॥
किमिदं लक्ष्यते सर्वं शोकविस्मयहर्षवत्। रणाजिरममित्रघ्न यदि जानासि शंस मे ॥१४-८१-१८॥
जननी च किमर्थं ते रणभूमिमुपागता। नागेन्द्रदुहिता चेयमुलूपी किमिहागता ॥१४-८१-१९॥
जानाम्यहमिदं युद्धं त्वया मद्वचनात्कृतम्। स्त्रीणामागमने हेतुमहमिच्छामि वेदितुम् ॥१४-८१-२०॥
तमुवाच ततः पृष्टो मणिपूरपतिस्तदा। प्रसाद्य शिरसा विद्वानुलूपी पृच्छ्यतामिति ॥१४-८१-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.