14.084
एकलव्यसुतपराजयः
वैशम्पायन उवाच॥
मागधेनार्चितो राजन्पाण्डवः श्वेतवाहनः। दक्षिणां दिशमास्थाय चारयामास तं हयम् ॥१४-८४-१॥
ततः स पुनरावृत्य हयः कामचरो बली। आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम् ॥१४-८४-२॥
शरभेणार्चितस्तत्र शिशुपालात्मजेन सः। युद्धपूर्वेण मानेन पूजया च महाबलः ॥१४-८४-३॥
तत्रार्चितो ययौ राजंस्तदा स तुरगोत्तमः। काशीनन्ध्रान्कोसलांश्च किरातानथ तङ्गणान् ॥१४-८४-४॥
तत्र पूजां यथान्यायं प्रतिगृह्य स पाण्डवः। पुनरावृत्य कौन्तेयो दशार्णानगमत्तदा ॥१४-८४-५॥
तत्र चित्राङ्गदो नाम बलवान्वसुधाधिपः। तेन युद्धमभूत्तस्य विजयस्यातिभैरवम् ॥१४-८४-६॥
तं चापि वशमानीय किरीटी पुरुषर्षभः। निषादराज्ञो विषयमेकलव्यस्य जग्मिवान् ॥१४-८४-७॥
एकलव्यसुतश्चैनं युद्धेन जगृहे तदा। ततश्चक्रे निषादैः स सङ्ग्रामं रोमहर्षणम् ॥१४-८४-८॥
ततस्तमपि कौन्तेयः समरेष्वपराजितः। जिगाय समरे वीरो यज्ञविघ्नार्थमुद्यतम् ॥१४-८४-९॥
स तं जित्वा महाराज नैषादिं पाकशासनिः। अर्चितः प्रययौ भूयो दक्षिणं सलिलार्णवम् ॥१४-८४-१०॥
तत्रापि द्रविडैरन्ध्रै रौद्रैर्माहिषकैरपि। तथा कोल्लगिरेयैश्च युद्धमासीत्किरीटिनः ॥१४-८४-११॥
तुरगस्य वशेनाथ सुराष्ट्रानभितो ययौ। गोकर्णमपि चासाद्य प्रभासमपि जग्मिवान् ॥१४-८४-१२॥
ततो द्वारवतीं रम्यां वृष्णिवीराभिरक्षिताम्। आससाद हयः श्रीमान्कुरुराजस्य यज्ञियः ॥१४-८४-१३॥
तमुन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः। प्रययुस्तांस्तदा राजन्नुग्रसेनो न्यवारयत् ॥१४-८४-१४॥
ततः पुर्या विनिष्क्रम्य वृष्ण्यन्धकपतिस्तदा। सहितो वसुदेवेन मातुलेन किरीटिनः ॥१४-८४-१५॥
तौ समेत्य कुरुश्रेष्ठं विधिवत्प्रीतिपूर्वकम्। परया भरतश्रेष्ठं पूजया समवस्थितौ ॥ ततस्ताभ्यामनुज्ञातो ययौ येन हयो गतः ॥१४-८४-१६॥
ततः स पश्चिमं देशं समुद्रस्य तदा हयः। क्रमेण व्यचरत्स्फीतं ततः पञ्चनदं ययौ ॥१४-८४-१७॥
तस्मादपि स कौरव्य गान्धारविषयं हयः। विचचार यथाकामं कौन्तेयानुगतस्तदा ॥१४-८४-१८॥
तत्र गान्धारराजेन युद्धमासीन्महात्मनः। घोरं शकुनिपुत्रेण पूर्ववैरानुसारिणा ॥१४-८४-१९॥