Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.085
गान्धारपराजयः
वैशम्पायन उवाच॥
शकुनेस्तु सुतो वीरो गान्धाराणां महारथः। प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः ॥ हस्त्यश्वरथपूर्णेन पताकाध्वजमालिना ॥१४-८५-१॥
अमृष्यमाणास्ते योधा नृपतेः शकुनेर्वधम्। अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः ॥१४-८५-२॥
तानुवाच स धर्मात्मा बीभत्सुरपराजितः। युधिष्ठिरस्य वचनं न च ते जगृहुर्हितम् ॥१४-८५-३॥
वार्यमाणास्तु पार्थेन सान्त्वपूर्वममर्षिताः। परिवार्य हयं जग्मुस्ततश्चुक्रोध पाण्डवः ॥१४-८५-४॥
ततः शिरांसि दीप्ताग्रैस्तेषां चिच्छेद पाण्डवः। क्षुरैर्गाण्डीवनिर्मुक्तैर्नातियत्नादिवार्जुनः ॥१४-८५-५॥
ते वध्यमानाः पार्थेन हयमुत्सृज्य सम्भ्रमात्। न्यवर्तन्त महाराज शरवर्षार्दिता भृशम् ॥१४-८५-६॥
वितुद्यमानस्तैश्चापि गान्धारैः पाण्डवर्षभः। आदिश्यादिश्य तेजस्वी शिरांस्येषां न्यपातयत् ॥१४-८५-७॥
वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततः। स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत् ॥१४-८५-८॥
तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम्। पार्थोऽब्रवीन्न मे वध्या राजानो राजशासनात् ॥ अलं युद्धेन ते वीर न तेऽस्त्यद्य पराजयः ॥१४-८५-९॥
इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितः। स शक्रसमकर्माणमवाकिरत सायकैः ॥१४-८५-१०॥
तस्य पार्थः शिरस्त्राणमर्धचन्द्रेण पत्रिणा। अपाहरदसम्भ्रान्तो जयद्रथशिरो यथा ॥१४-८५-११॥
तद्दृष्ट्वा विस्मयं जग्मुर्गान्धाराः सर्व एव ते। इच्छता तेन न हतो राजेत्यपि च ते विदुः ॥१४-८५-१२॥
गान्धारराजपुत्रस्तु पलायनकृतक्षणः। बभौ तैरेव सहितस्त्रस्तैः क्षुद्रमृगैरिव ॥१४-८५-१३॥
तेषां तु तरसा पार्थस्तत्रैव परिधावताम्। विजहारोत्तमाङ्गानि भल्लैः संनतपर्वभिः ॥१४-८५-१४॥
उच्छ्रितांस्तु भुजान्केचिन्नाबुध्यन्त शरैर्हृतान्। शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः ॥१४-८५-१५॥
सम्भ्रान्तनरनागाश्वमथ तद्विद्रुतं बलम्। हतविध्वस्तभूयिष्ठमावर्तत मुहुर्मुहुः ॥१४-८५-१६॥
न ह्यदृश्यन्त वीरस्य केचिदग्रेऽग्र्यकर्मणः। रिपवः पात्यमाना वै ये सहेयुर्महाशरान् ॥१४-८५-१७॥
ततो गान्धारराजस्य मन्त्रिवृद्धपुरःसरा। जननी निर्ययौ भीता पुरस्कृत्यार्घ्यमुत्तमम् ॥१४-८५-१८॥
सा न्यवारयदव्यग्रा तं पुत्रं युद्धदुर्मदम्। प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम् ॥१४-८५-१९॥
तां पूजयित्वा कौन्तेयः प्रसादमकरोत्तदा। शकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत् ॥१४-८५-२०॥
न मे प्रियं महाबाहो यत्ते बुद्धिरियं कृता। प्रतियोद्धुममित्रघ्न भ्रातैव त्वं ममानघ ॥१४-८५-२१॥
गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन च। तेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव ॥१४-८५-२२॥
मैवं भूः शाम्यतां वैरं मा ते भूद्बुद्धिरीदृशी। आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ॥१४-८५-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.