14.086
यज्ञायतननिर्माणम्
वैशम्पायन उवाच॥
इत्युक्त्वानुययौ पार्थो हयं तं कामचारिणम्। न्यवर्तत ततो वाजी येन नागाह्वयं पुरम् ॥१४-८६-१॥
तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः। श्रुत्वार्जुनं कुशलिनं स च हृष्टमनाभवत् ॥१४-८६-२॥
विजयस्य च तत्कर्म गान्धारविषये तदा। श्रुत्वान्येषु च देशेषु स सुप्रीतोऽभवन्नृपः ॥१४-८६-३॥
एतस्मिन्नेव काले तु द्वादशीं माघपाक्षिकीम्। इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः ॥१४-८६-४॥
समानाय्य महातेजाः सर्वान्भ्रातॄन्महामनाः। भीमं च नकुलं चैव सहदेवं च कौरवः ॥१४-८६-५॥
प्रोवाचेदं वचः काले तदा धर्मभृतां वरः। आमन्त्र्य वदतां श्रेष्ठो भीमं भीमपराक्रमम् ॥१४-८६-६॥
आयाति भीमसेनासौ सहाश्वेन तवानुजः। यथा मे पुरुषाः प्राहुर्ये धनञ्जयसारिणः ॥१४-८६-७॥
उपस्थितश्च कालोऽयमभितो वर्तते हयः। माघी च पौर्णमासीयं मासः शेषो वृकोदर ॥१४-८६-८॥
तत्प्रस्थाप्यन्तु विद्वांसो ब्राह्मणा वेदपारगाः। वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् ॥१४-८६-९॥
इत्युक्तः स तु तच्चक्रे भीमो नृपतिशासनम्। हृष्टः श्रुत्वा नरपतेरायान्तं सव्यसाचिनम् ॥१४-८६-१०॥
ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह। ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मसु ॥१४-८६-११॥
तं सशालचयग्रामं सम्प्रतोलीविटङ्किनम्। मापयामास कौरव्यो यज्ञवाटं यथाविधि ॥१४-८६-१२॥
सदः सपत्नीसदनं साग्नीध्रमपि चोत्तरम्। कारयामास विधिवन्मणिहेमविभूषितम् ॥१४-८६-१३॥
स्तम्भान्कनकचित्रांश्च तोरणानि बृहन्ति च। यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् ॥१४-८६-१४॥
अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम्। कारयामास धर्मात्मा तत्र तत्र यथाविधि ॥१४-८६-१५॥
ब्राह्मणानां च वेश्मानि नानादेशसमेयुषाम्। कारयामास भीमः स विविधानि ह्यनेकशः ॥१४-८६-१६॥
तथा सम्प्रेषयामास दूतान्नृपतिशासनात्। भीमसेनो महाराज राज्ञामक्लिष्टकर्मणाम् ॥१४-८६-१७॥
ते प्रियार्थं कुरुपतेराययुर्नृपसत्तमाः। रत्नान्यनेकान्यादाय स्त्रियोऽश्वानायुधानि च ॥१४-८६-१८॥
तेषां निविशतां तेषु शिबिरेषु सहस्रशः। नर्दतः सागरस्येव शब्दो दिवमिवास्पृशत् ॥१४-८६-१९॥
तेषामभ्यागतानां स राजा राजीवलोचनः। व्यादिदेशान्नपानानि शय्याश्चाप्यतिमानुषाः ॥१४-८६-२०॥
वाहनानां च विविधाः शालाः शालीक्षुगोरसैः। उपेताः पुरुषव्याघ्र व्यादिदेश स धर्मराट् ॥१४-८६-२१॥
तथा तस्मिन्महायज्ञे धर्मराजस्य धीमतः। समाजग्मुर्मुनिगणा बहवो ब्रह्मवादिनः ॥१४-८६-२२॥
ये च द्विजातिप्रवरास्तत्रासन्पृथिवीपते। समाजग्मुः सशिष्यांस्तान्प्रतिजग्राह कौरवः ॥१४-८६-२३॥
सर्वांश्च ताननुययौ यावदावसथादिति। स्वयमेव महातेजा दम्भं त्यक्त्वा युधिष्ठिरः ॥१४-८६-२४॥
ततः कृत्वा स्थपतयः शिल्पिनोऽन्ये च ये तदा। कृत्स्नं यज्ञविधिं राजन्धर्मराज्ञे न्यवेदयन् ॥१४-८६-२५॥
तच्छ्रुत्वा धर्मराजः स कृतं सर्वमनिन्दितम्। हृष्टरूपोऽभवद्राजा सह भ्रातृभिरच्युतः ॥१४-८६-२६॥