Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.087
यज्ञसमृद्धिः
वैशम्पायन उवाच॥
तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः। हेतुवादान्बहून्प्राहुः परस्परजिगीषवः ॥१४-८७-१॥
ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम्। देवेन्द्रस्येव विहितं भीमेन कुरुनन्दन ॥१४-८७-२॥
ददृशुस्तोरणान्यत्र शातकुम्भमयानि ते। शय्यासनविहारांश्च सुबहून्रत्नभूषितान् ॥१४-८७-३॥
घटान्पात्रीः कटाहानि कलशान्वर्धमानकान्। न हि किञ्चिदसौवर्णमपश्यंस्तत्र पार्थिवाः ॥१४-८७-४॥
यूपांश्च शास्त्रपठितान्दारवान्हेमभूषितान्। उपकॢप्तान्यथाकालं विधिवद्भूरिवर्चसः ॥१४-८७-५॥
स्थलजा जलजा ये च पशवः केचन प्रभो। सर्वानेव समानीतांस्तानपश्यन्त ते नृपाः ॥१४-८७-६॥
गाश्चैव महिषीश्चैव तथा वृद्धाः स्त्रियोऽपि च। औदकानि च सत्त्वानि श्वापदानि वयांसि च ॥१४-८७-७॥
जरायुजान्यण्डजानि स्वेदजान्युद्भिदानि च। पर्वतानूपवन्यानि भूतानि ददृशुश्च ते ॥१४-८७-८॥
एवं प्रमुदितं सर्वं पशुगोधनधान्यतः। यज्ञवाटं नृपा दृष्ट्वा परं विस्मयमागमन् ॥ ब्राह्मणानां विशां चैव बहुमृष्टान्नमृद्धिमत् ॥१४-८७-९॥
पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम्। दुन्दुभिर्मेघनिर्घोषो मुहुर्मुहुरताड्यत ॥१४-८७-१०॥
विननादासकृत्सोऽथ दिवसे दिवसे तदा। एवं स ववृते यज्ञो धर्मराजस्य धीमतः ॥१४-८७-११॥
अन्नस्य बहवो राजन्नुत्सर्गाः पर्वतोपमाः। दधिकुल्याश्च ददृशुः सर्पिषश्च ह्रदाञ्जनाः ॥१४-८७-१२॥
जम्बूद्वीपो हि सकलो नानाजनपदायुतः। राजन्नदृश्यतैकस्थो राज्ञस्तस्मिन्महाक्रतौ ॥१४-८७-१३॥
तत्र जातिसहस्राणि पुरुषाणां ततस्ततः। गृहीत्वा धनमाजग्मुर्बहूनि भरतर्षभ ॥१४-८७-१४॥
राजानः स्रग्विणश्चापि सुमृष्टमणिकुण्डलाः। पर्यवेषन्द्विजाग्र्यांस्ताञ्शतशोऽथ सहस्रशः ॥१४-८७-१५॥
विविधान्यन्नपानानि पुरुषा येऽनुयायिनः। तेषां नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः स्म ते ॥१४-८७-१६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.