14.090
यूपोच्छ्रयः
वैशम्पायन उवाच॥
स प्रविश्य यथान्यायं पाण्डवानां निवेशनम्। पितामहीमभ्यवदत्साम्ना परमवल्गुना ॥१४-९०-१॥
तथा चित्राङ्गदा देवी कौरव्यस्यात्मजापि च। पृथां कृष्णां च सहिते विनयेनाभिजग्मतुः ॥ सुभद्रां च यथान्यायं याश्चान्याः कुरुयोषितः ॥१४-९०-२॥
ददौ कुन्ती ततस्ताभ्यां रत्नानि विविधानि च। द्रौपदी च सुभद्रा च याश्चाप्यन्या ददुः स्त्रियः ॥१४-९०-३॥
ऊषतुस्तत्र ते देव्यौ महार्हशयनासने। सुपूजिते स्वयं कुन्त्या पार्थस्य प्रियकाम्यया ॥१४-९०-४॥
स च राजा महावीर्यः पूजितो बभ्रुवाहनः। धृतराष्ट्रं महीपालमुपतस्थे यथाविधि ॥१४-९०-५॥
युधिष्ठिरं च राजानं भीमादींश्चापि पाण्डवान्। उपगम्य महातेजा विनयेनाभ्यवादयत् ॥१४-९०-६॥
स तैः प्रेम्णा परिष्वक्तः पूजितश्च यथाविधि। धनं चास्मै ददुर्भूरि प्रीयमाणा महारथाः ॥१४-९०-७॥
तथैव स महीपालः कृष्णं चक्रगदाधरम्। प्रद्युम्न इव गोविन्दं विनयेनोपतस्थिवान् ॥१४-९०-८॥
तस्मै कृष्णो ददौ राज्ञे महार्हमभिपूजितम्। रथं हेमपरिष्कारं दिव्याश्वयुजमुत्तमम् ॥१४-९०-९॥
धर्मराजश्च भीमश्च यमजौ फल्गुनस्तथा। पृथक्पृथगतीवैनं मानार्हं समपूजयन् ॥१४-९०-१०॥
ततस्तृतीये दिवसे सत्यवत्याः सुतो मुनिः। युधिष्ठिरं समभ्येत्य वाग्मी वचनमब्रवीत् ॥१४-९०-११॥
अद्य प्रभृति कौन्तेय यजस्व समयो हि ते। मुहूर्तो यज्ञियः प्राप्तश्चोदयन्ति च याजकाः ॥१४-९०-१२॥
अहीनो नाम राजेन्द्र क्रतुस्तेऽयं विकल्पवान्। बहुत्वात्काञ्चनस्यास्य ख्यातो बहुसुवर्णकः ॥१४-९०-१३॥
एवमेव महाराज दक्षिणां त्रिगुणां कुरु। त्रित्वं व्रजतु ते राजन्ब्राह्मणा ह्यत्र कारणम् ॥१४-९०-१४॥
त्रीनश्वमेधानत्र त्वं सम्प्राप्य बहुदक्षिणान्। ज्ञातिवध्याकृतं पापं प्रहास्यसि नराधिप ॥१४-९०-१५॥
पवित्रं परमं ह्येतत्पावनानां च पावनम्। यदश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन ॥१४-९०-१६॥
इत्युक्तः स तु तेजस्वी व्यासेनामिततेजसा। दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये तदा ॥ नराधिपः प्रायजत वाजिमेधं महाक्रतुम् ॥१४-९०-१७॥
तत्र वेदविदो राजंश्चक्रुः कर्माणि याजकाः। परिक्रमन्तः शास्त्रज्ञा विधिवत्साधुशिक्षिताः ॥१४-९०-१८॥
न तेषां स्खलितं तत्र नासीदपहुतं तथा। क्रमयुक्तं च युक्तं च चक्रुस्तत्र द्विजर्षभाः ॥१४-९०-१९॥
कृत्वा प्रवर्ग्यं धर्मज्ञा यथावद्द्विजसत्तमाः। चक्रुस्ते विधिवद्राजंस्तथैवाभिषवं द्विजाः ॥१४-९०-२०॥
अभिषूय ततो राजन्सोमं सोमपसत्तमाः। सवनान्यानुपूर्व्येण चक्रुः शास्त्रानुसारिणः ॥१४-९०-२१॥
न तत्र कृपणः कश्चिन्न दरिद्रो बभूव ह। क्षुधितो दुःखितो वापि प्राकृतो वापि मानवः ॥१४-९०-२२॥
भोजनं भोजनार्थिभ्यो दापयामास नित्यदा। भीमसेनो महातेजाः सततं राजशासनात् ॥१४-९०-२३॥
संस्तरे कुशलाश्चापि सर्वकर्माणि याजकाः। दिवसे दिवसे चक्रुर्यथाशास्त्रार्थचक्षुषः ॥१४-९०-२४॥
नाषडङ्गविदत्रासीत्सदस्यस्तस्य धीमतः। नाव्रतो नानुपाध्यायो न च वादाक्षमो द्विजः ॥१४-९०-२५॥
ततो यूपोच्छ्रये प्राप्ते षड्बैल्वान्भरतर्षभ। खादिरान्बिल्वसमितांस्तावतः सर्ववर्णिनः ॥१४-९०-२६॥
देवदारुमयौ द्वौ तु यूपौ कुरुपतेः क्रतौ। श्लेष्मातकमयं चैकं याजकाः समकारयन् ॥१४-९०-२७॥
शोभार्थं चापरान्यूपान्काञ्चनान्पुरुषर्षभ। स भीमः कारयामास धर्मराजस्य शासनात् ॥१४-९०-२८॥
ते व्यराजन्त राजर्षे वासोभिरुपशोभिताः। नरेन्द्राभिगता देवान्यथा सप्तर्षयो दिवि ॥१४-९०-२९॥
इष्टकाः काञ्चनीश्चात्र चयनार्थं कृताभवन्। शुशुभे चयनं तत्र दक्षस्येव प्रजापतेः ॥१४-९०-३०॥
चतुश्चित्यः स तस्यासीदष्टादशकरात्मकः। स रुक्मपक्षो निचितस्त्रिगुणो गरुडाकृतिः ॥१४-९०-३१॥
ततो नियुक्ताः पशवो यथाशास्त्रं मनीषिभिः। तं तं देवं समुद्दिश्य पक्षिणः पशवश्च ये ॥१४-९०-३२॥
ऋषभाः शास्त्रपठितास्तथा जलचराश्च ये। सर्वांस्तानभ्ययुञ्जंस्ते तत्राग्निचयकर्मणि ॥१४-९०-३३॥
यूपेषु नियतं चासीत्पशूनां त्रिशतं तथा। अश्वरत्नोत्तरं राज्ञः कौन्तेयस्य महात्मनः ॥१४-९०-३४॥
स यज्ञः शुशुभे तस्य साक्षाद्देवर्षिसङ्कुलः। गन्धर्वगणसङ्कीर्णः शोभितोऽप्सरसां गणैः ॥१४-९०-३५॥
स किम्पुरुषगीतैश्च किंनरैरुपशोभितः। सिद्धविप्रनिवासैश्च समन्तादभिसंवृतः ॥१४-९०-३६॥
तस्मिन्सदसि नित्यास्तु व्यासशिष्या द्विजोत्तमाः। सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु ॥१४-९०-३७॥
नारदश्च बभूवात्र तुम्बुरुश्च महाद्युतिः। विश्वावसुश्चित्रसेनस्तथान्ये गीतकोविदाः ॥१४-९०-३८॥
गन्धर्वा गीतकुशला नृत्तेषु च विशारदाः। रमयन्ति स्म तान्विप्रान्यज्ञकर्मान्तरेष्वथ ॥१४-९०-३९॥