14.089
युधिष्ठिर उवाच॥
श्रुतं प्रियमिदं कृष्ण यत्त्वमर्हसि भाषितुम्। तन्मेऽमृतरसप्रख्यं मनो ह्लादयते विभो ॥१४-८९-१॥
बहूनि किल युद्धानि विजयस्य नराधिपैः। पुनरासन्हृषीकेश तत्र तत्रेति मे श्रुतम् ॥१४-८९-२॥
मन्निमित्तं हि स सदा पार्थः सुखविवर्जितः। अतीव विजयो धीमानिति मे दूयते मनः ॥१४-८९-३॥
सञ्चिन्तयामि वार्ष्णेय सदा कुन्तीसुतं रहः। किं नु तस्य शरीरेऽस्ति सर्वलक्षणपूजिते ॥ अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते ॥१४-८९-४॥
अतीव दुःखभागी स सततं कुन्तिनन्दनः। न च पश्यामि बीभत्सोर्निन्द्यं गात्रेषु किञ्चन ॥ श्रोतव्यं चेन्मयैतद्वै तन्मे व्याख्यातुमर्हसि ॥१४-८९-५॥
इत्युक्तः स हृषीकेशो ध्यात्वा सुमहदन्तरम्। राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत् ॥१४-८९-६॥
न ह्यस्य नृपते किञ्चिदनिष्टमुपलक्षये। ऋते पुरुषसिंहस्य पिण्डिकेऽस्यातिकायतः ॥१४-८९-७॥
ताभ्यां स पुरुषव्याघ्रो नित्यमध्वसु युज्यते। न ह्यन्यदनुपश्यामि येनासौ दुःखभाग्जयः ॥१४-८९-८॥
इत्युक्तः स कुरुश्रेष्ठस्तथ्यं कृष्णेन धीमता। प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो ॥१४-८९-९॥
कृष्णा तु द्रौपदी कृष्णं तिर्यक्सासूयमैक्षत। प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा ॥ सख्युः सखा हृषीकेशः साक्षादिव धनञ्जयः ॥१४-८९-१०॥
तत्र भीमादयस्ते तु कुरवो यादवास्तथा। रेमुः श्रुत्वा विचित्रार्था धनञ्जयकथा विभो ॥१४-८९-११॥
तथा कथयतामेव तेषामर्जुनसङ्कथाः। उपायाद्वचनान्मर्त्यो विजयस्य महात्मनः ॥१४-८९-१२॥
सोऽभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान्। उपायातं नरव्याघ्रमर्जुनं प्रत्यवेदयत् ॥१४-८९-१३॥
तच्छ्रुत्वा नृपतिस्तस्य हर्षबाष्पाकुलेक्षणः। प्रियाख्याननिमित्तं वै ददौ बहु धनं तदा ॥१४-८९-१४॥
ततो द्वितीये दिवसे महाञ्शब्दो व्यवर्धत। आयाति पुरुषव्याघ्रे पाण्डवानां धुरन्धरे ॥१४-८९-१५॥
ततो रेणुः समुद्भूतो विबभौ तस्य वाजिनः। अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा ॥१४-८९-१६॥
तत्र हर्षकला वाचो नराणां शुश्रुवेऽर्जुनः। दिष्ट्यासि पार्थ कुशली धन्यो राजा युधिष्ठिरः ॥१४-८९-१७॥
कोऽन्यो हि पृथिवीं कृत्स्नामवजित्य सपार्थिवाम्। चारयित्वा हयश्रेष्ठमुपायायादृतेऽर्जुनम् ॥१४-८९-१८॥
ये व्यतीता महात्मानो राजानः सगरादयः। तेषामपीदृशं कर्म न किञ्चिदनुशुश्रुम ॥१४-८९-१९॥
नैतदन्ये करिष्यन्ति भविष्याः पृथिवीक्षितः। यत्त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानिह ॥१४-८९-२०॥
इत्येवं वदतां तेषां नॄणां श्रुतिसुखा गिरः। शृण्वन्विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम् ॥१४-८९-२१॥
ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः। धृतराष्ट्रं पुरस्कृत्य ते तं प्रत्युद्ययुस्तदा ॥१४-८९-२२॥
सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः। भीमादींश्चापि सम्पूज्य पर्यष्वजत केशवम् ॥१४-८९-२३॥
तैः समेत्यार्चितस्तान्स प्रत्यर्च्य च यथाविधि। विशश्रामाथ धर्मात्मा तीरं लब्ध्वेव पारगः ॥१४-८९-२४॥
एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः। मातृभ्यां सहितो धीमान्कुरूनभ्याजगाम ह ॥१४-८९-२५॥
स समेत्य कुरून्सर्वान्सर्वैस्तैरभिनन्दितः। प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम् ॥१४-८९-२६॥