Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.091
यज्ञसमाप्तिः
नकुलोपाख्यानम्
वैशम्पायन उवाच॥
शमयित्वा पशूनन्यान्विधिवद्द्विजसत्तमाः। तुरगं तं यथाशास्त्रमालभन्त द्विजातयः ॥१४-९१-१॥
ततः सञ्ज्ञाप्य तुरगं विधिवद्याजकर्षभाः। उपसंवेशयन्राजंस्ततस्तां द्रुपदात्मजाम् ॥ कलाभिस्तिसृभी राजन्यथाविधि मनस्विनीम् ॥१४-९१-२॥
उद्धृत्य तु वपां तस्य यथाशास्त्रं द्विजर्षभाः। श्रपयामासुरव्यग्राः शास्त्रवद्भरतर्षभ ॥१४-९१-३॥
तं वपाधूमगन्धं तु धर्मराजः सहानुजः। उपाजिघ्रद्यथान्यायं सर्वपाप्मापहं तदा ॥१४-९१-४॥
शिष्टान्यङ्गानि यान्यासंस्तस्याश्वस्य नराधिप। तान्यग्नौ जुहुवुर्धीराः समस्ताः षोडशर्त्विजः ॥१४-९१-५॥
संस्थाप्यैवं तस्य राज्ञस्तं क्रतुं शक्रतेजसः। व्यासः सशिष्यो भगवान्वर्धयामास तं नृपम् ॥१४-९१-६॥
ततो युधिष्ठिरः प्रादात्सदस्येभ्यो यथाविधि। कोटीसहस्रं निष्काणां व्यासाय तु वसुन्धराम् ॥१४-९१-७॥
प्रतिगृह्य धरां राजन्व्यासः सत्यवतीसुतः। अब्रवीद्भरतश्रेष्ठं धर्मात्मानं युधिष्ठिरम् ॥१४-९१-८॥
पृथिवी भवतस्त्वेषा संन्यस्ता राजसत्तम। निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिनः ॥१४-९१-९॥
युधिष्ठिरस्तु तान्विप्रान्प्रत्युवाच महामनाः। भ्रातृभिः सहितो धीमान्मध्ये राज्ञां महात्मनाम् ॥१४-९१-१०॥
अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता। अर्जुनेन जिता सेयमृत्विग्भ्यः प्रापिता मया ॥१४-९१-११॥
वनं प्रवेक्ष्ये विप्रेन्द्रा विभजध्वं महीमिमाम्। चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः ॥१४-९१-१२॥
नाहमादातुमिच्छामि ब्रह्मस्वं मुनिसत्तमाः। इदं हि मे मतं नित्यं भ्रातॄणां च ममानघाः ॥१४-९१-१३॥
इत्युक्तवति तस्मिंस्ते भ्रातरो द्रौपदी च सा। एवमेतदिति प्राहुस्तदभूद्रोमहर्षणम् ॥१४-९१-१४॥
ततोऽन्तरिक्षे वागासीत्साधु साध्विति भारत। तथैव द्विजसङ्घानां शंसतां विबभौ स्वनः ॥१४-९१-१५॥
द्वैपायनस्तथोक्तस्तु पुनरेव युधिष्ठिरम्। उवाच मध्ये विप्राणामिदं सम्पूजयन्मुनिः ॥१४-९१-१६॥
दत्तैषा भवता मह्यं तां ते प्रतिददाम्यहम्। हिरण्यं दीयतामेभ्यो द्विजातिभ्यो धरास्तु ते ॥१४-९१-१७॥
ततोऽब्रवीद्वासुदेवो धर्मराजं युधिष्ठिरम्। यथाह भगवान्व्यासस्तथा तत्कर्तुमर्हसि ॥१४-९१-१८॥
इत्युक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह। कोटिकोटिकृतां प्रादाद्दक्षिणां त्रिगुणां क्रतोः ॥१४-९१-१९॥
न करिष्यति तल्लोके कश्चिदन्यो नराधिपः। यत्कृतं कुरुसिंहेन मरुत्तस्यानुकुर्वता ॥१४-९१-२०॥
प्रतिगृह्य तु तद्द्रव्यं कृष्णद्वैपायनः प्रभुः। ऋत्विग्भ्यः प्रददौ विद्वांश्चतुर्धा व्यभजंश्च ते ॥१४-९१-२१॥
पृथिव्या निष्क्रयं दत्त्वा तद्धिरण्यं युधिष्ठिरः। धूतपाप्मा जितस्वर्गो मुमुदे भ्रातृभिः सह ॥१४-९१-२२॥
ऋत्विजस्तमपर्यन्तं सुवर्णनिचयं तदा। व्यभजन्त द्विजातिभ्यो यथोत्साहं यथाबलम् ॥१४-९१-२३॥
यज्ञवाटे तु यत्किञ्चिद्धिरण्यमपि भूषणम्। तोरणानि च यूपांश्च घटाः पात्रीस्तथेष्टकाः ॥ युधिष्ठिराभ्यनुज्ञाताः सर्वं तद्व्यभजन्द्विजाः ॥१४-९१-२४॥
अनन्तरं ब्राह्मणेभ्यः क्षत्रिया जह्रिरे वसु। तथा विट्शूद्रसङ्घाश्च तथान्ये म्लेच्छजातयः ॥ कालेन महता जह्रुस्तत्सुवर्णं ततस्ततः ॥१४-९१-२५॥
ततस्ते ब्राह्मणाः सर्वे मुदिता जग्मुरालयान्। तर्पिता वसुना तेन धर्मराज्ञा महात्मना ॥१४-९१-२६॥
स्वमंशं भगवान्व्यासः कुन्त्यै पादाभिवादनात्। प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः ॥१४-९१-२७॥
श्वशुरात्प्रीतिदायं तं प्राप्य सा प्रीतमानसा। चकार पुण्यं लोके तु सुमहान्तं पृथा तदा ॥१४-९१-२८॥
गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिः सह। सभाज्यमानः शुशुभे महेन्द्रो दैवतैरिव ॥१४-९१-२९॥
पाण्डवाश्च महीपालैः समेतैः संवृतास्तदा। अशोभन्त महाराज ग्रहास्तारागणैरिव ॥१४-९१-३०॥
राजभ्योऽपि ततः प्रादाद्रत्नानि विविधानि च। गजानश्वानलङ्कारान्स्त्रियो वस्त्राणि काञ्चनम् ॥१४-९१-३१॥
तद्धनौघमपर्यन्तं पार्थः पार्थिवमण्डले। विसृजञ्शुशुभे राजा यथा वैश्रवणस्तथा ॥१४-९१-३२॥
आनाय्य च तथा वीरं राजानं बभ्रुवाहनम्। प्रदाय विपुलं वित्तं गृहान्प्रास्थापयत्तदा ॥१४-९१-३३॥
दुःशलायाश्च तं पौत्रं बालकं पार्थिवर्षभ। स्वराज्ये पितृभिर्गुप्ते प्रीत्या समभिषेचयत् ॥१४-९१-३४॥
राज्ञश्चैवापि तान्सर्वान्सुविभक्तान्सुपूजितान्। प्रस्थापयामास वशी कुरुराजो युधिष्ठिरः ॥१४-९१-३५॥
एवं बभूव यज्ञः स धर्मराजस्य धीमतः। बह्वन्नधनरत्नौघः सुरामैरेयसागरः ॥१४-९१-३६॥
सर्पिःपङ्का ह्रदा यत्र बहवश्चान्नपर्वताः। रसालाकर्दमाः कुल्या बभूवुर्भरतर्षभ ॥१४-९१-३७॥
भक्ष्यषाण्डवरागाणां क्रियतां भुज्यतामिति। पशूनां वध्यतां चापि नान्तस्तत्र स्म दृश्यते ॥१४-९१-३८॥
मत्तोन्मत्तप्रमुदितं प्रगीतयुवतीजनम्। मृदङ्गशङ्खशब्दैश्च मनोरममभूत्तदा ॥१४-९१-३९॥
दीयतां भुज्यतां चेति दिवारात्रमवारितम्। तं महोत्सवसङ्काशमतिहृष्टजनाकुलम् ॥ कथयन्ति स्म पुरुषा नानादेशनिवासिनः ॥१४-९१-४०॥
वर्षित्वा धनधाराभिः कामै रत्नैर्धनैस्तथा। विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत्पुरम् ॥१४-९१-४१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.