14.092
जनमेजय उवाच॥
पितामहस्य मे यज्ञे धर्मपुत्रस्य धीमतः। यदाश्चर्यमभूत्किञ्चित्तद्भवान्वक्तुमर्हति ॥१४-९२-१॥
वैशम्पायन उवाच॥
श्रूयतां राजशार्दूल महदाश्चर्यमुत्तमम्। अश्वमेधे महायज्ञे निवृत्ते यदभूद्विभो ॥१४-९२-२॥
तर्पितेषु द्विजाग्र्येषु ज्ञातिसम्बन्धिबन्धुषु। दीनान्धकृपणे चापि तदा भरतसत्तम ॥१४-९२-३॥
घुष्यमाणे महादाने दिक्षु सर्वासु भारत। पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि ॥१४-९२-४॥
बिलान्निष्क्रम्य नकुलो रुक्मपार्श्वस्तदानघ। वज्राशनिसमं नादममुञ्चत विशां पते ॥१४-९२-५॥
सकृदुत्सृज्य तं नादं त्रासयानो मृगद्विजान्। मानुषं वचनं प्राह धृष्टो बिलशयो महान् ॥१४-९२-६॥
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः। उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः ॥१४-९२-७॥
तस्य तद्वचनं श्रुत्वा नकुलस्य विशां पते। विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः ॥१४-९२-८॥
ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः। कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम् ॥१४-९२-९॥
किं बलं परमं तुभ्यं किं श्रुतं किं परायणम्। कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे ॥१४-९२-१०॥
अविलुप्यागमं कृत्स्नं विधिज्ञैर्याजकैः कृतम्। यथागमं यथान्यायं कर्तव्यं च यथाकृतम् ॥१४-९२-११॥
पूजार्हाः पूजिताश्चात्र विधिवच्छास्त्रचक्षुषा। मन्त्रपूतं हुतश्चाग्निर्दत्तं देयममत्सरम् ॥१४-९२-१२॥
तुष्टा द्विजर्षभाश्चात्र दानैर्बहुविधैरपि। क्षत्रियाश्च सुयुद्धेन श्राद्धैरपि पितामहाः ॥१४-९२-१३॥
पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रियः। अनुक्रोशैस्तथा शूद्रा दानशेषैः पृथग्जनाः ॥१४-९२-१४॥
ज्ञातिसम्बन्धिनस्तुष्टाः शौचेन च नृपस्य नः। देवा हविर्भिः पुण्यैश्च रक्षणैः शरणागताः ॥१४-९२-१५॥
यदत्र तथ्यं तद्ब्रूहि सत्यसन्ध द्विजातिषु। यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया ॥१४-९२-१६॥
श्रद्धेयवाक्यः प्राज्ञस्त्वं दिव्यं रूपं बिभर्षि च। समागतश्च विप्रैस्त्वं तत्त्वतो वक्तुमर्हसि ॥१४-९२-१७॥
इति पृष्टो द्विजैस्तैः स प्रहस्य नकुलोऽब्रवीत्। नैषानृता मया वाणी प्रोक्ता दर्पेण वा द्विजाः ॥१४-९२-१८॥
यन्मयोक्तमिदं किञ्चिद्युष्माभिश्चाप्युपश्रुतम्। सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः ॥ उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः ॥१४-९२-१९॥
इत्यवश्यं मयैतद्वो वक्तव्यं द्विजपुङ्गवाः। शृणुताव्यग्रमनसः शंसतो मे द्विजर्षभाः ॥१४-९२-२०॥
अनुभूतं च दृष्टं च यन्मयाद्भुतमुत्तमम्। उञ्छवृत्तेर्यथावृत्तं कुरुक्षेत्रनिवासिनः ॥१४-९२-२१॥
स्वर्गं येन द्विजः प्राप्तः सभार्यः ससुतस्नुषः। यथा चार्धं शरीरस्य ममेदं काञ्चनीकृतम् ॥१४-९२-२२॥