Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.093
नकुल उवाच॥
हन्त वो वर्तयिष्यामि दानस्य परमं फलम्। न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः ॥१४-९३-१॥
धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते। उञ्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा ॥१४-९३-२॥
सभार्यः सह पुत्रेण सस्नुषस्तपसि स्थितः। वधूचतुर्थो वृद्धः स धर्मात्मा नियतेन्द्रियः ॥१४-९३-३॥
षष्ठे काले तदा विप्रो भुङ्क्ते तैः सह सुव्रतः। षष्ठे काले कदाचिच्च तस्याहारो न विद्यते ॥ भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः ॥१४-९३-४॥
कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे। नाविद्यत तदा विप्राः सञ्चयस्तान्निबोधत ॥ क्षीणौषधिसमावायो द्रव्यहीनोऽभवत्तदा ॥१४-९३-५॥
काले कालेऽस्य सम्प्राप्ते नैव विद्येत भोजनम्। क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते ॥१४-९३-६॥
उञ्छंस्तदा शुक्लपक्षे मध्यं तपति भास्करे। उष्णार्तश्च क्षुधार्तश्च स विप्रस्तपसि स्थितः ॥ उञ्छमप्राप्तवानेव सार्धं परिजनेन ह ॥१४-९३-७॥
स तथैव क्षुधाविष्टः स्पृष्ट्वा तोयं यथाविधि। क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः ॥१४-९३-८॥
अथ षष्ठे गते काले यवप्रस्थमुपार्जयत्। यवप्रस्थं च ते सक्तूनकुर्वन्त तपस्विनः ॥१४-९३-९॥
कृतजप्याह्विकास्ते तु हुत्वा वह्निं यथाविधि। कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः ॥१४-९३-१०॥
अथागच्छद्द्विजः कश्चिदतिथिर्भुञ्जतां तदा। ते तं दृष्ट्वातिथिं तत्र प्रहृष्टमनसोऽभवन् ॥१४-९३-११॥
तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा। विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः ॥१४-९३-१२॥
अनसूयवो गतक्रोधाः साधवो गतमत्सराः। त्यक्तमाना जितक्रोधा धर्मज्ञा द्विजसत्तमाः ॥१४-९३-१३॥
सब्रह्मचर्यं स्वं गोत्रं समाख्याय परस्परम्। कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा ॥१४-९३-१४॥
इदमर्घ्यं च पाद्यं च बृसी चेयं तवानघ। शुचयः सक्तवश्चेमे नियमोपार्जिताः प्रभो ॥ प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजोत्तम ॥१४-९३-१५॥
इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः। भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः ॥१४-९३-१६॥
स उञ्छवृत्तिः तं प्रेक्ष्य क्षुधापरिगतं द्विजम्। आहारं चिन्तयामास कथं तुष्टो भवेदिति ॥१४-९३-१७॥
तस्य भार्याब्रवीद्राजन्मद्भागो दीयतामिति। गच्छत्वेष यथाकामं सन्तुष्टो द्विजसत्तमः ॥१४-९३-१८॥
इति ब्रुवन्तीं तां साध्वीं धर्मात्मा स द्विजर्षभः। क्षुधापरिगतां ज्ञात्वा सक्तूंस्तान्नाभ्यनन्दत ॥१४-९३-१९॥
जानन्वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम्। त्वगस्थिभूतां वेपन्तीं ततो भार्यामुवाच ताम् ॥१४-९३-२०॥
अपि कीटपतङ्गानां मृगाणां चैव शोभने। स्त्रियो रक्ष्याश्च पोष्याश्च नैवं त्वं वक्तुमर्हसि ॥१४-९३-२१॥
अनुकम्पितो नरो नार्या पुष्टो रक्षित एव च। प्रपतेद्यशसो दीप्तान्न च लोकानवाप्नुयात् ॥१४-९३-२२॥
इत्युक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज। सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे ॥१४-९३-२३॥
सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः। स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजोत्तम ॥१४-९३-२४॥
ऋतुर्मातुः पितुर्बीजं दैवतं परमं पतिः। भर्तुः प्रसादात्स्त्रीणां वै रतिः पुत्रफलं तथा ॥१४-९३-२५॥
पालनाद्धि पतिस्त्वं मे भर्तासि भरणान्मम। पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्गृहाण मे ॥१४-९३-२६॥
जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम्। उपवासपरिश्रान्तो यदा त्वमपि कर्शितः ॥१४-९३-२७॥
इत्युक्तः स तया सक्तून्प्रगृह्येदं वचोऽब्रवीत्। द्विज सक्तूनिमान्भूयः प्रतिगृह्णीष्व सत्तम ॥१४-९३-२८॥
स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्द्विजः। तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत् ॥१४-९३-२९॥
पुत्र उवाच॥
सक्तूनिमान्प्रगृह्य त्वं देहि विप्राय सत्तम। इत्येवं सुकृतं मन्ये तस्मादेतत्करोम्यहम् ॥१४-९३-३०॥
भवान्हि परिपाल्यो मे सर्वयत्नैर्द्विजोत्तम। साधूनां काङ्क्षितं ह्येतत्पितुर्वृद्धस्य पोषणम् ॥१४-९३-३१॥
पुत्रार्थो विहितो ह्येष स्थाविर्ये परिपालनम्। श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु विश्रुता ॥१४-९३-३२॥
प्राणधारणमात्रेण शक्यं कर्तुं तपस्त्वया। प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम् ॥१४-९३-३३॥
पितोवाच॥
अपि वर्षसहस्री त्वं बाल एव मतो मम। उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवत्युत ॥१४-९३-३४॥
बालानां क्षुद्बलवती जानाम्येतदहं विभो। वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रक ॥१४-९३-३५॥
जीर्णेन वयसा पुत्र न मा क्षुद्बाधतेऽपि च। दीर्घकालं तपस्तप्तं न मे मरणतो भयम् ॥१४-९३-३६॥
पुत्र उवाच॥
अपत्यमस्मि ते पुत्रस्त्राणात्पुत्रो हि विश्रुतः। आत्मा पुत्रः स्मृतस्तस्मात्त्राह्यात्मानमिहात्मना ॥१४-९३-३७॥
पितोवाच॥
रूपेण सदृशस्त्वं मे शीलेन च दमेन च। परीक्षितश्च बहुधा सक्तूनादद्मि ते ततः ॥१४-९३-३८॥
इत्युक्त्वादाय तान्सक्तून्प्रीतात्मा द्विजसत्तमः। प्रहसन्निव विप्राय स तस्मै प्रददौ तदा ॥१४-९३-३९॥
भुक्त्वा तानपि सक्तून्स नैव तुष्टो बभूव ह। उञ्छवृत्तिस्तु सव्रीडो बभूव द्विजसत्तमः ॥१४-९३-४०॥
तं वै वधूः स्थिता साध्वी ब्राह्मणप्रियकाम्यया। सक्तूनादाय संहृष्टा गुरुं तं वाक्यमब्रवीत् ॥१४-९३-४१॥
सन्तानात्तव सन्तानं मम विप्र भविष्यति। सक्तूनिमानतिथये गृहीत्वा त्वं प्रयच्छ मे ॥१४-९३-४२॥
तव प्रसवनिर्वृत्या मम लोकाः किलाक्षयाः। पौत्रेण तानवाप्नोति यत्र गत्वा न शोचति ॥१४-९३-४३॥
धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च। तथैव पुत्रपौत्राणां स्वर्गे त्रेता किलाक्षया ॥१४-९३-४४॥
पितॄंस्त्राणात्तारयति पुत्र इत्यनुशुश्रुम। पुत्रपौत्रैश्च नियतं साधुलोकानुपाश्नुते ॥१४-९३-४५॥
श्वशुर उवाच॥
वातातपविशीर्णाङ्गीं त्वां विवर्णां निरीक्ष्य वै। कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम् ॥१४-९३-४६॥
कथं सक्तून्ग्रहीष्यामि भूत्वा धर्मोपघातकः। कल्याणवृत्ते कल्याणि नैवं त्वं वक्तुमर्हसि ॥१४-९३-४७॥
षष्ठे काले व्रतवतीं शीलशौचसमन्विताम्। कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं न्वहम् ॥१४-९३-४८॥
बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया। उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी ॥१४-९३-४९॥
स्नुषोवाच॥
गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम्। देवातिदेवस्तस्मात्त्वं सक्तूनादत्स्व मे विभो ॥१४-९३-५०॥
देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः। तव विप्र प्रसादेन लोकान्प्राप्स्याम्यभीप्सितान् ॥१४-९३-५१॥
अवेक्ष्या इति कृत्वा त्वं दृढभक्त्येति वा द्विज। चिन्त्या ममेयमिति वा सक्तूनादातुमर्हसि ॥१४-९३-५२॥
श्वशुर उवाच॥
अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे। या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे ॥१४-९३-५३॥
तस्मात्सक्तून्ग्रहीष्यामि वधूर्नार्हसि वञ्चनाम्। गणयित्वा महाभागे त्वं हि धर्मभृतां वरा ॥१४-९३-५४॥
इत्युक्त्वा तानुपादाय सक्तून्प्रादाद्द्विजातये। ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः ॥१४-९३-५५॥
प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम्। वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुषविग्रहः ॥१४-९३-५६॥
शुद्धेन तव दानेन न्यायोपात्तेन यत्नतः। यथाशक्ति विमुक्तेन प्रीतोऽस्मि द्विजसत्तम ॥१४-९३-५७॥
अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः। गगनात्पुष्पवर्षं च पश्यस्व पतितं भुवि ॥१४-९३-५८॥
सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः। स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः ॥१४-९३-५९॥
ब्रह्मर्षयो विमानस्था ब्रह्मलोकगताश्च ये। काङ्क्षन्ते दर्शनं तुभ्यं दिवं गच्छ द्विजर्षभ ॥१४-९३-६०॥
पितृलोकगताः सर्वे तारिताः पितरस्त्वया। अनागताश्च बहवः सुबहूनि युगानि च ॥१४-९३-६१॥
ब्रह्मचर्येण यज्ञेन दानेन तपसा तथा। अगह्वरेण धर्मेण तस्माद्गच्छ दिवं द्विज ॥१४-९३-६२॥
श्रद्धया परया यस्त्वं तपश्चरसि सुव्रत। तस्माद्देवास्तवानेन प्रीता द्विजवरोत्तम ॥१४-९३-६३॥
सर्वस्वमेतद्यस्मात्ते त्यक्तं शुद्धेन चेतसा। कृच्छ्रकाले ततः स्वर्गो जितोऽयं तव कर्मणा ॥१४-९३-६४॥
क्षुधा निर्णुदति प्रज्ञां धर्म्यां बुद्धिं व्यपोहति। क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह ॥१४-९३-६५॥
बुभुक्षां जयते यस्तु स स्वर्गं जयते ध्रुवम्। यदा दानरुचिर्भवति तदा धर्मो न सीदति ॥१४-९३-६६॥
अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च। धर्ममेव गुरुं ज्ञात्वा तृष्णा न गणिता त्वया ॥१४-९३-६७॥
द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम्। कालः परतरो दानाच्छ्रद्धा चापि ततः परा ॥१४-९३-६८॥
स्वर्गद्वारं सुसूक्ष्मं हि नरैर्मोहान्न दृश्यते। स्वर्गार्गलं लोभबीजं रागगुप्तं दुरासदम् ॥१४-९३-६९॥
तत्तु पश्यन्ति पुरुषा जितक्रोधा जितेन्द्रियाः। ब्राह्मणास्तपसा युक्ता यथाशक्तिप्रदायिनः ॥१४-९३-७०॥
सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च। दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः ॥१४-९३-७१॥
रन्तिदेवो हि नृपतिरपः प्रादादकिञ्चनः। शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः ॥१४-९३-७२॥
न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः। न्यायलब्धैर्यथा सूक्ष्मैः श्रद्धापूतैः स तुष्यति ॥१४-९३-७३॥
गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृपः। एकां दत्त्वा स पारक्यां नरकं समवाप्तवान् ॥१४-९३-७४॥
आत्ममांसप्रदानेन शिबिरौशीनरो नृपः। प्राप्य पुण्यकृताँल्लोकान्मोदते दिवि सुव्रतः ॥१४-९३-७५॥
विभवे न नृणां पुण्यं स्वशक्त्या स्वर्जितं सताम्। न यज्ञैर्विविधैर्विप्र यथान्यायेन सञ्चितैः ॥१४-९३-७६॥
क्रोधो दानफलं हन्ति लोभात्स्वर्गं न गच्छति। न्यायवृत्तिर्हि तपसा दानवित्स्वर्गमश्नुते ॥१४-९३-७७॥
न राजसूयैर्बहुभिरिष्ट्वा विपुलदक्षिणैः। न चाश्वमेधैर्बहुभिः फलं सममिदं तव ॥१४-९३-७८॥
सक्तुप्रस्थेन हि जितो ब्रह्मलोकस्त्वयानघ। विरजो ब्रह्मभवनं गच्छ विप्र यथेच्छकम् ॥१४-९३-७९॥
सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानमुपस्थितम्। आरोहत यथाकामं धर्मोऽस्मि द्विज पश्य माम् ॥१४-९३-८०॥
पावितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते। सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रज ॥१४-९३-८१॥
इत्युक्तवाक्यो धर्मेण यानमारुह्य स द्विजः। सभार्यः ससुतश्चापि सस्नुषश्च दिवं ययौ ॥१४-९३-८२॥
तस्मिन्विप्रे गते स्वर्गं ससुते सस्नुषे तदा। भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो बिलात् ॥१४-९३-८३॥
ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च। दिव्यपुष्पावमर्दाच्च साधोर्दानलवैश्च तैः ॥ विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम् ॥१४-९३-८४॥
तस्य सत्याभिसन्धस्य सूक्ष्मदानेन चैव ह। शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम् ॥ पश्यतेदं सुविपुलं तपसा तस्य धीमतः ॥१४-९३-८५॥
कथमेवंविधं मे स्यादन्यत्पार्श्वमिति द्विजाः। तपोवनानि यज्ञांश्च हृष्टोऽभ्येमि पुनः पुनः ॥१४-९३-८६॥
यज्ञं त्वहमिमं श्रुत्वा कुरुराजस्य धीमतः। आशया परया प्राप्तो न चाहं काञ्चनीकृतः ॥१४-९३-८७॥
ततो मयोक्तं तद्वाक्यं प्रहस्य द्विजसत्तमाः। सक्तुप्रस्थेन यज्ञोऽयं संमितो नेति सर्वथा ॥१४-९३-८८॥
सक्तुप्रस्थलवैस्तैर्हि तदाहं काञ्चनीकृतः। न हि यज्ञो महानेष सदृशस्तैर्मतो मम ॥१४-९३-८९॥
वैशम्पायन उवाच॥
इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तदा। जगामादर्शनं राजन्विप्रास्ते च ययुर्गृहान् ॥१४-९३-९०॥
एतत्ते सर्वमाख्यातं मया परपुरञ्जय। यदाश्चर्यमभूत्तस्मिन्वाजिमेधे महाक्रतौ ॥१४-९३-९१॥
न विस्मयस्ते नृपते यज्ञे कार्यः कथञ्चन। ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः ॥१४-९३-९२॥
अद्रोहः सर्वभूतेषु सन्तोषः शीलमार्जवम्। तपो दमश्च सत्यं च दानं चेति समं मतम् ॥१४-९३-९३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.