Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.094
जनमेजय उवाच॥
यज्ञे सक्ता नृपतयस्तपःसक्ता महर्षयः। शान्तिव्यवसिता विप्राः शमो दम इति प्रभो ॥१४-९४-१॥
तस्माद्यज्ञफलैस्तुल्यं न किञ्चिदिह विद्यते। इति मे वर्तते बुद्धिस्तथा चैतदसंशयम् ॥१४-९४-२॥
यज्ञैरिष्ट्वा हि बहवो राजानो द्विजसत्तम। इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमितो गताः ॥१४-९४-३॥
देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः। देवराज्यं महातेजाः प्राप्तवानखिलं विभुः ॥१४-९४-४॥
यथा युधिष्ठिरो राजा भीमार्जुनपुरःसरः। सदृशो देवराजेन समृद्ध्या विक्रमेण च ॥१४-९४-५॥
अथ कस्मात्स नकुलो गर्हयामास तं क्रतुम्। अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः ॥१४-९४-६॥
वैशम्पायन उवाच॥
यज्ञस्य विधिमग्र्यं वै फलं चैव नरर्षभ। गदतः शृणु मे राजन्यथावदिह भारत ॥१४-९४-७॥
पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षयः। ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि ॥१४-९४-८॥
हूयमाने तथा वह्नौ होत्रे बहुगुणान्विते। देवेष्वाहूयमानेषु स्थितेषु परमर्षिषु ॥१४-९४-९॥
सुप्रतीतैस्तदा विप्रैः स्वागमैः सुस्वनैर्नृप। अश्रान्तैश्चापि लघुभिरध्वर्युवृषभैस्तथा ॥१४-९४-१०॥
आलम्भसमये तस्मिन्गृहीतेषु पशुष्वथ। महर्षयो महाराज सम्बभूवुः कृपान्विताः ॥१४-९४-११॥
ततो दीनान्पशून्दृष्ट्वा ऋषयस्ते तपोधनाः। ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः ॥१४-९४-१२॥
अपविज्ञानमेतत्ते महान्तं धर्ममिच्छतः। न हि यज्ञे पशुगणा विधिदृष्टाः पुरंदर ॥१४-९४-१३॥
धर्मोपघातकस्त्वेष समारम्भस्तव प्रभो। नायं धर्मकृतो धर्मो न हिंसा धर्म उच्यते ॥१४-९४-१४॥
आगमेनैव ते यज्ञं कुर्वन्तु यदि हेच्छसि। विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान्भवेत् ॥१४-९४-१५॥
यज बीजैः सहस्राक्ष त्रिवर्षपरमोषितैः। एष धर्मो महाञ्शक्र चिन्त्यमानोऽधिगम्यते ॥१४-९४-१६॥
शतक्रतुस्तु तद्वाक्यमृषिभिस्तत्त्वदर्शिभिः। उक्तं न प्रतिजग्राह मानमोहवशानुगः ॥१४-९४-१७॥
तेषां विवादः सुमहाञ्जज्ञे शक्रमहर्षिणाम्। जङ्गमैः स्थावरैर्वापि यष्टव्यमिति भारत ॥१४-९४-१८॥
ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः। ततः सन्धाय शक्रेण पप्रच्छुर्नृपतिं वसुम् ॥१४-९४-१९॥
महाभाग कथं यज्ञेष्वागमो नृपते स्मृतः। यष्टव्यं पशुभिर्मेध्यैरथो बीजैरजैरपि ॥१४-९४-२०॥
तच्छ्रुत्वा तु वचस्तेषामविचार्य बलाबलम्। यथोपनीतैर्यष्टव्यमिति प्रोवाच पार्थिवः ॥१४-९४-२१॥
एवमुक्त्वा स नृपतिः प्रविवेश रसातलम्। उक्त्वेह वितथं राजंश्चेदीनामीश्वरः प्रभुः ॥१४-९४-२२॥
अन्यायोपगतं द्रव्यमतीतं यो ह्यपण्डितः। धर्माभिकाङ्क्षी यजते न धर्मफलमश्नुते ॥१४-९४-२३॥
धर्मवैतंसिको यस्तु पापात्मा पुरुषस्तथा। ददाति दानं विप्रेभ्यो लोकविश्वासकारकम् ॥१४-९४-२४॥
पापेन कर्मणा विप्रो धनं लब्ध्वा निरङ्कुशः। रागमोहान्वितः सोऽन्ते कलुषां गतिमाप्नुते ॥१४-९४-२५॥
तेन दत्तानि दानानि पापेन हतबुद्धिना। तानि सत्त्वमनासाद्य नश्यन्ति विपुलान्यपि ॥१४-९४-२६॥
तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः। दाने न कीर्तिर्भवति प्रेत्य चेह च दुर्मतेः ॥१४-९४-२७॥
अपि सञ्चयबुद्धिर्हि लोभमोहवशङ्गतः। उद्वेजयति भूतानि हिंसया पापचेतनः ॥१४-९४-२८॥
एवं लब्ध्वा धनं लोभाद्यजते यो ददाति च। स कृत्वा कर्मणा तेन न सिध्यति दुरागमात् ॥१४-९४-२९॥
उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः। दानं विभवतो दत्त्वा नराः स्वर्यान्ति धर्मिणः ॥१४-९४-३०॥
एष धर्मो महांस्त्यागो दानं भूतदया तथा। ब्रह्मचर्यं तथा सत्यमनुक्रोशो धृतिः क्षमा ॥ सनातनस्य धर्मस्य मूलमेतत्सनातनम् ॥१४-९४-३१॥
श्रूयन्ते हि पुरा विप्रा विश्वामित्रादयो नृपाः। विश्वामित्रोऽसितश्चैव जनकश्च महीपतिः ॥ कक्षसेनार्ष्टिषेणौ च सिन्धुद्वीपश्च पार्थिवः ॥१४-९४-३२॥
एते चान्ये च बहवः सिद्धिं परमिकां गताः। नृपाः सत्यैश्च दानैश्च न्यायलब्धैस्तपोधनाः ॥१४-९४-३३॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाश्रितास्तपः। दानधर्माग्निना शुद्धास्ते स्वर्गं यान्ति भारत ॥१४-९४-३४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.