15.003
वैशम्पायन उवाच॥
स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः। नापश्यत तदा किञ्चिदप्रियं पाण्डुनन्दने ॥१५-३-१॥
वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु। प्रीतिमानभवद्राजा धृतराष्ट्रोऽम्बिकासुतः ॥१५-३-२॥
सौबलेयी च गान्धारी पुत्रशोकमपास्य तम्। सदैव प्रीतिमत्यासीत्तनयेषु निजेष्विव ॥१५-३-३॥
प्रियाण्येव तु कौरव्यो नाप्रियाणि कुरूद्वह। वैचित्रवीर्ये नृपतौ समाचरति नित्यदा ॥१५-३-४॥
यद्यद्ब्रूते च किञ्चित्स धृतराष्ट्रो नराधिपः। गुरु वा लघु वा कार्यं गान्धारी च यशस्विनी ॥१५-३-५॥
तत्स राजा महाराज पाण्डवानां धुरन्धरः। पूजयित्वा वचस्तत्तदकार्षीत्परवीरहा ॥१५-३-६॥
तेन तस्याभवत्प्रीतो वृत्तेन स नराधिपः। अन्वतप्यच्च संस्मृत्य पुत्रं मन्दमचेतसम् ॥१५-३-७॥
सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः। आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम् ॥१५-३-८॥
ब्राह्मणान्वाचयित्वा च हुत्वा चैव हुताशनम्। आयुष्यं पाण्डुपुत्राणामाशास्ते स नराधिपः ॥१५-३-९॥
न तां प्रीतिं परामाप पुत्रेभ्यः स महीपतिः। यां प्रीतिं पाण्डुपुत्रेभ्यः समवाप तदा नृपः ॥१५-३-१०॥
ब्राह्मणानां च वृद्धानां क्षत्रियाणां च भारत। तथा विट्शूद्रसङ्घानामभवत्सुप्रियस्तदा ॥१५-३-११॥
यच्च किञ्चित्पुरा पापं धृतराष्ट्रसुतैः कृतम्। अकृत्वा हृदि तद्राजा तं नृपं सोऽन्ववर्तत ॥१५-३-१२॥
यश्च कश्चिन्नरः किञ्चिदप्रियं चाम्बिकासुते। कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः ॥१५-३-१३॥
न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै। उवाच दुष्कृतं किञ्चिद्युधिष्ठिरभयान्नरः ॥१५-३-१४॥
धृत्या तुष्टो नरेन्द्रस्य गान्धारी विदुरस्तथा। शौचेन चाजातशत्रोर्न तु भीमस्य शत्रुहन् ॥१५-३-१५॥
अन्ववर्तत भीमोऽपि निष्टनन्धर्मजं नृपम्। धृतराष्ट्रं च सम्प्रेक्ष्य सदा भवति दुर्मनाः ॥१५-३-१६॥
राजानमनुवर्तन्तं धर्मपुत्रं महामतिम्। अन्ववर्तत कौरव्यो हृदयेन पराङ्मुखः ॥१५-३-१७॥