15.004
भीमापनयः
वैशम्पायन उवाच॥
युधिष्ठिरस्य नृपतेर्दुर्योधनपितुस्तथा। नान्तरं ददृशू राजन्पुरुषाः प्रणयं प्रति ॥१५-४-१॥
यदा तु कौरवो राजा पुत्रं सस्मार बालिशम्। तदा भीमं हृदा राजन्नपध्याति स पार्थिवः ॥१५-४-२॥
तथैव भीमसेनोऽपि धृतराष्ट्रं जनाधिपम्। नामर्षयत राजेन्द्र सदैवातुष्टवद्धृदा ॥१५-४-३॥
अप्रकाशान्यप्रियाणि चकारास्य वृकोदरः। आज्ञां प्रत्यहरच्चापि कृतकैः पुरुषैः सदा ॥१५-४-४॥
अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाकरोत्। संश्रवे धृतराष्ट्रस्य गान्धार्याश्चाप्यमर्षणः ॥१५-४-५॥
स्मृत्वा दुर्योधनं शत्रुं कर्णदुःशासनावपि। प्रोवाचाथ सुसंरब्धो भीमः स परुषं वचः ॥१५-४-६॥
अन्धस्य नृपतेः पुत्रा मया परिघबाहुना। नीता लोकममुं सर्वे नानाशस्त्रात्तजीविताः ॥१५-४-७॥
इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ। ययोरन्तरमासाद्य धार्तराष्ट्राः क्षयं गताः ॥१५-४-८॥
ताविमौ चन्दनेनाक्तौ वन्दनीयौ च मे भुजौ। याभ्यां दुर्योधनो नीतः क्षयं ससुतबान्धवः ॥१५-४-९॥
एताश्चान्याश्च विविधाः शल्यभूता जनाधिपः। वृकोदरस्य ता वाचः श्रुत्वा निर्वेदमागमत् ॥१५-४-१०॥
सा च बुद्धिमती देवी कालपर्यायवेदिनी। गान्धारी सर्वधर्मज्ञा तान्यलीकानि शुश्रुवे ॥१५-४-११॥
ततः पञ्चदशे वर्षे समतीते नराधिपः। राजा निर्वेदमापेदे भीमवाग्बाणपीडितः ॥१५-४-१२॥
नान्वबुध्यत तद्राजा कुन्तीपुत्रो युधिष्ठिरः। श्वेताश्वो वाथ कुन्ती वा द्रौपदी वा यशस्विनी ॥१५-४-१३॥
माद्रीपुत्रौ च भीमस्य चित्तज्ञावन्वमोदताम्। राज्ञस्तु चित्तं रक्षन्तौ नोचतुः किञ्चिदप्रियम् ॥१५-४-१४॥
ततः समानयामास धृतराष्ट्रः सुहृज्जनम्। बाष्पसंदिग्धमत्यर्थमिदमाह वचो भृशम् ॥१५-४-१५॥