15.008
व्यासवाक्यम्
व्यास उवाच॥
युधिष्ठिर महाबाहो यदाह कुरुनन्दनः। धृतराष्ट्रो महात्मा त्वां तत्कुरुष्वाविचारयन् ॥१५-८-१॥
अयं हि वृद्धो नृपतिर्हतपुत्रो विशेषतः। नेदं कृच्छ्रं चिरतरं सहेदिति मतिर्मम ॥१५-८-२॥
गान्धारी च महाभागा प्राज्ञा करुणवेदिनी। पुत्रशोकं महाराज धैर्येणोद्वहते भृशम् ॥१५-८-३॥
अहमप्येतदेव त्वां ब्रवीमि कुरु मे वचः। अनुज्ञां लभतां राजा मा वृथेह मरिष्यति ॥१५-८-४॥
राजर्षीणां पुराणानामनुयातु गतिं नृपः। राजर्षीणां हि सर्वेषामन्ते वनमुपाश्रयः ॥१५-८-५॥
वैशम्पायन उवाच॥
इत्युक्तः स तदा राजा व्यासेनाद्भुतकर्मणा। प्रत्युवाच महातेजा धर्मराजो युधिष्ठिरः ॥१५-८-६॥
भगवानेव नो मान्यो भगवानेव नो गुरुः। भगवानस्य राज्यस्य कुलस्य च परायणम् ॥१५-८-७॥
अहं तु पुत्रो भगवान्पिता राजा गुरुश्च मे। निदेशवर्ती च पितुः पुत्रो भवति धर्मतः ॥१५-८-८॥
इत्युक्तः स तु तं प्राह व्यासो धर्मभृतां वरः। युधिष्ठिरं महातेजाः पुनरेव विशां पते ॥१५-८-९॥
एवमेतन्महाबाहो यथा वदसि भारत। राजायं वृद्धतां प्राप्तः प्रमाणे परमे स्थितः ॥१५-८-१०॥
सोऽयं मयाभ्यनुज्ञातस्त्वया च पृथिवीपते। करोतु स्वमभिप्रायं मास्य विघ्नकरो भव ॥१५-८-११॥
एष एव परो धर्मो राजर्षीणां युधिष्ठिर। समरे वा भवेन्मृत्युर्वने वा विधिपूर्वकम् ॥१५-८-१२॥
पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता। शिष्यभूतेन राजायं गुरुवत्पर्युपासितः ॥१५-८-१३॥
क्रतुभिर्दक्षिणावद्भिरन्नपर्वतशोभितैः। महद्भिरिष्टं भोगाश्च भुक्ताः पुत्राश्च पालिताः ॥१५-८-१४॥
पुत्रसंस्थं च विपुलं राज्यं विप्रोषिते त्वयि। त्रयोदशसमा भुक्तं दत्तं च विविधं वसु ॥१५-८-१५॥
त्वया चायं नरव्याघ्र गुरुशुश्रूषया नृपः। आराधितः सभृत्येन गान्धारी च यशस्विनी ॥१५-८-१६॥
अनुजानीहि पितरं समयोऽस्य तपोविधौ। न मन्युर्विद्यते चास्य सुसूक्ष्मोऽपि युधिष्ठिर ॥१५-८-१७॥
एतावदुक्त्वा वचनमनुज्ञाप्य च पार्थिवम्। तथास्त्विति च तेनोक्तः कौन्तेयेन ययौ वनम् ॥१५-८-१८॥
गते भगवति व्यासे राजा पाण्डुसुतस्ततः। प्रोवाच पितरं वृद्धं मन्दं मन्दमिवानतः ॥१५-८-१९॥
यदाह भगवान्व्यासो यच्चापि भवतो मतम्। यदाह च महेष्वासः कृपो विदुर एव च ॥१५-८-२०॥
युयुत्सुः सञ्जयश्चैव तत्कर्तास्म्यहमञ्जसा। सर्वे ह्येतेऽनुमान्या मे कुलस्यास्य हितैषिणः ॥१५-८-२१॥
इदं तु याचे नृपते त्वामहं शिरसा नतः। क्रियतां तावदाहारस्ततो गच्छाश्रमं प्रति ॥१५-८-२२॥