Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.009
युधिष्ठिरानुशासनम्
वैशम्पायन उवाच॥
ततो राज्ञाभ्यनुज्ञातो धृतराष्ट्रः प्रतापवान्। ययौ स्वभवनं राजा गान्धार्यानुगतस्तदा ॥१५-९-१॥
मन्दप्राणगतिर्धीमान्कृच्छ्रादिव समुद्धरन्। पदातिः स महीपालो जीर्णो गजपतिर्यथा ॥१५-९-२॥
तमन्वगच्छद्विदुरो विद्वान्सूतश्च सञ्जयः। स चापि परमेष्वासः कृपः शारद्वतस्तथा ॥१५-९-३॥
स प्रविश्य गृहं राजा कृतपूर्वाह्णिकक्रियः। तर्पयित्वा द्विजश्रेष्ठानाहारमकरोत्तदा ॥१५-९-४॥
गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी। वधूभिरुपचारेण पूजिताभुङ्क्त भारत ॥१५-९-५॥
कृताहारं कृताहाराः सर्वे ते विदुरादयः। पाण्डवाश्च कुरुश्रेष्ठमुपातिष्ठन्त तं नृपम् ॥१५-९-६॥
ततोऽब्रवीन्महाराज कुन्तीपुत्रमुपह्वरे। निषण्णं पाणिना पृष्ठे संस्पृशन्नम्बिकासुतः ॥१५-९-७॥
अप्रमादस्त्वया कार्यः सर्वथा कुरुनन्दन। अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते ॥१५-९-८॥
तत्तु शक्यं यथा तात रक्षितुं पाण्डुनन्दन। राज्यं धर्मं च कौन्तेय विद्वानसि निबोध तत् ॥१५-९-९॥
विद्यावृद्धान्सदैव त्वमुपासीथा युधिष्ठिर। शृणुयास्ते च यद्ब्रूयुः कुर्याश्चैवाविचारयन् ॥१५-९-१०॥
प्रातरुत्थाय तान्राजन्पूजयित्वा यथाविधि। कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यमात्मनः ॥१५-९-११॥
ते तु संमानिता राजंस्त्वया राज्यहितार्थिना। प्रवक्ष्यन्ति हितं तात सर्वं कौरवनन्दन ॥१५-९-१२॥
इन्द्रियाणि च सर्वाणि वाजिवत्परिपालय। हिताय वै भविष्यन्ति रक्षितं द्रविणं यथा ॥१५-९-१३॥
अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन्। दान्तान्कर्मसु सर्वेषु मुख्यान्मुख्येषु योजयेः ॥१५-९-१४॥
चारयेथाश्च सततं चारैरविदितैः परान्। परीक्षितैर्बहुविधं स्वराष्ट्रेषु परेषु च ॥१५-९-१५॥
पुरं च ते सुगुप्तं स्याद्दृढप्राकारतोरणम्। अट्टाट्टालकसम्बाधं षट्पथं सर्वतोदिशम् ॥१५-९-१६॥
तस्य द्वाराणि कार्याणि पर्याप्तानि बृहन्ति च। सर्वतः सुविभक्तानि यन्त्रैरारक्षितानि च ॥१५-९-१७॥
पुरुषैरलमर्थज्ञैर्विदितैः कुलशीलतः। आत्मा च रक्ष्यः सततं भोजनादिषु भारत ॥१५-९-१८॥
विहाराहारकालेषु माल्यशय्यासनेषु च। स्त्रियश्च ते सुगुप्ताः स्युर्वृद्धैराप्तैरधिष्ठिताः ॥ शीलवद्भिः कुलीनैश्च विद्वद्भिश्च युधिष्ठिर ॥१५-९-१९॥
मन्त्रिणश्चैव कुर्वीथा द्विजान्विद्याविशारदान्। विनीतांश्च कुलीनांश्च धर्मार्थकुशलानृजून् ॥१५-९-२०॥
तैः सार्धं मन्त्रयेथास्त्वं नात्यर्थं बहुभिः सह। समस्तैरपि च व्यस्तैर्व्यपदेशेन केनचित् ॥१५-९-२१॥
सुसंवृतं मन्त्रगृहं स्थलं चारुह्य मन्त्रयेः। अरण्ये निःशलाके वा न च रात्रौ कथञ्चन ॥१५-९-२२॥
वानराः पक्षिणश्चैव ये मनुष्यानुकारिणः। सर्वे मन्त्रगृहे वर्ज्या ये चापि जडपङ्गुकाः ॥१५-९-२३॥
मन्त्रभेदे हि ये दोषा भवन्ति पृथिवीक्षिताम्। न ते शक्याः समाधातुं कथञ्चिदिति मे मतिः ॥१५-९-२४॥
दोषांश्च मन्त्रभेदेषु ब्रूयास्त्वं मन्त्रिमण्डले। अभेदे च गुणान्राजन्पुनः पुनररिंदम ॥१५-९-२५॥
पौरजानपदानां च शौचाशौचं युधिष्ठिर। यथा स्याद्विदितं राजंस्तथा कार्यमरिंदम ॥१५-९-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.