15.010
धृतराष्ट्र उवाच॥
व्यवहाराश्च ते तात नित्यमाप्तैरधिष्ठिताः। योज्यास्तुष्टैर्हितै राजन्नित्यं चारैरनुष्ठिताः ॥१५-१०-१॥
परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत। प्रणयेयुर्यथान्यायं पुरुषास्ते युधिष्ठिर ॥१५-१०-२॥
आदानरुचयश्चैव परदाराभिमर्शकाः। उग्रदण्डप्रधानाश्च मिथ्या व्याहारिणस्तथा ॥१५-१०-३॥
आक्रोष्टारश्च लुब्धाश्च हन्तारः साहसप्रियाः। सभाविहारभेत्तारो वर्णानां च प्रदूषकाः ॥ हिरण्यदण्ड्या वध्याश्च कर्तव्या देशकालतः ॥१५-१०-४॥
प्रातरेव हि पश्येथा ये कुर्युर्व्ययकर्म ते। अलङ्कारमथो भोज्यमत ऊर्ध्वं समाचरेः ॥१५-१०-५॥
पश्येथाश्च ततो योधान्सदा त्वं परिहर्षयन्। दूतानां च चराणां च प्रदोषस्ते सदा भवेत् ॥१५-१०-६॥
सदा चापररात्रं ते भवेत्कार्यार्थनिर्णये। मध्यरात्रे विहारस्ते मध्याह्ने च सदा भवेत् ॥१५-१०-७॥
सर्वे त्वात्ययिकाः कालाः कार्याणां भरतर्षभ। तथैवालङ्कृतः काले तिष्ठेथा भूरिदक्षिणः ॥ चक्रवत्कर्मणां तात पर्यायो ह्येष नित्यशः ॥१५-१०-८॥
कोशस्य सञ्चये यत्नं कुर्वीथा न्यायतः सदा। द्विविधस्य महाराज विपरीतं विवर्जयेः ॥१५-१०-९॥
चारैर्विदित्वा शत्रूंश्च ये ते राज्यान्तरायिणः। तानाप्तैः पुरुषैर्दूराद्घातयेथाः परस्परम् ॥१५-१०-१०॥
कर्मदृष्ट्याथ भृत्यांस्त्वं वरयेथाः कुरूद्वह। कारयेथाश्च कर्माणि युक्तायुक्तैरधिष्ठितैः ॥१५-१०-११॥
सेनाप्रणेता च भवेत्तव तात दृढव्रतः। शूरः क्लेशसहश्चैव प्रियश्च तव मानवः ॥१५-१०-१२॥
सर्वे जानपदाश्चैव तव कर्माणि पाण्डव। पौरोगवाश्च सभ्याश्च कुर्युर्ये व्यवहारिणः ॥१५-१०-१३॥
स्वरन्ध्रं पररन्ध्रं च स्वेषु चैव परेषु च। उपलक्षयितव्यं ते नित्यमेव युधिष्ठिर ॥१५-१०-१४॥
देशान्तरस्थाश्च नरा विक्रान्ताः सर्वकर्मसु। मात्राभिरनुरूपाभिरनुग्राह्या हितास्त्वया ॥१५-१०-१५॥
गुणार्थिनां गुणः कार्यो विदुषां ते जनाधिप। अविचाल्याश्च ते ते स्युर्यथा मेरुर्महागिरिः ॥१५-१०-१६॥