Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.011
धृतराष्ट्र उवाच॥
मण्डलानि च बुध्येथाः परेषामात्मनस्तथा। उदासीनगुणानां च मध्यमानां तथैव च ॥१५-११-१॥
चतुर्णां शत्रुजातानां सर्वेषामाततायिनाम्। मित्रं चामित्रमित्रं च बोद्धव्यं तेऽरिकर्शन ॥१५-११-२॥
तथामात्या जनपदा दुर्गाणि विषमाणि च। बलानि च कुरुश्रेष्ठ भवन्त्येषां यथेच्छकम् ॥१५-११-३॥
ते च द्वादश कौन्तेय राज्ञां वै विविधात्मका:। मन्त्रिप्रधानाश्च गुणाः षष्टिर्द्वादश च प्रभो ॥१५-११-४॥
एतन्मण्डलमित्याहुराचार्या नीतिकोविदाः। अत्र षाड्गुण्यमायत्तं युधिष्ठिर निबोध तत् ॥१५-११-५॥
वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुनन्दन। द्विसप्तत्या महाबाहो ततः षाड्गुण्यचारिणः ॥१५-११-६॥
यदा स्वपक्षो बलवान्परपक्षस्तथाबलः। विगृह्य शत्रून्कौन्तेय यायात्क्षितिपतिस्तदा ॥ यदा स्वपक्षोऽबलवांस्तदा सन्धिं समाश्रयेत् ॥१५-११-७॥
द्रव्याणां सञ्चयश्चैव कर्तव्यः स्यान्महांस्तथा। यदा समर्थो यानाय नचिरेणैव भारत ॥१५-११-८॥
तदा सर्वं विधेयं स्यात्स्थानं च न विभाजयेत्। भूमिरल्पफला देया विपरीतस्य भारत ॥१५-११-९॥
हिरण्यं कुप्यभूयिष्ठं मित्रं क्षीणमकोशवत्। विपरीतान्न गृह्णीयात्स्वयं सन्धिविशारदः ॥१५-११-१०॥
सन्ध्यर्थं राजपुत्रं च लिप्सेथा भरतर्षभ। विपरीतस्तु तेऽदेयः पुत्र कस्याञ्चिदापदि ॥ तस्य प्रमोक्षे यत्नं च कुर्याः सोपायमन्त्रवित् ॥१५-११-११॥
प्रकृतीनां च कौन्तेय राजा दीनां विभावयेत्। क्रमेण युगपद्द्वंद्वं व्यसनानां बलाबलम् ॥१५-११-१२॥
पीडनं स्तम्भनं चैव कोशभङ्गस्तथैव च। कार्यं यत्नेन शत्रूणां स्वराष्ट्रं रक्षता स्वयम् ॥१५-११-१३॥
न च हिंस्योऽभ्युपगतः सामन्तो वृद्धिमिच्छता। कौन्तेय तं न हिंसेत यो महीं विजिगीषते ॥१५-११-१४॥
गणानां भेदने योगं गच्छेथाः सह मन्त्रिभिः। साधुसङ्ग्रहणाच्चैव पापनिग्रहणात्तथा ॥१५-११-१५॥
दुर्बलाश्चापि सततं नावष्टभ्या बलीयसा। तिष्ठेथा राजशार्दूल वैतसीं वृत्तिमास्थितः ॥१५-११-१६॥
यद्येवमभियायाच्च दुर्बलं बलवान्नृपः। सामादिभिरुपायैस्तं क्रमेण विनिवर्तयेत् ॥१५-११-१७॥
अशक्नुवंस्तु युद्धाय निष्पतेत्सह मन्त्रिभिः। कोशेन पौरैर्दण्डेन ये चान्ये प्रियकारिणः ॥१५-११-१८॥
असम्भवे तु सर्वस्य यथामुख्येन निष्पतेत्। क्रमेणानेन मोक्षः स्याच्छरीरमपि केवलम् ॥१५-११-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.