15.012
धृतराष्ट्र उवाच॥
सन्धिविग्रहमप्यत्र पश्येथा राजसत्तम। द्वियोनिं त्रिविधोपायं बहुकल्पं युधिष्ठिर ॥१५-१२-१॥
राजेन्द्र पर्युपासीथाश्छित्त्वा द्वैविध्यमात्मनः। तुष्टपुष्टबलः शत्रुरात्मवानिति च स्मरेत् ॥१५-१२-२॥
पर्युपासनकाले तु विपरीतं विधीयते। आमर्दकाले राजेन्द्र व्यपसर्पस्ततो वरः ॥१५-१२-३॥
व्यसनं भेदनं चैव शत्रूणां कारयेत्ततः। कर्शनं भीषणं चैव युद्धे चापि बहुक्षयम् ॥१५-१२-४॥
प्रयास्यमानो नृपतिस्त्रिविधं परिचिन्तयेत्। आत्मनश्चैव शत्रोश्च शक्तिं शास्त्रविशारदः ॥१५-१२-५॥
उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत। उपपन्नो नरो यायाद्विपरीतमतोऽन्यथा ॥१५-१२-६॥
आददीत बलं राजा मौलं मित्रबलं तथा। अटवीबलं भृतं चैव तथा श्रेणीबलं च यत् ॥१५-१२-७॥
तत्र मित्रबलं राजन्मौलेन न विशिष्यते। श्रेणीबलं भृतं चैव तुल्य एवेति मे मतिः ॥१५-१२-८॥
तथा चारबलं चैव परस्परसमं नृप। विज्ञेयं बलकालेषु राज्ञा काल उपस्थिते ॥१५-१२-९॥
आपदश्चापि बोद्धव्या बहुरूपा नराधिप। भवन्ति राज्ञां कौरव्य यास्ताः पृथगतः शृणु ॥१५-१२-१०॥
विकल्पा बहवो राजन्नापदां पाण्डुनन्दन। सामादिभिरुपन्यस्य शमयेत्तान्नृपः सदा ॥१५-१२-११॥
यात्रां यायाद्बलैर्युक्तो राजा षड्भिः परन्तप। संयुक्तो देशकालाभ्यां बलैरात्मगुणैस्तथा ॥१५-१२-१२॥
तुष्टपुष्टबलो यायाद्राजा वृद्ध्युदये रतः। आहूतश्चाप्यथो यायादनृतावपि पार्थिवः ॥१५-१२-१३॥
स्थूणाश्मानं वाजिरथप्रधानां; ध्वजद्रुमैः संवृतकूलरोधसम्। पदातिनागैर्बहुकर्दमां नदीं; सपत्ननाशे नृपतिः प्रयायात् ॥१५-१२-१४॥
अथोपपत्त्या शकटं पद्मं वज्रं च भारत। उशना वेद यच्छास्त्रं तत्रैतद्विहितं विभो ॥१५-१२-१५॥
सादयित्वा परबलं कृत्वा च बलहर्षणम्। स्वभूमौ योजयेद्युद्धं परभूमौ तथैव च ॥१५-१२-१६॥
लब्धं प्रशमयेद्राजा निक्षिपेद्धनिनो नरान्। ज्ञात्वा स्वविषयं तं च सामादिभिरुपक्रमेत् ॥१५-१२-१७॥
सर्वथैव महाराज शरीरं धारयेदिह। प्रेत्येह चैव कर्तव्यमात्मनिःश्रेयसं परम् ॥१५-१२-१८॥
एवं कुर्वञ्शुभा वाचो लोकेऽस्मिञ्शृणुते नृपः। प्रेत्य स्वर्गं तथाप्नोति प्रजा धर्मेण पालयन् ॥१५-१२-१९॥
एवं त्वया कुरुश्रेष्ठ वर्तितव्यं प्रजाहितम्। उभयोर्लोकयोस्तात प्राप्तये नित्यमेव च ॥१५-१२-२०॥
भीष्मेण पूर्वमुक्तोऽसि कृष्णेन विदुरेण च। मयाप्यवश्यं वक्तव्यं प्रीत्या ते नृपसत्तम ॥१५-१२-२१॥
एतत्सर्वं यथान्यायं कुर्वीथा भूरिदक्षिण। प्रियस्तथा प्रजानां त्वं स्वर्गे सुखमवाप्स्यसि ॥१५-१२-२२॥
अश्वमेधसहस्रेण यो यजेत्पृथिवीपतिः। पालयेद्वापि धर्मेण प्रजास्तुल्यं फलं लभेत् ॥१५-१२-२३॥