15.013
धृतराष्ट्रवाक्यम्
युधिष्ठिर उवाच॥
एवमेतत्करिष्यामि यथात्थ पृथिवीपते। भूयश्चैवानुशास्योऽहं भवता पार्थिवर्षभ ॥१५-१३-१॥
भीष्मे स्वर्गमनुप्राप्ते गते च मधुसूदने। विदुरे सञ्जये चैव कोऽन्यो मां वक्तुमर्हति ॥१५-१३-२॥
यत्तु मामनुशास्तीह भवानद्य हिते स्थितः। कर्तास्म्येतन्महीपाल निर्वृतो भव भारत ॥१५-१३-३॥
वैशम्पायन उवाच॥
एवमुक्तः स राजर्षिर्धर्मराजेन धीमता। कौन्तेयं समनुज्ञातुमियेष भरतर्षभ ॥१५-१३-४॥
पुत्र विश्रम्यतां तावन्ममापि बलवाञ्श्रमः। इत्युक्त्वा प्राविशद्राजा गान्धार्या भवनं तदा ॥१५-१३-५॥
तमासनगतं देवी गान्धारी धर्मचारिणी। उवाच काले कालज्ञा प्रजापतिसमं पतिम् ॥१५-१३-६॥
अनुज्ञातः स्वयं तेन व्यासेनापि महर्षिणा। युधिष्ठिरस्यानुमते कदारण्यं गमिष्यसि ॥१५-१३-७॥
धृतराष्ट्र उवाच॥
गान्धार्यहमनुज्ञातः स्वयं पित्रा महात्मना। युधिष्ठिरस्यानुमते गन्तास्मि नचिराद्वनम् ॥१५-१३-८॥
अहं हि नाम सर्वेषां तेषां दुर्द्यूतदेविनाम्। पुत्राणां दातुमिच्छामि प्रेत्यभावानुगं वसु ॥ सर्वप्रकृतिसांनिध्यं कारयित्वा स्ववेश्मनि ॥१५-१३-९॥
वैशम्पायन उवाच॥
इत्युक्त्वा धर्मराजाय प्रेषयामास पार्थिवः। स च तद्वचनात्सर्वं समानिन्ये महीपतिः ॥१५-१३-१०॥
ततो निष्क्रम्य नृपतिस्तस्मादन्तःपुरात्तदा। सर्वं सुहृज्जनं चैव सर्वाश्च प्रकृतीस्तथा ॥ समवेतांश्च तान्सर्वान्पौरजानपदानथ ॥१५-१३-११॥
ब्राह्मणांश्च महीपालान्नानादेशसमागतान्। ततः प्राह महातेजा धृतराष्ट्रो महीपतिः ॥१५-१३-१२॥
शृण्वन्त्येकाग्रमनसो ब्राह्मणाः कुरुजाङ्गलाः। क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव समागताः ॥१५-१३-१३॥
भवन्तः कुरवश्चैव बहुकालं सहोषिताः। परस्परस्य सुहृदः परस्परहिते रताः ॥१५-१३-१४॥
यदिदानीमहं ब्रूयामस्मिन्काल उपस्थिते। तथा भवद्भिः कर्तव्यमविचार्य वचो मम ॥१५-१३-१५॥
अरण्यगमने बुद्धिर्गान्धारीसहितस्य मे। व्यासस्यानुमते राज्ञस्तथा कुन्तीसुतस्य च ॥ भवन्तोऽप्यनुजानन्तु मा वोऽन्या भूद्विचारणा ॥१५-१३-१६॥
अस्माकं भवतां चैव येयं प्रीतिर्हि शाश्वती। न चान्येष्वस्ति देशेषु राज्ञामिति मतिर्मम ॥१५-१३-१७॥
श्रान्तोऽस्मि वयसानेन तथा पुत्रविनाकृतः। उपवासकृशश्चास्मि गान्धारीसहितोऽनघाः ॥१५-१३-१८॥
युधिष्ठिरगते राज्ये प्राप्तश्चास्मि सुखं महत्। मन्ये दुर्योधनैश्वर्याद्विशिष्टमिति सत्तमाः ॥१५-१३-१९॥
मम त्वन्धस्य वृद्धस्य हतपुत्रस्य का गतिः। ऋते वनं महाभागास्तन्मानुज्ञातुमर्हथ ॥१५-१३-२०॥
तस्य तद्वचनं श्रुत्वा सर्वे ते कुरुजाङ्गलाः। बाष्पसंदिग्धया वाचा रुरुदुर्भरतर्षभ ॥१५-१३-२१॥
तानविब्रुवतः किञ्चिद्दुःखशोकपरायणान्। पुनरेव महातेजा धृतराष्ट्रोऽब्रवीदिदम् ॥१५-१३-२२॥