Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.014
धृतराष्ट्र उवाच॥
शन्तनुः पालयामास यथावत्पृथिवीमिमाम्। तथा विचित्रवीर्यश्च भीष्मेण परिपालितः ॥ पालयामास वस्तातो विदितं वो नसंशयः ॥१५-१४-१॥
यथा च पाण्डुर्भ्राता मे दयितो भवतामभूत्। स चापि पालयामास यथावत्तच्च वेत्थ ह ॥१५-१४-२॥
मया च भवतां सम्यक्छुश्रूषा या कृतानघाः। असम्यग्वा महाभागास्तत्क्षन्तव्यमतन्द्रितैः ॥१५-१४-३॥
यच्च दुर्योधनेनेदं राज्यं भुक्तमकण्टकम्। अपि तत्र न वो मन्दो दुर्बुद्धिरपराद्धवान् ॥१५-१४-४॥
तस्यापराधाद्दुर्बुद्धेरभिमानान्महीक्षिताम्। विमर्दः सुमहानासीदनयान्मत्कृतादथ ॥१५-१४-५॥
तन्मया साधु वापीदं यदि वासाधु वै कृतम्। तद्वो हृदि न कर्तव्यं मामनुज्ञातुमर्हथ ॥१५-१४-६॥
वृद्धोऽयं हतपुत्रोऽयं दुःखितोऽयं जनाधिपः। पूर्वराज्ञां च पुत्रोऽयमिति कृत्वानुजानत ॥१५-१४-७॥
इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी। गान्धारी पुत्रशोकार्ता तुल्यं याचति वो मया ॥१५-१४-८॥
हतपुत्राविमौ वृद्धौ विदित्वा दुःखितौ तथा। अनुजानीत भद्रं वो व्रजावः शरणं च वः ॥१५-१४-९॥
अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः। सर्वैर्भवद्भिर्द्रष्टव्यः समेषु विषमेषु च ॥ न जातु विषमं चैव गमिष्यति कदाचन ॥१५-१४-१०॥
चत्वारः सचिवा यस्य भ्रातरो विपुलौजसः। लोकपालोपमा ह्येते सर्वे धर्मार्थदर्शिनः ॥१५-१४-११॥
ब्रह्मेव भगवानेष सर्वभूतजगत्पतिः। युधिष्ठिरो महातेजा भवतः पालयिष्यति ॥१५-१४-१२॥
अवश्यमेव वक्तव्यमिति कृत्वा ब्रवीमि वः। एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः ॥ भवन्तोऽस्य च वीरस्य न्यासभूता मया कृताः ॥१५-१४-१३॥
यद्येव तैः कृतं किञ्चिद्व्यलीकं वा सुतैर्मम। यद्यन्येन मदीयेन तदनुज्ञातुमर्हथ ॥१५-१४-१४॥
भवद्भिर्हि न मे मन्युः कृतपूर्वः कथञ्चन। अत्यन्तगुरुभक्तानामेषोऽञ्जलिरिदं नमः ॥१५-१४-१५॥
तेषामस्थिरबुद्धीनां लुब्धानां कामचारिणाम्। कृते याचामि वः सर्वान्गान्धारीसहितोऽनघाः ॥१५-१४-१६॥
इत्युक्तास्तेन ते राज्ञा पौरजानपदा जनाः। नोचुर्बाष्पकलाः किञ्चिद्वीक्षां चक्रुः परस्परम् ॥१५-१४-१७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.