15.015
वैशम्पायन उवाच॥
एवमुक्तास्तु ते तेन पौरजानपदा जनाः। वृद्धेन राज्ञा कौरव्य नष्टसञ्ज्ञा इवाभवन् ॥१५-१५-१॥
तूष्णीम्भूतांस्ततस्तांस्तु बाष्पकण्ठान्महीपतिः। धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत ॥१५-१५-२॥
वृद्धं मां हतपुत्रं च धर्मपत्न्या सहानया। विलपन्तं बहुविधं कृपणं चैव सत्तमाः ॥१५-१५-३॥
पित्रा स्वयमनुज्ञातं कृष्णद्वैपायनेन वै। वनवासाय धर्मज्ञा धर्मज्ञेन नृपेण च ॥१५-१५-४॥
सोऽहं पुनः पुनर्याचे शिरसावनतोऽनघाः। गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ ॥१५-१५-५॥
श्रुत्वा तु कुरुराजस्य वाक्यानि करुणानि ते। रुरुदुः सर्वतो राजन्समेताः कुरुजाङ्गलाः ॥१५-१५-६॥
उत्तरीयैः करैश्चापि सञ्छाद्य वदनानि ते। रुरुदुः शोकसन्तप्ता मुहूर्तं पितृमातृवत् ॥१५-१५-७॥
हृदयैः शून्यभूतैस्ते धृतराष्ट्रप्रवासजम्। दुःखं सन्धारयन्तः स्म नष्टसञ्ज्ञा इवाभवन् ॥१५-१५-८॥
ते विनीय तमायासं कुरुराजवियोगजम्। शनैः शनैस्तदान्योन्यमब्रुवन्स्वमतान्युत ॥१५-१५-९॥
ततः सन्धाय ते सर्वे वाक्यान्यथ समासतः। एकस्मिन्ब्राह्मणे राजन्नावेश्योचुर्नराधिपम् ॥१५-१५-१०॥
ततः स्वचरणे वृद्धः संमतोऽर्थविशारदः। साम्बाख्यो बह्वृचो राजन्वक्तुं समुपचक्रमे ॥१५-१५-११॥
अनुमान्य महाराजं तत्सदः सम्प्रभाष्य च। विप्रः प्रगल्भो मेधावी स राजानमुवाच ह ॥१५-१५-१२॥
राजन्वाक्यं जनस्यास्य मयि सर्वं समर्पितम्। वक्ष्यामि तदहं वीर तज्जुषस्व नराधिप ॥१५-१५-१३॥
यथा वदसि राजेन्द्र सर्वमेतत्तथा विभो। नात्र मिथ्या वचः किञ्चित्सुहृत्त्वं नः परस्परम् ॥१५-१५-१४॥
न जात्वस्य तु वंशस्य राज्ञां कश्चित्कदाचन। राजासीद्यः प्रजापालः प्रजानामप्रियो भवेत् ॥१५-१५-१५॥
पितृवद्भ्रातृवच्चैव भवन्तः पालयन्ति नः। न च दुर्योधनः किञ्चिदयुक्तं कृतवान्नृप ॥१५-१५-१६॥
यथा ब्रवीति धर्मज्ञो मुनिः सत्यवतीसुतः। तथा कुरु महाराज स हि नः परमो गुरुः ॥१५-१५-१७॥
त्यक्ता वयं तु भवता दुःखशोकपरायणाः। भविष्यामश्चिरं राजन्भवद्गुणशतैर्हृताः ॥१५-१५-१८॥
यथा शन्तनुना गुप्ता राज्ञा चित्राङ्गदेन च। भीष्मवीर्योपगूढेन पित्रा च तव पार्थिव ॥१५-१५-१९॥
भवद्बुद्धियुजा चैव पाण्डुना पृथिवीक्षिता। तथा दुर्योधनेनापि राज्ञा सुपरिपालिताः ॥१५-१५-२०॥
न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान्नृप। पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे ॥ वयमास्म यथा सम्यग्भवतो विदितं तथा ॥१५-१५-२१॥
तथा वर्षसहस्राय कुन्तीपुत्रेण धीमता। पाल्यमाना धृतिमता सुखं विन्दामहे नृप ॥१५-१५-२२॥
राजर्षीणां पुराणानां भवतां वंशधारिणाम्। कुरुसंवरणादीनां भरतस्य च धीमतः ॥१५-१५-२३॥
वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः। नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते ॥१५-१५-२४॥
उषिताः स्म सुखं नित्यं भवता परिपालिताः। सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते ॥१५-१५-२५॥
यत्तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति। भवन्तमनुनेष्यामि तत्रापि कुरुनन्दन ॥१५-१५-२६॥