Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.016
ब्राह्मण उवाच॥
न तद्दुर्योधनकृतं न च तद्भवता कृतम्। न कर्णसौबलाभ्यां च कुरवो यत्क्षयं गताः ॥१५-१६-१॥
दैवं तत्तु विजानीमो यन्न शक्यं प्रबाधितुम्। दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ॥१५-१६-२॥
अक्षौहिण्यो महाराज दशाष्टौ च समागताः। अष्टादशाहेन हता दशभिर्योधपुङ्गवैः ॥१५-१६-३॥
भीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना। युयुधानेन वीरेण धृष्टद्युम्नेन चैव ह ॥१५-१६-४॥
चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनयमैर्नृप। जनक्षयोऽयं नृपते कृतो दैवबलात्कृतैः ॥१५-१६-५॥
अवश्यमेव सङ्ग्रामे क्षत्रियेण विशेषतः। कर्तव्यं निधनं लोके शस्त्रेण क्षत्रबन्धुना ॥१५-१६-६॥
तैरियं पुरुषव्याघ्रैर्विद्याबाहुबलान्वितैः। पृथिवी निहता सर्वा सहया सरथद्विपा ॥१५-१६-७॥
न स राजापराध्नोति पुत्रस्तव महामनाः। न भवान्न च ते भृत्या न कर्णो न च सौबलः ॥१५-१६-८॥
यद्विनष्टाः कुरुश्रेष्ठा राजानश्च सहस्रशः। सर्वं दैवकृतं तद्वै कोऽत्र किं वक्तुमर्हति ॥१५-१६-९॥
गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः। धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतम् ॥१५-१६-१०॥
लभतां वीरलोकान्स ससहायो नराधिपः। द्विजाग्र्यैः समनुज्ञातस्त्रिदिवे मोदतां सुखी ॥१५-१६-११॥
प्राप्स्यते च भवान्पुण्यं धर्मे च परमां स्थितिम्। वेद पुण्यं च कार्त्स्न्येन सम्यग्भरतसत्तम ॥१५-१६-१२॥
दृष्टापदानाश्चास्माभिः पाण्डवाः पुरुषर्षभाः। समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः ॥१५-१६-१३॥
अनुवत्स्यन्ति चापीमाः समेषु विषमेषु च। प्रजाः कुरुकुलश्रेष्ठ पाण्डवाञ्शीलभूषणान् ॥१५-१६-१४॥
ब्रह्मदेयाग्रहारांश्च परिहारांश्च पार्थिव। पूर्वराजातिसर्गांश्च पालयत्येव पाण्डवः ॥१५-१६-१५॥
दीर्घदर्शी कृतप्रज्ञः सदा वैश्रवणो यथा। अक्षुद्रसचिवश्चायं कुन्तीपुत्रो महामनाः ॥१५-१६-१६॥
अप्यमित्रे दयावांश्च शुचिश्च भरतर्षभ। ऋजु पश्यति मेधावी पुत्रवत्पाति नः सदा ॥१५-१६-१७॥
विप्रियं च जनस्यास्य संसर्गाद्धर्मजस्य वै। न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः ॥१५-१६-१८॥
मन्दा मृदुषु कौरव्यास्तीक्ष्णेष्वाशीविषोपमाः। वीर्यवन्तो महात्मानः पौराणां च हिते रताः ॥१५-१६-१९॥
न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती। अस्मिञ्जने करिष्यन्ति प्रतिकूलानि कर्हिचित् ॥१५-१६-२०॥
भवत्कृतमिमं स्नेहं युधिष्ठिरविवर्धितम्। न पृष्ठतः करिष्यन्ति पौरजानपदा जनाः ॥१५-१६-२१॥
अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः। मानवान्पालयिष्यन्ति भूत्वा धर्मपरायणाः ॥१५-१६-२२॥
स राजन्मानसं दुःखमपनीय युधिष्ठिरात्। कुरु कार्याणि धर्म्याणि नमस्ते भरतर्षभ ॥१५-१६-२३॥
वैशम्पायन उवाच॥
तस्य तद्वचनं धर्म्यमनुबन्धगुणोत्तरम्। साधु साध्विति सर्वः स जनः प्रतिगृहीतवान् ॥१५-१६-२४॥
धृतराष्ट्रश्च तद्वाक्यमभिपूज्य पुनः पुनः। विसर्जयामास तदा सर्वास्तु प्रकृतीः शनैः ॥१५-१६-२५॥
स तैः सम्पूजितो राजा शिवेनावेक्षितस्तदा। प्राञ्जलिः पूजयामास तं जनं भरतर्षभ ॥१५-१६-२६॥
ततो विवेश भुवनं गान्धार्या सहितो नृपः। व्युष्टायां चैव शर्वर्यां यच्चकार निबोध तत् ॥१५-१६-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.