15.017
भीमसेनवाक्यम्
वैशम्पायन उवाच॥
व्युषितायां रजन्यां तु धृतराष्ट्रोऽम्बिकासुतः। विदुरं प्रेषयामास युधिष्ठिरनिवेशनम् ॥१५-१७-१॥
स गत्वा राजवचनादुवाचाच्युतमीश्वरम्। युधिष्ठिरं महातेजाः सर्वबुद्धिमतां वरः ॥१५-१७-२॥
धृतराष्ट्रो महाराज वनवासाय दीक्षितः। गमिष्यति वनं राजन्कार्त्तिकीमागतामिमाम् ॥१५-१७-३॥
स त्वा कुरुकुलश्रेष्ठ किञ्चिदर्थमभीप्सति। श्राद्धमिच्छति दातुं स गाङ्गेयस्य महात्मनः ॥१५-१७-४॥
द्रोणस्य सोमदत्तस्य बाह्लीकस्य च धीमतः। पुत्राणां चैव सर्वेषां ये चास्य सुहृदो हताः ॥ यदि चाभ्यनुजानीषे सैन्धवापसदस्य च ॥१५-१७-५॥
एतच्छ्रुत्वा तु वचनं विदुरस्य युधिष्ठिरः। हृष्टः सम्पूजयामास गुडाकेशश्च पाण्डवः ॥१५-१७-६॥
न तु भीमो दृढक्रोधस्तद्वचो जगृहे तदा। विदुरस्य महातेजा दुर्योधनकृतं स्मरन् ॥१५-१७-७॥
अभिप्रायं विदित्वा तु भीमसेनस्य फल्गुनः। किरीटी किञ्चिदानम्य भीमं वचनमब्रवीत् ॥१५-१७-८॥
भीम राजा पिता वृद्धो वनवासाय दीक्षितः। दातुमिच्छति सर्वेषां सुहृदामौर्ध्वदेहिकम् ॥१५-१७-९॥
भवता निर्जितं वित्तं दातुमिच्छति कौरवः। भीष्मादीनां महाबाहो तदनुज्ञातुमर्हसि ॥१५-१७-१०॥
दिष्ट्या त्वद्य महाबाहो धृतराष्ट्रः प्रयाचति। याचितो यः पुरास्माभिः पश्य कालस्य पर्ययम् ॥१५-१७-११॥
योऽसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः। परैर्विनिहतापत्यो वनं गन्तुमभीप्सति ॥१५-१७-१२॥
मा तेऽन्यत्पुरुषव्याघ्र दानाद्भवतु दर्शनम्। अयशस्यमतोऽन्यत्स्यादधर्म्यं च महाभुज ॥१५-१७-१३॥
राजानमुपतिष्ठस्व ज्येष्ठं भ्रातरमीश्वरम्। अर्हस्त्वमसि दातुं वै नादातुं भरतर्षभ ॥ एवं ब्रुवाणं कौन्तेयं धर्मराजोऽभ्यपूजयत् ॥१५-१७-१४॥
भीमसेनस्तु सक्रोधः प्रोवाचेदं वचस्तदा। वयं भीष्मस्य कुर्मेह प्रेतकार्याणि फल्गुन ॥१५-१७-१५॥
सोमदत्तस्य नृपतेर्भूरिश्रवस एव च। बाह्लीकस्य च राजर्षेर्द्रोणस्य च महात्मनः ॥१५-१७-१६॥
अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति। श्राद्धानि पुरुषव्याघ्र मादात्कौरवको नृपः ॥१५-१७-१७॥
इति मे वर्तते बुद्धिर्मा वो नन्दन्तु शत्रवः। कष्टात्कष्टतरं यान्तु सर्वे दुर्योधनादयः ॥ यैरियं पृथिवी सर्वा घातिता कुलपांसनैः ॥१५-१७-१८॥
कुतस्त्वमद्य विस्मृत्य वैरं द्वादशवार्षिकम्। अज्ञातवासगमनं द्रौपदीशोकवर्धनम् ॥ क्व तदा धृतराष्ट्रस्य स्नेहोऽस्मास्वभवत्तदा ॥१५-१७-१९॥
कृष्णाजिनोपसंवीतो हृताभरणभूषणः। सार्धं पाञ्चालपुत्र्या त्वं राजानमुपजग्मिवान् ॥ क्व तदा द्रोणभीष्मौ तौ सोमदत्तोऽपि वाभवत् ॥१५-१७-२०॥
यत्र त्रयोदश समा वने वन्येन जीवसि। न तदा त्वा पिता ज्येष्ठः पितृत्वेनाभिवीक्षते ॥१५-१७-२१॥
किं ते तद्विस्मृतं पार्थ यदेष कुलपांसनः। दुर्वृत्तो विदुरं प्राह द्यूते किं जितमित्युत ॥१५-१७-२२॥
तमेवंवादिनं राजा कुन्तीपुत्रो युधिष्ठिरः। उवाच भ्रातरं धीमाञ्जोषमास्वेति भर्त्सयन् ॥१५-१७-२३॥