Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.024
वैशम्पायन उवाच॥
कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम। व्रीडिताः संन्यवर्तन्त पाञ्चाल्या सहितानघाः ॥१५-२४-१॥
ततः शब्दो महानासीत्सर्वेषामेव भारत। अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथागताम् ॥१५-२४-२॥
प्रदक्षिणमथावृत्य राजानं पाण्डवास्तदा। अभिवाद्य न्यवर्तन्त पृथां तामनिवर्त्य वै ॥१५-२४-३॥
ततोऽब्रवीन्महाराजो धृतराष्ट्रोऽम्बिकासुतः। गान्धारीं विदुरं चैव समाभाष्य निगृह्य च ॥१५-२४-४॥
युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम्। यथा युधिष्ठिरः प्राह तत्सर्वं सत्यमेव हि ॥१५-२४-५॥
पुत्रैश्वर्यं महदिदमपास्य च महाफलम्। का नु गच्छेद्वनं दुर्गं पुत्रानुत्सृज्य मूढवत् ॥१५-२४-६॥
राज्यस्थया तपस्तप्तं दानं दत्तं व्रतं कृतम्। अनया शक्यमद्येह श्रूयतां च वचो मम ॥१५-२४-७॥
गान्धारि परितुष्टोऽस्मि वध्वाः शुश्रूषणेन वै। तस्मात्त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि ॥१५-२४-८॥
इत्युक्ता सौबलेयी तु राज्ञा कुन्तीमुवाच ह। तत्सर्वं राजवचनं स्वं च वाक्यं विशेषवत् ॥१५-२४-९॥
न च सा वनवासाय देवीं कृतमतिं तदा। शक्नोत्युपावर्तयितुं कुन्तीं धर्मपरां सतीम् ॥१५-२४-१०॥
तस्यास्तु तं स्थिरं ज्ञात्वा व्यवसायं कुरुस्त्रियः। निवृत्तांश्च कुरुश्रेष्ठान्दृष्ट्वा प्ररुरुदुस्तदा ॥१५-२४-११॥
उपावृत्तेषु पार्थेषु सर्वेष्वन्तःपुरेषु च। ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा ॥१५-२४-१२॥
पाण्डवा अपि दीनास्ते दुःखशोकपरायणाः। यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस्तदा ॥१५-२४-१३॥
तदहृष्टमिवाकूजं गतोत्सवमिवाभवत्। नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम् ॥१५-२४-१४॥
सर्वे चासन्निरुत्साहाः पाण्डवा जातमन्यवः। कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः ॥१५-२४-१५॥
धृतराष्ट्रस्तु तेनाह्ना गत्वा सुमहदन्तरम्। ततो भागीरथीतीरे निवासमकरोत्प्रभुः ॥१५-२४-१६॥
प्रादुष्कृता यथान्यायमग्नयो वेदपारगैः। व्यराजन्त द्विजश्रेष्ठैस्तत्र तत्र तपोधनैः ॥ प्रादुष्कृताग्निरभवत्स च वृद्धो नराधिपः ॥१५-२४-१७॥
स राजाग्नीन्पर्युपास्य हुत्वा च विधिवत्तदा। सन्ध्यागतं सहस्रांशुमुपातिष्ठत भारत ॥१५-२४-१८॥
विदुरः सञ्जयश्चैव राज्ञः शय्यां कुशैस्ततः। चक्रतुः कुरुवीरस्य गान्धार्याश्चाविदूरतः ॥१५-२४-१९॥
गान्धार्याः संनिकर्षे तु निषसाद कुशेष्वथ। युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता ॥१५-२४-२०॥
तेषां संश्रवणे चापि निषेदुर्विदुरादयः। याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः ॥१५-२४-२१॥
प्राधीतद्विजमुख्या सा सम्प्रज्वालितपावका। बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धनी ॥१५-२४-२२॥
ततो रात्र्यां व्यतीतायां कृतपूर्वाह्णिकक्रियाः। हुत्वाग्निं विधिवत्सर्वे प्रययुस्ते यथाक्रमम् ॥ उदङ्मुखा निरीक्षन्त उपवासपरायणाः ॥१५-२४-२३॥
स तेषामतिदुःखोऽभून्निवासः प्रथमेऽहनि। शोचतां शोच्यमानानां पौरजानपदैर्जनैः ॥१५-२४-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.