15.023
कुन्त्युवाच॥
एवमेतन्महाबाहो यथा वदसि पाण्डव। कृतमुद्धर्षणं पूर्वं मया वः सीदतां नृप ॥१५-२३-१॥
द्यूतापहृतराज्यानां पतितानां सुखादपि। ज्ञातिभिः परिभूतानां कृतमुद्धर्षणं मया ॥१५-२३-२॥
कथं पाण्डोर्न नश्येत सन्ततिः पुरुषर्षभाः। यशश्च वो न नश्येत इति चोद्धर्षणं कृतम् ॥१५-२३-३॥
यूयमिन्द्रसमाः सर्वे देवतुल्यपराक्रमाः। मा परेषां मुखप्रेक्षाः स्थेत्येवं तत्कृतं मया ॥१५-२३-४॥
कथं धर्मभृतां श्रेष्ठो राजा त्वं वासवोपमः। पुनर्वने न दुःखी स्या इति चोद्धर्षणं कृतम् ॥१५-२३-५॥
नागायुतसमप्राणः ख्यातविक्रमपौरुषः। नायं भीमोऽत्ययं गच्छेदिति चोद्धर्षणं कृतम् ॥१५-२३-६॥
भीमसेनादवरजस्तथायं वासवोपमः। विजयो नावसीदेत इति चोद्धर्षणं कृतम् ॥१५-२३-७॥
नकुलः सहदेवश्च तथेमौ गुरुवर्तिनौ। क्षुधा कथं न सीदेतामिति चोद्धर्षणं कृतम् ॥१५-२३-८॥
इयं च बृहती श्यामा श्रीमत्यायतलोचना। वृथा सभातले क्लिष्टा मा भूदिति च तत्कृतम् ॥१५-२३-९॥
प्रेक्षन्त्या मे तदा हीमां वेपन्तीं कदलीमिव। स्त्रीधर्मिणीमनिन्द्याङ्गीं तथा द्यूतपराजिताम् ॥१५-२३-१०॥
दुःशासनो यदा मौढ्याद्दासीवत्पर्यकर्षत। तदैव विदितं मह्यं पराभूतमिदं कुलम् ॥१५-२३-११॥
विषण्णाः कुरवश्चैव तदा मे श्वशुरादयः। यदैषा नाथमिच्छन्ती व्यलपत्कुररी यथा ॥१५-२३-१२॥
केशपक्षे परामृष्टा पापेन हतबुद्धिना। यदा दुःशासनेनैषा तदा मुह्याम्यहं नृप ॥१५-२३-१३॥
युष्मत्तेजोविवृद्ध्यर्थं मया ह्युद्धर्षणं कृतम्। तदानीं विदुरावाक्यैरिति तद्वित्त पुत्रकाः ॥१५-२३-१४॥
कथं न राजवंशोऽयं नश्येत्प्राप्य सुतान्मम। पाण्डोरिति मया पुत्र तस्मादुद्धर्षणं कृतम् ॥१५-२३-१५॥
न तस्य पुत्रः पौत्रौ वा कुत एव स पार्थिव। लभते सुकृताँल्लोकान्यस्माद्वंशः प्रणश्यति ॥१५-२३-१६॥
भुक्तं राज्यफलं पुत्रा भर्तुर्मे विपुलं पुरा। महादानानि दत्तानि पीतः सोमो यथाविधि ॥१५-२३-१७॥
साहं नात्मफलार्थं वै वासुदेवमचूचुदम्। विदुरायाः प्रलापैस्तैः प्लावनार्थं तु तत्कृतम् ॥१५-२३-१८॥
नाहं राज्यफलं पुत्र कामये पुत्रनिर्जितम्। पतिलोकानहं पुण्यान्कामये तपसा विभो ॥१५-२३-१९॥
श्वश्रूश्वशुरयोः कृत्वा शुश्रूषां वनवासिनोः। तपसा शोषयिष्यामि युधिष्ठिर कलेवरम् ॥१५-२३-२०॥
निवर्तस्व कुरुश्रेष्ठ भीमसेनादिभिः सह। धर्मे ते धीयतां बुद्धिर्मनस्ते महदस्तु च ॥१५-२३-२१॥