15.025
धृतराष्ट्रादीनां व्यासाश्रमगमनम्
वैशम्पायन उवाच॥
ततो भागीरथीतीरे मेध्ये पुण्यजनोचिते। निवासमकरोद्राजा विदुरस्य मते स्थितः ॥१५-२५-१॥
तत्रैनं पर्युपातिष्ठन्ब्राह्मणा राष्ट्रवासिनः। क्षत्रविट्शूद्रसङ्घाश्च बहवो भरतर्षभ ॥१५-२५-२॥
स तैः परिवृतो राजा कथाभिरभिनन्द्य तान्। अनुजज्ञे सशिष्यान्वै विधिवत्प्रतिपूज्य च ॥१५-२५-३॥
सायाह्ने स महीपालस्ततो गङ्गामुपेत्य ह। चकार विधिवच्छौचं गान्धारी च यशस्विनी ॥१५-२५-४॥
तथैवान्ये पृथक्सर्वे तीर्थेष्वाप्लुत्य भारत। चक्रुः सर्वाः क्रियास्तत्र पुरुषा विदुरादयः ॥१५-२५-५॥
कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा। गान्धारीं च पृथा राजन्गङ्गातीरमुपानयत् ॥१५-२५-६॥
राज्ञस्तु याजकैस्तत्र कृतो वेदीपरिस्तरः। जुहाव तत्र वह्निं स नृपतिः सत्यसङ्गरः ॥१५-२५-७॥
ततो भागीरथीतीरात्कुरुक्षेत्रं जगाम सः। सानुगो नृपतिर्विद्वान्नियतः संयतेन्द्रियः ॥१५-२५-८॥
तत्राश्रमपदं धीमानभिगम्य स पार्थिवः। आससादाथ राजर्षिः शतयूपं मनीषिणम् ॥१५-२५-९॥
स हि राजा महानासीत्केकयेषु परन्तपः। स पुत्रं मनुजैश्वर्ये निवेश्य वनमाविशत् ॥१५-२५-१०॥
तेनासौ सहितो राजा ययौ व्यासाश्रमं तदा। तत्रैनं विधिवद्राजन्प्रत्यगृह्णात्कुरूद्वहम् ॥१५-२५-११॥
स दीक्षां तत्र सम्प्राप्य राजा कौरवनन्दनः। शतयूपाश्रमे तस्मिन्निवासमकरोत्तदा ॥१५-२५-१२॥
तस्मै सर्वं विधिं राजन्राजाचख्यौ महामतिः। आरण्यकं महाराज व्यासस्यानुमते तदा ॥१५-२५-१३॥
एवं स तपसा राजा धृतराष्ट्रो महामनाः। योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा ॥१५-२५-१४॥
तथैव देवी गान्धारी वल्कलाजिनवासिनी। कुन्त्या सह महाराज समानव्रतचारिणी ॥१५-२५-१५॥
कर्मणा मनसा वाचा चक्षुषा चापि ते नृप। संनियम्येन्द्रियग्राममास्थिताः परमं तपः ॥१५-२५-१६॥
त्वगस्थिभूतः परिशुष्कमांसो; जटाजिनी वल्कलसंवृताङ्गः। स पार्थिवस्तत्र तपश्चचार; महर्षिवत्तीव्रमपेतदोषः ॥१५-२५-१७॥
क्षत्ता च धर्मार्थविदग्र्यबुद्धिः; ससञ्जयस्तं नृपतिं सदारम्। उपाचरद्घोरतपो जितात्मा; तदा कृशो वल्कलचीरवासाः ॥१५-२५-१८॥