Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.029
पाण्डवानां धृतराष्ट्राश्रमाभिगमनम्
वैशम्पायन उवाच॥
एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः। स्मरन्तो मातरं वीरा बभूवुर्भृशदुःखिताः ॥१५-२९-१॥
ये राजकार्येषु पुरा व्यासक्ता नित्यशोऽभवन्। ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे ॥१५-२९-२॥
आविष्टा इव शोकेन नाभ्यनन्दन्त किञ्चन। सम्भाष्यमाणा अपि ते न किञ्चित्प्रत्यपूजयन् ॥१५-२९-३॥
ते स्म वीरा दुराधर्षा गाम्भीर्ये सागरोपमाः। शोकोपहतविज्ञाना नष्टसञ्ज्ञा इवाभवन् ॥१५-२९-४॥
अनुस्मरन्तो जननीं ततस्ते कुरुनन्दनाः। कथं नु वृद्धमिथुनं वहत्यद्य पृथा कृशा ॥१५-२९-५॥
कथं च स महीपालो हतपुत्रो निराश्रयः। पत्न्या सह वसत्येको वने श्वापदसेविते ॥१५-२९-६॥
सा च देवी महाभागा गान्धारी हतबान्धवा। पतिमन्धं कथं वृद्धमन्वेति विजने वने ॥१५-२९-७॥
एवं तेषां कथयतामौत्सुक्यमभवत्तदा। गमने चाभवद्बुद्धिर्धृतराष्ट्रदिदृक्षया ॥१५-२९-८॥
सहदेवस्तु राजानं प्रणिपत्येदमब्रवीत्। अहो मे भवतो दृष्टं हृदयं गमनं प्रति ॥१५-२९-९॥
न हि त्वा गौरवेणाहमशकं वक्तुमात्मना। गमनं प्रति राजेन्द्र तदिदं समुपस्थितम् ॥१५-२९-१०॥
दिष्ट्या द्रक्ष्यामि तां कुन्तीं वर्तयन्तीं तपस्विनीम्। जटिलां तापसीं वृद्धां कुशकाशपरिक्षताम् ॥१५-२९-११॥
प्रासादहर्म्यसंवृद्धामत्यन्तसुखभागिनीम्। कदा नु जननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम् ॥१५-२९-१२॥
अनित्याः खलु मर्त्यानां गतयो भरतर्षभ। कुन्ती राजसुता यत्र वसत्यसुखिनी वने ॥१५-२९-१३॥
सहदेववचः श्रुत्वा द्रौपदी योषितां वरा। उवाच देवी राजानमभिपूज्याभिनन्द्य च ॥१५-२९-१४॥
कदा द्रक्ष्यामि तां देवीं यदि जीवति सा पृथा। जीवन्त्या ह्यद्य नः प्रीतिर्भविष्यति नराधिप ॥१५-२९-१५॥
एषा तेऽस्तु मतिर्नित्यं धर्मे ते रमतां मनः। योऽद्य त्वमस्मान्राजेन्द्र श्रेयसा योजयिष्यसि ॥१५-२९-१६॥
अग्रपादस्थितं चेमं विद्धि राजन्वधूजनम्। काङ्क्षन्तं दर्शनं कुन्त्या गान्धार्याः श्वशुरस्य च ॥१५-२९-१७॥
इत्युक्तः स नृपो देव्या पाञ्चाल्या भरतर्षभ। सेनाध्यक्षान्समानाय्य सर्वानिदमथाब्रवीत् ॥१५-२९-१८॥
निर्यातयत मे सेनां प्रभूतरथकुञ्जराम्। द्रक्ष्यामि वनसंस्थं च धृतराष्ट्रं महीपतिम् ॥१५-२९-१९॥
स्त्र्यध्यक्षांश्चाब्रवीद्राजा यानानि विविधानि मे। सज्जीक्रियन्तां सर्वाणि शिबिकाश्च सहस्रशः ॥१५-२९-२०॥
शकटापणवेशाश्च कोशशिल्पिन एव च। निर्यान्तु कोशपालाश्च कुरुक्षेत्राश्रमं प्रति ॥१५-२९-२१॥
यश्च पौरजनः कश्चिद्द्रष्टुमिच्छति पार्थिवम्। अनावृतः सुविहितः स च यातु सुरक्षितः ॥१५-२९-२२॥
सूदाः पौरोगवाश्चैव सर्वं चैव महानसम्। विविधं भक्ष्यभोज्यं च शकटैरुह्यतां मम ॥१५-२९-२३॥
प्रयाणं घुष्यतां चैव श्वोभूत इति मा चिरम्। क्रियन्तां पथि चाप्यद्य वेश्मानि विविधानि च ॥१५-२९-२४॥
एवमाज्ञाप्य राजा स भ्रातृभिः सह पाण्डवः। श्वोभूते निर्ययौ राजा सस्त्रीबालपुरस्कृतः ॥१५-२९-२५॥
स बहिर्दिवसानेवं जनौघं परिपालयन्। न्यवसन्नृपतिः पञ्च ततोऽगच्छद्वनं प्रति ॥१५-२९-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.